1-1-13 शे प्रगृह्यम्
शे प्रगृह्यम्
'शे' इत्यस्य प्रगृह्यसंज्ञा भवति ।
'शे' is called प्रगृह्य.
शे इत्येतत् प्रगृह्यसंज्ञं भवति। किमिदं शे इति ? सुपामादेशश्छन्दसि ७.१.३९। न यु॒ष्मे वा॑जबन्धवः (ऋ०८.६.८.१९)। अ॒स्मे इ॑न्द्राबृहस्पती (ऋ०४.४९.४)। युष्मे इति। अस्मे इति। त्वे रायः॒, मे रायः॒ (मा०सं०४.२२)। त्वे इति। मे इति। छान्दसमेतदेवैकमुदाहरणम् अ॒स्मे इ॑न्द्राबृहस्पती इति। अत्र तथा पाठात्। इतरत् तु लौकिकमनुकरणम् । युष्मे इति। अस्मे इति। त्वे इति। मे इति॥
अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् तृतीयम् सूत्रम् । 'शे' इत्यस्य अनेन सूत्रेण प्रगृह्यसंज्ञा भवति ।
किम् नाम 'शे' इति ? अष्टाध्याय्याम् <<सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः>> 7.1.39 अनेन सूत्रेण सुप्-प्रत्ययानाम् अनेके आदेशाः केवलं वैदिकरूपसिद्ध्यर्थम् पाठिताः सन्ति । एतेषु अन्यतमः आदेशः अस्ति 'शे' इति । अस्य आदेशस्य अनेन सूत्रेण प्रगृह्यसंज्ञा दीयते । यथा, अस्मद्-शब्दस्य वेदेषु 'अस्मे' इति चतुर्थीबहुवचनस्य रुपम् प्रयुक्तं दृश्यते । एतद् रूपम् भ्यस्-प्रत्ययस्य 'शे' आदेशं कृत्वा सिद्ध्यति । अस्य 'शे' आदेशस्य प्रकृतसूत्रेण प्रगृह्यसंज्ञा भवति । सम्पूर्णा प्रक्रिया इयम् —
'शे' इति श्रुतेरविशेषात् 'काशे','कुशे' इत्यत्रापि प्रसङ्ग इति मत्वा पृच्छति - किमिदमिति । सुपामादेश इति । काशे तैत्यत्र तु लाक्षणिकत्वादग्रहणमिति भावः । युष्म इति । षष्ठीबहुवचनस्य 'सुपां सुलुक्' इत्यादिना शे आदेशः,'शेषे लोपः' । अस्मे इति । चतुर्थीबहुवचनस्य शे । त्वे मे इति । सप्तम्येकवचनस्य त्वमावेकवचने । असमे इन्द्राबृहस्पती इति । छान्दसमुदाहरणमित्युक्त्वा, इतरतु लोकिकमनुकरणमित्युक्तेन युष्मे वाजबन्धवः, त्वे रायः, मे राय इत्येषामप्यनुकरणत्वमुक्तं स्याद् । अतो यदत्रेतरदिति विवक्षितं तत्स्वरूपेण पठति । युष्मे इतीत्यादि । लौकिकमनुकरणमित्यनेन च सूत्रस्यावश्यारभ्यात्वं दर्शंयति । 'अस्मे इन्द्राबृहस्पती' इत्यादि छान्दसत्वादपि सिद्ध्येत् । इदं तु पदकारैरिति परं प्रयुज्यमानं लौकिकम्, अतो न छान्दसत्वात्सिद्धिरिति ॥