धि च

8-2-25 धि च पदस्य पूर्वत्र असिद्धम् लोपः सस्य

Kashika

Up

index: 8.2.25 sutra: धि च


धकारादौ प्रत्यये परतः सकारस्य लोपो भवति। अलविध्वम्, अलविढ्वम्। अपविध्वम्, अपविढ्वम्। यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च विभाषेटः 8.3.79 इति मूर्धन्याभावपक्षेऽपि न धकारः श्रूयेत। इतः प्रभृति सिचः सकारस्य लोप इष्यते। इह न भवति, चकाद्धि पलितं शिरः इति। तथा पयो धावति इत्येवमादावपि न भवति। सग्धिः, बब्धाम् इति छान्दसो वर्ण लोपः। भाष्यकारस्त्वाह, चकाधि इत्येव भवितव्यम् इति। तेन पयो धावति इत्येवमादौ यत्नानतरमास्थेयम्। धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्। आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति। सर्वम् एवं प्रसिद्धं स्याच् छ्रु तिश्चापि न भिद्यते। लुङश्चापि न मुर्धन्ये ग्रहणं सेटि दुष्यति। घसिभसोर्न सिध्येत तस्मात् सिज्ग्रहणं न तत्। छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे। निष्कर्तारमध्वरस्य इत्येवं प्राप्ते।

Siddhanta Kaumudi

Up

index: 8.2.25 sutra: धि च


धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.25 sutra: धि च


धादौ प्रत्यये परे सस्य लोपः। एधिताध्वे॥

Balamanorama

Up

index: 8.2.25 sutra: धि च


हो ढः - अथ हकारान्ताः । तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूपयितुमाह — हो ढः । 'ह' इति षष्ठन्तम् । झलो झलीत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम् ।स्कोः संयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — हस्येति । झलीति । झलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य वेत्यर्थः । नच डकार एव कुतो न विहित इति वाच्यं,वा द्रुहे॑त्यत्र वक्ष्यमाणत्वात् । पदान्तत्वादिति । सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम् । लिडिति ।लिह आस्वादने॑क्विष् । हल्ङ्यादिना सुलोपः । हस्य ढत्वे 'वावसाने' इति चर्त्वविकल्प इति भावः । लिड्भ्यामिति । स्वादिष्वसर्वनामस्थाने॑ इति पदत्वाज्झलां जशोऽन्ते॑ इति जश्त्वमिति भावः । इत्यादीति । लिड्भिः । लिड्भ्यः । लिहे । लिहः । लिहः लिहो लिहाम् । लिट्त्सु इति । लिह्-सु इति स्थिते हस्य ढः । तस्य जश्त्वेन डः ।खरि चे॑ति चर्त्वस्याऽसिद्धत्वात्ततः प्रागेवडः सी॑ति धुट् । ततो डस्य चर्त्वेन टः । धुटश्चर्त्वसंपन्नस्य तकारस्याऽसिद्धत्वा॑च्चयो द्वितीयाः॑ इति न भवति ।न पदान्ता॑दिति तकारस्य ष्टुत्वं न । लिट्सु इति । धुडभावे रूपम् । हस्य ढः । तस्य जश्त्वेन डः । तस्य चर्त्वेन टः । तस्याऽसिद्धत्वा च्चयो द्वितीयाः॑ इति न । 'न पदान्तात्' इति सस्य न ष्टुत्वमिति भावः ।

Padamanjari

Up

index: 8.2.25 sutra: धि च


ठितः प्रभृति सिचः सकारस्य लोपःऽ इति वक्ष्यति, ततश्च सिचा प्रत्यय आक्षिप्यते, तस्य धकारेण विशेषणातदादिविधिर्विज्ञायते, इत्याह - धकारादौ प्रत्यय इति । भाष्यकारमते तु धकारे पर इति द्रष्टव्यम् । अलविढ्वमिति । लुङ्, च्लेः सिच्, इट्, सिचो लोपः,'विभाषेटः' इति पक्षे मूर्धन्यः । धकारो न श्रूयेतेति । ष्टुअत्वे कृते अलविढ्वमित्येव स्यात् । विभाषाग्रहणं तु तत्र षीध्वमर्थम्, लिर्ङ्थं च स्यात् । इतः प्रभृतीत्यादि । ठुदः स्थास्तम्भोः पूर्वस्यऽ इति पूर्वसवर्णविधानमत्र ज्ञापकमाहुः । अन्यथा उतस्था इति स्थिते तकारात्परस्य सकारस्य'झलो झलि' इति लोपे सति उत्थानमित्यादेः सिद्धत्वादनर्थकं तत् स्यात् । सामान्यापेक्षं च ज्ञापकम् - अस्मिन् प्रकरणे यो लोपः स सिचेति । चकाद्धीति । हे शिरः पलितं सच्चकाद्धि, शोभस्वेत्यर्थः ।'चकासृ दीप्तौ' अदादिः, लोट्, सिपो हिः, हेर्द्धिः,'झलां जश् झशि' इति सकारस्य दकारः । पयो धावतीति ।'हशि च' इति रोरुत्वम् । यदि सिचो लोप इष्यते, सग्धिः, बब्धाम् -'झलो झलि' इति लोपो न स्यात् ? अत आह - सग्धिर्बव्धामिति । अदेः क्तिनि'बहुलं च्छन्दसि' इति घस्लादेशः,'घसिभसोर्हलि च' इत्युपधालोपः,'बहुलं च्छन्दसि' इति सलोपः,'झषस्तथोर्धो' धःऽ जश्त्वेन घकारस्य गकारः, समाना ग्धिः सग्धिरिति'पूर्वापरप्रथम' इत्यादिना कर्मधारयः,'समानस्य च्छन्दसि' इति सभावः । बब्धामिति ।'भस भर्त्सनदीप्त्योः' जुहोत्यादिः, लोट्, तसस्ताम्, श्लौ द्विर्वचनम्, पूर्ववदुपधालोपः, सकारस्य च लोपः, तकारस्व धकारः, पकारस्य जश्त्वम् - बकारः । पयो धावतीत्येवमादावपीति । अन्यथा रुत्वस्य सिद्धत्वात् पूर्वं सलोपः स्यात् । भाष्यकारस्त्वाहेति । पूर्वं तु श्लोकवार्तिककारस्य मतं दर्शितम् । यत्नान्तरमास्थेयमिति । एकपदाश्रयत्वादन्तरङ्गं रुत्वम्, पदद्वयाश्रयत्वाद्वहरिङ्गः सलोपः; तत्र सलोपस्यासिद्धत्वात् पूर्वत्रेति निर्द्दिष्टस्य विसर्गस्याभावादसिद्धत्वाभावादुत्वमेव तावत्प्रवर्तते, अल्विधित्वाच्च स्थानिवत्वाभावादोर्लोपाभाव इति । धि सकार इति । स्थानिनोऽपि विषयत्वविवक्षया सकार इति सप्तमीनिर्देशः । आशाध्वमिति । ठाङ्ः शासु इच्छायाम्ऽ अदादिरनुदातेत् । जश्त्वमिति ।'झलां जश् झशि' इत्यनेन । सर्वमेवमिति । यदि सकारस्य जश्त्वेनाशाध्वमिति सिद्धम्, ततः सर्वमेव लक्ष्यजातं जश्त्वेनैव सिद्धं स्यात्, ततश्च सूत्रमेवेदं न कर्तव्यमिति । श्रुतिश्चापि न भिद्यत इति । व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणे न धार्यत इत्यर्थः । लुङ्श्चापीति । अयं चापरो जश्त्वे सति गुणः, ठिणः षीध्वम्ऽ इत्यत्र लुङे ग्रहणं न कर्तव्यं भवति; अव्योढ्वम्, अलोढ्वमित्यादौ षत्वजश्त्वष्टुअत्वैरेव रूपस्य सिद्धत्वात् । ह्रस्वादङ्गादिति सिचो लोपेऽकृढ्वं कथं भवेत् । दोषान्तराभिधानातु नैतत्सुष्ठुअ निरूपितम् ॥ तद्दर्शयति - सेटि दुष्यतीति । एतच्च यद्यत्र सकारस्य लोपो न स्यादित्युपक्रमे एवोक्तम् । तस्माद्धि चेति कर्तव्यम्, मूर्धन्ये च लुङे ग्रहः । धिसकारे सिचो लोप इति त्वेतदवस्थितम् । तत्र दोषान्तरं दर्सयति - घसिभसोरिति । सग्धिर्बब्धामित्येतयोरसिद्धिप्रसङ्गात्, न सिचो लोपः शक्यो विज्ञातुमित्यर्थः । परिहरति - छान्दसो वर्णलोपो वेति । वाशब्दः पक्षं व्यावर्तयति, सिच एवायं लोपः, घसिभस्योस्तु छान्दसो वर्णलोप इति । क्व यथा ? इत्याह - यथेति । इष्कर्तारमध्वरस्येत्यस्यैकदेशानुकरणादिष्कर्तारमध्वरशब्दात्सप्तमी । तत्र बह्वचाः - इष्कर्तारमिति पठन्ति, तैतिरीयास्तु निष्कर्तारमिति ॥