ब्रुवः पञ्चानामादित आहो ब्रुवः

3-4-84 ब्रुवः पञ्चानाम् आदितः आहः ब्रुवः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य परस्मैपदानां णलतुसुस्थलथुसणल्वमाः लटः

Sampurna sutra

Up

ब्रुवः लटः लस्य परस्मैपदानामादितः पञ्चानाम् णल्-अतुस्-उस्-थल्-अथुस् , ब्रुवः आहः ।

Neelesh Sanskrit Brief

Up

ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य आदितानाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति ।

Neelesh English Brief

Up

In case of the verb ब्रू, the first five परस्मैपद-प्रत्ययाः of लट्लकार are converted optionally to (respectively) णल्, अतुस्, उस्, थल्, and अथुस्. Also, when this happens, the verb 'ब्रू' is converted to 'आह्'.

Kashika

Up

परस्मैपदानामित्येव, लटो वेति च। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानामादिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति। आह, आहतुः, आहुः। आत्थ, आहथुः। न च भवति — ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः। पञ्चानामिति किम्? ब्रूथ। ब्रवीमि, ब्रूवः,ब्रूमः। आदित इति किम्? परेषां मा भूत्। ब्रुव इति पुनर्वचनं स्थान्यर्थम्, परस्मैपदानामेव हि स्यात्॥

Siddhanta Kaumudi

Up

ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥

Laghu Siddhanta Kaumudi

Up

ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः। आह। आहतुः। आहुः॥

Neelesh Sanskrit Detailed

Up

ब्रूञ् (व्यक्तायां वाचि) इति अदादिगणस्य धातुः । अस्मात् धातोः लट्लकारस्य परस्मैपदस्य 'तिप्-तस्-झि-सिप्-थस्' एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन (क्रमेण) णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः अनेन सूत्रेण विधीयन्ते । तथा च, एते आदेशाः यदा भवन्ति तदा ब्रू-धातोः 'आह्' इत्यपि परिवर्तनम् भवति । उदाहरणानि एतानि - 1. प्रथमपुरुषैकवचनम् - ब्रू + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → ब्रू + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुष-एकवचनस्य तिप्-प्रत्ययः] → ब्रू + शप् + तिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → ब्रू + तिप् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक्] → आह् + णल् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> 3.4.84 इति ब्रू-धातोः परस्य प्रथमपुरुषैकवचनस्य तिप्-इत्यस्य णल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आह् अ [इत्संज्ञालोपः] → आह । 2. प्रथमपुरुषद्विवचनम् - ब्रू + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → ब्रू + तस् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुष-द्विवचनस्य तस् -प्रत्ययः] → ब्रू + शप् + तस् [<<कर्तरि शप्>> 3.1.68 इति शप्] → ब्रू + तस् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक्] → आह् + अतुस् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> 3.4.84 इति ब्रू-धातोः परस्य प्रथमपुरुषद्विवचनस्य तस्-इत्यस्य अतुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आहतुः [विसर्गनिर्माणम्] 3. प्रथमपुरुषबहुवचनम् ब्रू + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → ब्रू + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → ब्रू + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → ब्रू + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक्] → आह् + उस् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> 3.4.84 इति ब्रू-धातोः परस्य प्रथमपुरुषबहुवचनस्य झि-इत्यस्य उस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आहुः [विसर्गनिर्माणम्] 4. मध्यमपुरुषैकवचनम् - ब्रू + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → ब्रू + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः] → ब्रू + शप् + सिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → ब्रू + सिप् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक्] → आह् + थल् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> 3.4.84 इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः → आथ् थ [<<आहस्थः>> 8.2.35 इति हकारस्य थकारः] → आत्थ [<<खरि च>> 8.4.55 इति चर्त्वम् ] 5. मध्यमपुरुषद्विवचनम् - ब्रू + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → ब्रू + थस् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुष-द्विवचनस्य थस् -प्रत्ययः] → ब्रू + शप् + थस् [<<कर्तरि शप्>> 3.1.68 इति शप्] → ब्रू + थस् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक्] → आह् + अथुस् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> 3.4.84 इति ब्रू-धातोः परस्य मध्यमपुरुषद्विवचनस्य थस्-इत्यस्य अथुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आहथुः [विसर्गनिर्माणम्]

Balamanorama

Up

<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> - ब्राऊञ् । ब्राउवः पञ्चानाम् ।परस्मैपदानां णलतु॑रित्यत उत्तरसूत्रमिदम् ।विदो लटो वे॑त्यतो लटो वेत्यनुवर्तते । तदाह — ब्राउवो लट इति । आदितः पञ्चानामिति । तिप् तस् झि सिप् थसित्येषामित्यर्थः । णलादयः पञ्चेति । णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थ इति । तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति । आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते —

Padamanjari

Up

पञ्च णलादय इति । आदेशा अपि पञ्चैव, तत्राप्यादितो णलादयः पञ्च, न पुनरिच्छातः पञ्चेत्यर्थः । कथं पुनद्वितीयं पञ्चग्रहणमादिग्रहणं चान्तरेणादेशेष्वयं विशेषो लभ्यते, ननु सर्वैरेव णलादिभिः पञ्चानां स्थाने युक्तम्भवितुम् ? उच्यते; पूर्वसूत्रे तावद्यथासङ्ख्यं प्रवर्तते, ततश्च तत्रैव निर्ज्ञातः स्थानिविशेषेण णलादीनां सम्बन्धः, त एवेहानुवर्तन्त इत्यत्रापि तथैव भविष्यति, ततश्च स्थानिसम्बन्धादिति पूर्वसूत्रे स्थानिविशेषेण सम्बन्धस्य निर्ज्ञातत्वादित्यर्थः । आत्थेति । ठाहस्थःऽ । परेषामिति । थादीनाम् । ननु च'ब्रुवः' इति यदेतत्पञ्चम्यन्तं तदेवार्थाद्विभक्तिविपरिणामो भवतीत्यादेशसम्बन्धे षष्ठ।ल्न्तं विज्ञास्यते, नार्थो ब्रुव इति पुनर्वचनेन ? तत्राह - ब्रुव इति । पुनर्वचनमित्यादि । परस्मैपदानामेव हि स्यादिति । असति श्रुते सम्बन्धिनि विभक्तिविपरिणामो भवति, इह तु परस्मैपदानामिति श्रुतत्वातेषामेव स्यादित्यर्थः ॥