1-3-64 प्रोपाभ्यां युजेः अयज्ञपात्रेषु धातवः आत्मनेपदम् कर्तरि
index: 1.3.64 sutra: प्रोपाभ्यां युजेरयज्ञपात्रेषु
युजिर्योगे स्वरितेत्। तस्य कर्त्रभिप्राये क्रियाफले सिद्धम् एव आत्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। प्र उप इत्येवं पूर्वात् युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति। प्रयुङ्क्ते। उपयुङ्क्ते। अयज्ञपात्रेषु इति किम्? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि}। स्वराध्यन्तोपसृष्टादिति वक्तव्यम्। उद्युङ्क्ते। नियुङ्क्ते। स्वराद्यन्तौपसृष्टातिति किम्? संयुनक्ति।
index: 1.3.64 sutra: प्रोपाभ्यां युजेरयज्ञपात्रेषु
प्रयुङ्क्ते । उपयुङ्क्ते ।<!स्वराद्यन्तोपसर्गादिति वक्तव्यम् !> (वार्तिकम्) ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वंन्यञ्चि पात्राणि प्रयुनक्ति ।
index: 1.3.64 sutra: प्रोपाभ्यां युजेरयज्ञपात्रेषु
प्रोपाभ्यां युजेरयज्ञपात्रेषु - प्रोपाभ्यां ।आत्मनेपद॑मिति शेषः । स्वरेति । स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः । तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः । द्वन्द्वमिति । द्वन्द्वं द्विशः, न्यञ्चि — अधोबिलानीत्यर्थ- ।
index: 1.3.64 sutra: प्रोपाभ्यां युजेरयज्ञपात्रेषु
प्रोपाभ्यां युजेरयज्ञपात्रेषु॥ युजिर्योगे इति ।'युज समाधौ' इत्यस्य,न दैवादिकस्य, अनुदातेत्वादेव सिद्धम्, युजरिति च विवक्षित इकारः, न त्वागन्तुकः। यज्ञपात्रविषयता चास्यैव सम्भवतीति भावः। प्रयुङ्क्त इति। रुधादिभ्यः श्नम्ऽ'श्नसोरल्लोपः' कुत्वचर्त्वे, अनुस्वारपरसवर्णौ। स्वराद्यन्तोपसृष्टदिति। स्वरःउअ इ, आदिरन्तो वा यस्य स स्वराद्यन्तः। तेनोपसर्गेण सम्बन्धः, स्वराद्यन्तोपसृष्टः- सम् निस् दुस् इत्येतान् वर्जयित्वा सर्व एवोपसर्गास्संगृहीताः॥