नपरे नः

8-3-27 नपरे नः पदस्य पूर्वत्र असिद्धम् संहितायाम् मः हे वा

Sampurna sutra

Up

पदस्य मस्य नपरे हे नः

Neelesh Sanskrit Brief

Up

पदान्तमकारात् अनन्तरम् संहितायाम् 'ह् + न्' इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य <<मोऽनुस्वारः>> 8.3.23 इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन नकारादेशः भवति ।

Neelesh English Brief

Up

In the context of संहिता, if a पदान्तमकार is followed by 'ह् + न्' then that पदान्तमकार is optionally converted to नकार.

Kashika

Up

नकारपरे हे परतो मकारस्य वा नकारादेशो भवति। किन् ह्नुते, किं ह्नुते। कथन् ह्नुते, कथं ह्नुते॥

Siddhanta Kaumudi

Up

नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥

Laghu Siddhanta Kaumudi

Up

नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

Neelesh Sanskrit Detailed

Up

पदान्त म् + (ह् + न्) अस्याम् स्थितौ पदान्तमकारस्य <<मोऽनुस्वारः>> 8.3.23 इत्यनेन प्राप्तं अनुस्वारादेशं विकल्पेन बाधित्वा मकारस्य नकारादेशः भवति । यथा — किम् + ह्नुते → किन्ह्नुते, किं ह्नुते । अत्र विकल्पेन मकारस्य नकारादेशः भवति, पक्षे <<मोऽनुस्वारः>> 8.3.23 इति अनुस्वारादेशः भवति ।

Balamanorama

Up

<<नपरे नः>> - नपरे नः । 'हे' इति 'वे॑-तिम' इति चानुवर्तते । नः परो यस्मादिति विग्रहः । तदाह — नपरे इति । किन्ह्नुते इति । 'ह्नुङ्-अपनयने' मस्य नत्वे रूपम् । तदभावे मोऽनुस्वारः ।

Padamanjari

Up