नॄन् पे

8-3-10 नॄन् पे पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः

Sampurna sutra

Up

नॄन् पे रुँः उभयथा

Neelesh Sanskrit Brief

Up

नॄन्-शब्दस्य अन्तिम-नकारस्य पकारे परे संहितायाम् विकल्पेन रुत्वं भवति ।

Neelesh English Brief

Up

In the context of संहिता, the ending नकार of the word नॄन् , when followed by पकार is optionally converted to रुँ.

Kashika

Up

नृृनित्येतस्य नकारस्य रुर्भवति पशब्दे परतः। अकार उच्चारणार्थः। नृृँः पा॑हि (ऋ० ८.८४.३), नंृृः पाहि। नृृँः प्रीणीहि, नृृंः प्रीणीहि। प इति किम् ? नृृन् भोजयति। उभयथेत्यपि केचिदनुवर्तयन्ति। नृृन् पा॒हि॒ (ऋ० १.१७४.१) इत्यपि यथा स्यात्॥

Siddhanta Kaumudi

Up

नॄनित्यस्य रुः स्याद्वा पकारे परे ॥

Laghu Siddhanta Kaumudi

Up

नॄनित्यस्य रुर्वा पे॥

Neelesh Sanskrit Detailed

Up

सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् दशमं सूत्रम् । नृ-शब्दस्य द्वितीयाबहुवचनस्य नॄन् इति रूपस्य पकारे परे विकल्पेन रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । यथा — नॄन् पाहि → नॄरुँ पाहि [<<नॄन् पे>> 8.3.10 इति नृ-शब्दस्य पकारे परे पाक्षिकं रुँत्वम्] → नॄँरुँ पाहि / नॄंरुँ पाहि [<<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इति अनुस्वारः] → नॄँः पाहि / नॄंः पाहि [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गनिर्माणम्] → नॄँःपाहि / नॄंःपाहि / नॄँ≍पाहि / नॄं≍पाहि [<<कुप्वोः ≍क ≍पौ च>> 8.3.37 इति विकल्पेन उपध्मानीयः]
पक्षे <<नॄन् पे>> 8.3.10 इति नृ-शब्दस्य पकारे परे पाक्षिके रुँत्वाभावे 'नॄन्पाहि' इत्यपि रूपम् सिद्ध्यति ।
अन्यानि कानिचन उदाहरणानि — 1. नॄन् पृच्छ → नॄँःपृच्छ / नॄंःपृच्छ / नॄँः≍पृच्छ / नॄंः≍पृच्छ । 2. नॄन् प्रार्थये → नॄँःप्रार्थये / नॄंःप्रार्थये / नॄँः≍प्रार्थये / नॄंः≍प्रार्थये । 3. नॄन् प्लोषति → नॄँःप्लोषति / नॄंःप्लोषति / नॄँः≍प्लोषति / नॄंः≍प्लोषति । अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन <<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति अनुनासिकादेशः भवति, तदभावे च <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः । रुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका प्रकृतसूत्रस्य काशिकाव्याख्याने नॄन् शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । परन्तु <<उभयथर्क्षु>> 8.3.8 इत्यस्मात् सूत्रात् 'उभयथा' इति अपि केचन अनुवर्तयन्ति, येन रुँत्वस्य विकल्पः सम्भवति — इत्यपि निर्देशः तत्र कृतः दृश्यते । सिद्धान्तकौमुद्याम् तु 'रुः वा स्यात्' इत्येव अर्थः निर्दिष्टः अस्ति ।

Balamanorama

Up

<<नॄन् पे>> - नृन्पे । 'नृन्' इति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रौ लुक् । नलोपाऽभावोऽपि सौत्र एव । 'मतुवसो रु' इत्यतो 'रु' इत्यनुवर्तते ।उभयथर्क्ष्वि॑त्यतंउभयथे॑त्यनुवर्तते । कदाचिद्भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह-नृनित्यस्येत्यादिना ।अलोऽन्त्यस्य॑ । नृन्-पाहीति स्थिते नस्य रुत्वम् । अनुनासिकानुस्वारविकल्पः॑ ।

Padamanjari

Up

नृनिति षष्ठ।ल्र्थे प्रथमा । एवमुतरत्रापि'पे' इत्यकार उच्चारणार्थः, पकारमात्रं निमितम् ॥