7-3-53 न्यङ्क्वादीनां च चजोः कु
न्यङ्कु इत्येवमादीनां कवर्गादेशो भवति। न्यङ्कुः। <<नावञ्चेः>> (प०उ० १.१७) इत्युप्रत्ययः। मद्गुः। <<मिमस्जिभ्य उः>> (प०उ० १.७) इति मस्जेरुप्रत्ययः। भृगुः। <<प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च>> (प०उ० १.२८) इत्युप्रत्ययः। दूरेपाकः। फलेपाकः। दूरे पच्यते स्वयमेव फले पच्यते स्वयमेव। पचाद्यच् ३.१.१३४ निपातनाद् वृद्धिः। <<तत्पुरुषे कृति बहुलम्>> ६.३.१४ इति सप्तम्या अलुक्। क्षणेपाक इत्यपि हि केचित् पठन्ति। दूरेपाका, फलेपाका इति टाबन्तमपरेऽधीयते। उकारान्ता वपरे — दूरेपाकुः, फलेपाकुरिति। तेषामुप्रत्ययो निपातनादेव। तक्रम्, वक्रमिति। तञ्चतेर्वञ्चतेश्च <<स्फायितञ्चिवञ्चि०>> (प०उ० २.१३) इत्यादिना सूत्रेण रक्। व्यतिषङ्गः। व्यतिषजतीति पचाद्यच् ३.१.१३४। अनुषङ्गः। अवसर्गः। उपसर्गः। मेघः। श्वपाकः। मांसपाकः। कपोतपाकः। उलूकपाक इति। कर्मोपपदादण् ३.२.१ प्रत्ययः। संज्ञायाम् — अर्घः, अवदाघः, निदाघः। अर्हतेर्घञ्, अर्घः। अवपूर्वस्य निपूर्वस्य च दहेरवदाघः, निदाघः। संज्ञाया अन्यत्र अर्हः। अवदाहः। निदाहः। न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि विपूर्वस्य क्विपि धकारो विधीयते। न्यग्रोहतीति न्यग्रोधः। विरोहतीति वीरुत्॥
कुत्वं स्यात् । न्यङ्कुः । <<नावञ्चेः>> (उणादिः 1.17) इत्युप्रत्ययः ॥
न्यङ्कु इत्येवमादीनां चेति ।'सिद्धये' इति शेषः, कृतकुत्वानामेव गणे पाठात् । किमर्थं तर्हि सूत्रम्, यावता यथैव कुत्वादन्यदपि घत्वगुणदीर्घत्वादिकं निपातनाद्भवति, तथा कुत्वमपि भविष्यति ? सत्यम्; असति तस्मिन्, अनुवादे गणस्य क्वचिदप्यनुपयोगात्प्रमादपाठः शङ्क्येत । पचाद्यचीति । घञि कुत्वस्यासिद्धत्वात् । संज्ञायां मेघ इत्यादि । मेघःउपरोयघरः, निदाघःउघर्मः, अवदाघोऽपि स एव । अर्घःउविक्रीयमाणस्य धान्यादेरियता, मूल्यमित्यन्ये । वीरुदिति । निपातनादुपसर्गस्य दीर्घत्वम् ॥