1-1-12 अदसः मात् ईदूदेद् प्रगृह्यम्
index: 1.1.12 sutra: अदसो मात्
अदसः ईत्-ऊत्-एत् मात् प्रगृह्यम्
index: 1.1.12 sutra: अदसो मात्
'अदस्' शब्दस्य येषाम् रूपाणाम् अन्ते 'मी' , 'मू' उत 'मे' इति वर्णसमुदायः विद्यते, तेषाम् 'प्रगृह्यम्' इति संज्ञा भवति ।
index: 1.1.12 sutra: अदसो मात्
The forms of the अदस् word which end in मी / मू / मे are known as 'प्रगृह्य'.
index: 1.1.12 sutra: अदसो मात्
अदसः सम्बन्धी यो मकारस्तस्मात्परा ईदूदेतः प्रगृह्यसंज्ञा भवन्ति । अमी अत्र, अमी आसते ; अमू अत्र, अमू आसाते । एकारस्य नास्त्युदाहरणम् । अदस इति किम् ? शम्यत्र, दाडिम्यत्र । मादिति किम् ? अमुकेऽत्र ॥
index: 1.1.12 sutra: अदसो मात्
अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ॥
index: 1.1.12 sutra: अदसो मात्
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम्? अमुकेऽत्र॥
index: 1.1.12 sutra: अदसो मात्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यतः ईदूतौ च सप्तम्यर्थे 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् द्वितीयं सूत्रम् । अनेन सूत्रेण अदस्-शब्दस्य येषाम् रूपाणाम् अन्ते 'मी' / 'मू', 'मे' इति विद्यते, तेषाम् सर्वेषाम् रूपाणाम् प्रगृह्यसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । एतानि सर्वाणि रूपाणि एतादृशानि —
1) पुंलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्) , अमी (प्रथमाबहुवचनम्)
2) स्त्रीलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्)
3) नपुंसकलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्) ।
इत्युक्ते, संक्षेपेण अदस्-शब्दस्य 'अमी' तथा 'अमू' एतयोः रूपयोः प्रकृतसूत्रेण प्रगृह्यसंज्ञा भवति । प्रगृह्यत्वात् प्लुतप्रगृह्याः अचि नित्यम् 6.1.125 इत्यनेन अच्सन्धौ प्रकृतिभावे कृते 'अमी आसाते', 'अमू आसाते' एतादृशेषु प्रयोगेषु इको यणचि 6.1.77 इति यणादेशः न भवति ।
'अदस्' शब्दस्य सर्वाणि ईकारान्तरूपाणि, ऊकारान्तरूपाणि च मकारोपधानि एव सन्ति । अतः अस्मिन् सूत्रे 'मात्' इति किमर्थं स्वीक्रियते इति प्रश्नः उपतिष्ठते । तस्य समाधानम् इदम् — अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5.3.71 इति सूत्रेण अदस्-शब्दात् 'अकच्' इति स्वार्थिकं प्रत्ययं कृत्वा 'अदकस्' इति किञ्चन शब्दः सिद्ध्यति । अदसो मात् 1.1.12 इत्यत्र कृतेन 'अदस्' इति निर्देशेन <ऽतन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ>' इति परिभाषाम् आश्रित्य अदकस्-शब्दस्य अपि ग्रहणं भवति । अस्य अदकस्-शब्दस्य पुंलिङ्गे प्रथमाबहुवचनस्य 'अमुके' इति एकारान्तम् रूपम् विद्यते । अस्य 'अमुके' इति शब्दस्य प्रगृह्यसंज्ञा नैव इष्यते, यतः 'अमुकेऽत्र' एतादृशाः कृतसन्धिप्रयोगाः भाषायाम् प्राचर्येण प्रयुक्ताः सन्ति । अतः अत्र 'अमुके' इति शब्दस्य प्रगृह्यसंज्ञां निवारयितुम् अदसो मात् 1.1.12 इति सूत्रे 'मात्' इति शब्दस्य ग्रहणं कृतम् अस्ति ।
index: 1.1.12 sutra: अदसो मात्
अदसो मात् - अदसो मात् । 'अदस' इत्यवयवषष्ठी । अदश्शब्दावयवान्मकारादित्यर्थः ।ईदू॑दितिप्रगृह्र॑मिति चानुवर्तते ।मा॑दिति दिग्योगे पञ्चमी । परसभ्दोऽध्याहार्यः । तदाह — अस्मात्पराविति । अदश्शब्दावयवमकारात्परावित्यर्थः ।ए॑दिति नानुवर्तते, अदश्शब्दे मकारात्परस्यैकारस्याऽसंभवात् ।द्विवचन॑मित्यपि नानुवर्तते, अदश्शब्दे मकारात्परस्य ईकारस्य 'अमी' इति बहुवचनत्वात्, ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावर्त्त्याऽभावात् । अमी ईशा इति । अदश्शब्दाज्जसि त्यदाद्यत्वं पररूपत्वं । जसश्शी । आद्गुणः । 'अदे' इति स्थिते एकारस्यएत ई॑दिति ईत्त्वं, दस्य च मत्त्वम् । तदेवम्-॒अमी॑#इति रूपम् । अत्र ईकारस्य द्विवचनत्वा.ञभावात्पूर्वसूत्रेण प्रगृह्रसंज्ञा न प्राप्तेत्यनेन सा विधीयते । रामकृष्णावमू इति । पुंलिङ्गाददश्शब्दात्प्रथमाद्विवचने औङि, त्यदाद्यत्वं, पररूपत्वं । वृद्धिरेचि । अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वं, दस्य मत्वम् । अमू इति रूपम् । यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्रत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्टआ सत्त्वात्पूर्वस#ऊत्रेण तस्य प्रगृह्रत्वं न प्राप्तमित्यनेन विधीयते ।अदसो मा॑दिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामर्थ्यात् । पूर्वसूत्रस्य तु तत्र न सामर्थ्यं, हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात् ।स्त्रियौ फले वा अमू आसाते॑ इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम् । तथाहि स्त्रीलिङ्गददश्शब्दादौङि, त्यदाद्यत्वे, पररूपत्वे, टापि, 'ओङ आप' इति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम् । तथा नपुंसलिङ्गात्तस्मादौङि, त्यदाद्यत्वे, पररूपत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू #इत्येव रूपम् । अत्र पूर्वसूत्रेणैव प्रगृह्रत्वं सिद्धम् । उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात् । अतः पुंलिङ्ग एव अदश्शब्दोऽत्रोदाहरणमिति प्रदर्शयितुं 'रामकृष्णा' वित्युक्तम् । मात्किमिति । 'अदस' इत्येव सूत्रमस्तु, माद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः । अमुकेत्रेतिअव्ययसर्वनाम्नामकच् प्राक्टेः॑ #इत्यकचि अदकश्शब्दाज्जसि, त्यदाद्यत्वं, पररूपत्वम्, जसश्शी, आद्गुणः उत्वमत्वे । 'अमुके' इति रूपम् । अत्र एकारस्य प्रगृह्रत्वनिवृत्त्यर्थं माद्ग्रहणम् । कृते च तस्मिन्नेकारस्य म#आत्परत्वाऽभावान्न प्रगृह्रत्वमिति भावः । नन्वेवमपि माद्ग्रहणं व्यर्थम्, एद्ग्रहणमननुवर्त्त्य ईदूतोरेवाऽत्र प्रगृह्रत्वविधानाब्युपगमेन 'अमुके' इत्यत्र प्रगृह्रत्वप्रसक्तेरेवाऽभावादित्यत आह — असतीति ।अदसो मा॑दित्यत्र ईदूदेतामेकसमासपदोपात्तानां मध्ये ईदूतोद्र्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्रहणादेतोऽनुवृत्तिः प्रतिबद्धा । माद्ग्रहणाऽभावे तु बाधकाऽभावादेतोऽप्यनुवृत्तिः स्यात् । ततश्च 'अमुके' इत्यत्रापि एकारस्य प्रगृह्रत्वप्रसक्तौ तन्निवृत्त्यर्थं माद्ग्रहणम् । कृते तु तस्मिन्नेतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्रत्वम् । तथाच एकाराननुवृत्तिफलसकं माद्ग्रहणमिति भावः ।
index: 1.1.12 sutra: अदसो मात्
'स्वरितेनाधिकारः' इत्यत्र द्वौ पक्षौ-अर्थाधिकारः, शब्दाधिकारश्चेति । तत्रार्थाधिकारो नाम-यस्य यस्मिन्सूत्रे स्वरितत्वं प्रतिज्ञातं तत्र तस्य योऽर्थः स उतरत्राधिक्रियत इति । शब्दाधिकारस्तु स एव शब्दोऽविवक्षितार्थोऽधिकृतस्ततत्सूत्रानुगुणमर्थं प्रतिपादयतीति । तत्रार्थाधिकारे पूर्वत्रेदादिभिस्तदन्तं प्रत्यायितम्, इहानुवृतम् 'मात्' इत्यनेन विशेष्येतेति 'अमुकेऽत्र' इत्यत्रापि प्रसङ्गः, शब्दाधिकारे त्विदादिमात्रस्येहानुवृतस्यापि विशेष्याभावादसति तदन्तविधौ 'मात्' इत्यनेन विशेषणाददोष इति तमाश्रित्याह-ऽतस्मात्परे ईदूदेदन्ताऽ इति । ऽप्रगृह्यसं ज्ञाऽ इति । प्रगृह्यशब्दः संज्ञा येषां ते तथोक्ताः । यद्यपि पूर्वसूत्र एव प्रगृह्यशब्दः संज्ञात्वेन विनियुक्तः, तथापीह संज्ञिनो न प्रत्याययति; स्वरूपपदार्थकस्यैव तस्येहानुवृतेः । किमर्थमिदमुच्यते, यावता स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वात् पूर्वेणैव सिद्धा संज्ञा; स्वरसन्धिप्रकरणे च मुत्वस्यासिद्धत्वादेकारस्यैव विकारप्रसङ्गे प्रकृतिभावोऽपि सिद्धः,अनुनासिकपर्युदासश्च कार्यकालपक्षे लिङ्गत्रयेऽपि द्विवचने सिद्धः ? 'अणोऽप्रगृह्यस्य' इत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वात् । अतोऽनुनासिकपर्य्युदासेऽद्विवचनार्थोऽयमारम्भः, प्रकृतिभावे तु पुंसि द्विवचनार्थश्च । नन्वारब्धेऽप्यस्मिन्यथोद्देशपक्षे संज्ञायां कर्तव्यायां मुत्वमीत्वयोराश्रयात्सिद्धत्वेऽपि स्वरसन्धिप्रकरणे तयोरसिद्धत्वादयावेकादेशप्रसङ्गः, अमी आसते इत्ययादेशः, अमू आसाते इति पुंस्यावादेशः, अमी अत्र इति 'एङः पदान्तादति' इत्येकादेशः । न च संज्ञाया वैयर्थ्यम्; अनुनासिकपर्युदासेनार्थवत्वात् । तत्र हि कर्तव्ये मुत्वमीत्वयोरसिद्धत्वाभावाद्ययोरनेन संज्ञा कृता तावेव ?न, न तं प्रति । कार्यकालपक्षे तु संज्ञायामपि कर्तव्यायामाश्रयात् सिद्धत्वं नाश्रयणीयम्;'अणोऽप्रगृह्यस्य' इत्यत्रोपस्थितेऽस्मिन् कर्तव्ये मुत्वमीत्वयोः सिद्धत्वात्, तावता चास्य चरितार्थत्वात् । तदेवमुभयोरपि पक्षयोः स्वरसन्धिः स्यादेव ? उच्यते; यद्यनुनासिकपर्युदास एव प्रयोजनमभविष्यद् 'अणोऽप्रगृह्यस्यानुनासिकोऽदसो न ' इत्येवावक्ष्यत् । अमुके, अमुयेत्यादावनण्त्वादनवसानत्वाच्चाप्रसङ्गः । अतः संज्ञारम्भसामर्थ्यात् प्रकृतिभावार्थत्वमप्यस्य विज्ञायते, तच्च स्वरसन्धिप्रकरणे मुत्वमीत्वयोः सिद्धत्वमन्तरेणानुपपन्नमित्युभयोरपि पक्षयोः सामर्थ्यादसिद्धत्वबाधः । ऽमादिति किमिऽति । 'अदस' इति षष्ठी, अमी अमू इत्यत्र च मूत्वमीत्वयोः स्थानिनावेकादेशावन्तवद्भावाददस्-शब्दग्रहणेन गृह्यएते इति तदादेशयोरपि तद्ग्रहणेन ग्रहणादस्ति तावदिष्टसिद्धिः । एदिति च निवर्तिष्यते, न च मात्परावीदूतौ सम्भवत इत्यतिप्रसङ्गोऽपि नास्तीति प्रश्नः । ऽअमुकेऽत्रेतिऽ । एकयोगनिर्द्दिष्टानामेकदेशानुवृत्तिर्दुर्ज्ञानेति भावः । न च मादित्यस्मिन् सत्यपि एद्ग्रहणसामर्थ्यादत्र प्रसङ्गः; मादित्यस्य वैयर्थ्यप्रसङ्गात् । न च विकल्पः; अतुल्यबलत्वात् । तद्धि पूर्वत्र चरितार्थम्, मादिति त्वकृतार्थम् । न चानुवृत्तिसामर्थ्यम्; अन्यानुरोधेनाप्यनुवृत्तिसम्भवात् ॥