7-3-32 हनः स्तः अचिण्णलोः वृद्धिः ञ्णिति
तद्धितेष्विति निवृत्तम्। तत्संबद्धं कितीत्यपि। ञ्णितीति वर्तते। हनस्तकारादेशो भवति ञ्णिति प्रत्यये परतः चिण्णलौ वर्जयित्वा। घातयति। घातकः। साधुघाती। घातंघातम्। घातो वर्तते। अचिण्णलोरिति किम्? अघानि। जघान। <<धातोः कार्यमुच्यमानं धातोः प्रत्यये विज्ञायते>>। इह न भवति — वार्त्रघ्नमितरद् इति॥
हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णिल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाट्द्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः । कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । (गणसूत्रम् -) कर्तृकरणाद्धात्वर्थे ॥ कर्तुव्यापारार्थंयत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति असयति ।{$ {!1916 वल्क!} दर्शने$} ।{$ {!1917 चित्र!} चित्रीकरणे$} । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति ।{$ {!1918 अंस!} समाघाते$} ।{$ {!1919 वट!} विभाजने$} ।{$ {!1920 लज!} प्रकाशने$} ॥ वटि लजि इत्येके । वण्टयति । लञ्जयति । अदन्तेषु पाठबवलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि ।{$ {!1921 मिश्र!} सम्पर्के$} ।{$ {!1922 संग्राम!} युद्धे$} । अयमनुदात्तेत अकारप्रश्लेषात् । अससंग्रामत ।{$ {!1923 स्तोम!} श्लाघायाम्$} । अतुस्तोमत् ।{$ {!1924 छिद्र!} कर्णभेदने$} । करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये ।{$ {!1925 अन्ध!} दृष्ट्युपघाते$} । उपसंहार इत्यन्ये । आन्दधत् ।{$ {!1926 दण्ड!} दण्डनिपातने$} ।{$ {!1927 अङ्क!} पदे लक्षणे च$} । आञ्चकत् ।{$ {!1928 अङ्ग!} च$} । आञ्जगत् ।{$ {!1929 सुख!} {!1930 दुःख!} तत्क्रियायाम्$} ।{$ {!1931 रस!} आस्वादनस्नेहनयोः$} ।{$ {!1932 व्यय!} वित्तसमुत्सर्गे$} । अवव्ययत् ।{$ {!1933 रूप!} रूपक्रियायाम्$} । रूपस्य दर्शनं करणं वा रूपक्रिया ।{$ {!1934 छेद!} द्वैधीकरणे$} । अचिच्छेदत् ।{$ {!1935 छद!} अपवारण इत्येके$} । छदयति ।{$ {!1936 लाभ!} प्रेरणे$} ।{$ {!1937 व्रण!} गात्रविचूर्णने$} ।{$ {!1938 वर्ण!} वर्णक्रियाविस्तारगुणवचनेषु$} । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः । बहुलमेतन्निदर्शनम् । अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकमन्येऽपि बोध्याः ॥ तद्यथा ।{$ {!1939 पर्ण!} हरितभावे$} । अपपर्णत् ।{$ {!1940 विष्क!} दर्शने$} ।{$ {!1941 क्षिप!} प्रेरणे$} ।{$ {!1942 वस!} निवासे$} ।{$ {!1943 तुत्थ!} आवरणे$} ॥ एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अवधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थेणिच् । रामो राज्यमचीकरत् इति यथेत्याहुः । चुरादिभ्यो एव बहुलं णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ (गणसूत्रम् -) णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ (गणसूत्रम् -) श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयोलुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वतादीनां तेनातिक्रामति वा श्वेतयति । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः, तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ (गणसूत्रम् -) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु ॥ मास्तु पृच्छभाण्ड-<{SK2676}> इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥
<<हनस्तोऽचिण्णलोः>> - हनस्तोऽचिण्णलोः । 'हन' इति षष्ठी । 'त' इत्यत्राऽकार उच्चारणार्थः । तदाह - हन्तेस्तकार इति । 'अन्तादेश' इत्यलोऽन्त्यपरिभाषया सिद्धम् । ञिति णिति चेति ।अचो ञ्णिती॑त्यतस्तदनुवृत्तेरिति भावः । तथा च हनो नकारस्य तत्वेहो हन्ते॑रिति कुत्वेन हस्य घकारेघाती॑ति ण्यनतं फलितम् ।ततो लटिघाततयी॑ति रूपं स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्तितम् । 'आक्यानात्कृतः' इति वार्तिकस्थंप्रकृतिवच्च कारक॑मित्यंशं शङ्कोत्तरत्वेन योजयिष्यञ्छङ्कामवतारयति — नन्विति । कंसवशिष्टस्येति ।कंसवध॑शब्दस्यैवेत्यर्थः । तस्मादेव णिचो विधानादिति भावः । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह — ततस्चेति । कंसवधशब्दस्याऽङ्गत्वादड्द्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् ।कं॑सित्यस्यद्विर्वचनं स्यात् । इष्यते तु 'कंसमजीघत' दित्येवं हनधातोरेवोभयमित्यर्थः । किं चेति । केंसं घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह — धातोरिति । दातोर्हनित्यादितत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये = धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वात्र्रघ्नमित्यत्रहनस्तोऽचिण्णलो॑रिति कुत्वं,हनस्तोऽचिण्णलोटरिति सूत्रे भाष्ये स्पष्टम् । तथा च प्रकृतेकंसं घातयती॑त्यत्रहो हन्ते॑रिति कुत्वं , 'हनस्तोऽचिण्णलो' रिति तत्वं च न स्याताम्, अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाऽभावदित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपोऽपि बोध्यः, तत्परिहारस्यापि वक्ष्यमाणत्वात् ।तामिमां शह्कामद्र्धाङ्गीकारेण परिहरति - सत्यमिति । कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते, दोषापादनं तु नाङ्गीक्रियत इत्यर्थः । प्रकृतिवच्चेतीति । 'आख्यानात्कृतः' इति वार्तिकेप्रकृतिवच्चे॑ति चकारो भिन्नक्रमः ।प्रकृतिव॑दित्यनन्तरपठितश्चकारः कारकमित्यस्मादूध्र्वं निवेशनीय इति भावः । तदेवाभिनीय दर्शयति - कारकं चेति । चकारोऽयमनुक्तसङ्ग्रहार्थ इत्याह — चात्कार्यमिति । 'समुच्चीयते' इति शेषः । तथा च कारकं कार्यं च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देन हेतुमण्णिचः प्रकृतिर्विवक्षिता, व्याख्यानात् । प्रकृताविव प्रकृतिवत् । सप्तम्यन्ताद्वतिः । तदाह — प्रकृतेर्हन्यादेर्हेतुमण्णाविति ।प्रयुज्यमाने सती॑ति शेषः । 'कारक' मित्यस्य विवरण#ं — द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः । हन्ति कंसं कृष्णः, तं प्रेरयतीत्यर्थे कंस घातयति, कंसमजीघतदित्यादौ हेतुमण्ण्यन्ते प्रयुज्यमाने यद्द्वितीयादिकारकविभक्यन्तं यच्च कार्यं कुत्वतत्वाऽड्द्वित्वादि तत्सर्वंम् 'आख्यानात्कृत' इत्यस्योदाहरणे कंसवधमाचष्टे कंसं घातयति, कंसवधमाचष्टे कंसमजीघतदित्यादावपि भवतीति फलितम् । तत्रकारक॑मित्यनेन कंसात्षष्ठी निरस्ता, उदाहृतहेतुमण्ण्यन्तस्थले कृद्योगाऽभावेन कर्मणि द्वितीयाया एव सत्त्वात् ।कार्य॑मित्यनेन तु कंसस्य अड्द्वित्वनिरासश्चेति बोध्यम् । आख्यानशब्दश्च कथंचिद्वृत्तानुवादपरो, न तु भारतादिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानामागमयतीत्यादि सिध्यति ।द्वितीयान्त॑मित्यत्र द्वितीयाग्रहममुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्यतीति भाष्ये स्पष्टम् । कर्तृकरणाद्धात्वर्थे । इदमपि गणसूत्रम्,प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । कर्तुः करणं - कर्तृकरणं, न तु कर्ता च करणं चेति द्वन्द्वः, व्याख्यानात् । तदाह — कर्तुव्र्यापारार्थमिति । अभिमतफलोत्पादनार्थमित्यर्थः । साधकतममिति यावत् । नन्वेवं सति 'करणाद्धात्वर्थे' इत्येव सिद्धे कर्तृग्रहणं व्यर्थमित्यत आह — न तु चक्षुरादिमात्रमिति । कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात्करणादिति शब्देन गम्येत । अतः कर्तृग्रहणमित्याहुः । वस्तुतस्तुसाधकतमं करण॑मिति देवदत्तयती॑ति कर्तुरुदाजह्युः । कदाचिद्दर्शने इति । चित्रेत्यनुवर्तते । तदाह — चित्र इत्ययमिति । कदाचिद्दर्शने इत्यस्य विवरणम् — अद्भुतदर्शने इति ।चित्र चित्रीकरणकदाचिद्दर्शनयो॑रित्येव सुवचम् । वटि लजि इत्येके अदन्तेष्विति । अदन्तेषु पाठबलात् बण्ड लज्जेति कदाचिददन्तत्वमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाऽभावादतो लोपं बाधित्वाअचो ञ्णिती॑ति वृद्धौअर्तिह्यी॑ति पुगित्यर्थः । फलितमाह — वण्टापयतीति । शाकटायनस्त्विति । ऋषिविशेषोऽयम् । सङ्ग्राम युद्धे । गणसूत्रमिदम् । युद्धवाचि सङ्ग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभते इत्यर्थः । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — अनुदात्तेदिति । एतदात्मनेपदार्थमिति भावः । ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात्कथमनुदात्तेत्वमित्यत आह — अकारप्रश्लेषादिति । सङ्ग्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः । अससङ्ग्रामतेति । लुङि चङि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात्ततः प्रागडिति भावः । एतच्चभृशादिसूत्रे कैयटे स्पष्टम् । अग्लोपित्वान्नोपधाह्रस्वः । सुखदुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः । सुख दुःखेति प्रातिपदिकाभ्यां तत्करोतीत्यर्थे णिच् स्यादिति यावत् ।प्रातिपदिकाद्धात्वर्थेट इत्येव आभ्यां णिजित्याहुः । बहुलमेतन्निदर्शनम् । गणसूत्रमिदम् । एतेषां कथादीनामदन्तानां निदर्शनं = पाठ इत्यर्थः । तदाह — अदन्तेति । बहुलग्रहणस्य फलमाह — बाहुलकादिति । अपपर्णदिति । अग्लोपित्वान्न सन्वत्त्वमिति भावः । क्षिप प्रेरणे । क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुणः । एवमग्रेऽपि । वसनिवासे । वसयति । अदन्तत्वान्नोपधावृद्धि ।आन्दोलयती॑त्यादावदन्तत्वेन अग्लोपित्त्वान्नोपधाह्रस्वः । तदेवंबहुलमेतन्निदर्शन॑मित्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह — अन्ये त्विति । भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्रा- जुप्रभृतयः, लौकिकाः प्रेङ्खोलादयः, वैदिका — तद्रक्षांसि रात्रिभिरसुभ्न मित्यादौ सुभादयश्च सङ्गृहीता भवन्तीत्यर्थः । मतान्तरमाह — अपरे त्विति । चुरादिभिन्ना उदाहृता ये नव गणास्तेभ्योऽपि णिज्बहुलग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह — चुरादिभ्य एवेति । वस्तुतस्तु भूवादिसूत्रे 'पाठेन धातुसंज्ञे' ति भाष्यप्रतीकमुपादाय -स पाठो नोपलक्षणार्थः । किंतु इयत्ताप्रतिपादनार्थ इति कैयट आह — एवं चबहुलमेतन्निदर्शन॑मिति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । णिङ्ङ्गान्निरसने इति । गणसूत्रम् । स्पष्टम् । ङित्त्वान्नित्यमात्मनेपदम् । ओताआआआतर । इदमपि गणसूत्रम् । ओताआआदीनामिति । ओताआ, अआतर, गालोडित, आह्वरक — एषामित्यर्थः । अआआदय इति । ओताऽआशब्देअआ॑शब्दः, अआतरशब्दे 'तर' शब्दः, गालोडितशब्द 'इत' शब्दः, आह्वरकशब्देक॑शब्दश्च लुप्यन्ते इत्यर्थः । णिङ् चेति । चकारलभ्यमिदम् । धात्वर्थे इति ।प्रातिपदिकाचित्त्विति । 'ओताओ' त्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिङमित्यर्थः । णिच्णिङोः फलभेदं दर्शयति — तन्मते इति । धात्वर्थे इत्येव सिद्धमिति । धातुपाठं रचयितुर्भीमसेनस्य वाकय्मिदमित्याहुः ।प्रातिपदिकाद्धात्वर्थे॑ इति णिचि सिद्धेपुच्छभाण्डचीवराण्णि॑ङिति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थंपुच्छभाण्डे॑ति णिङ्विधिरावश्यक इत्यत आह — णिजन्तादेव बहुलवचनादिति बहुलवचनादिति ।बहुलमेतन्निदर्शन॑मिति बहुलग्रहणादित्यर्थः । ननुपुच्छादिषु धात्वर्थ इत्येव णि॑जित्येव सिद्ध सिद्धशब्दो व्यर्थ इत्यत आह — सिद्धशब्द इति । धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थः । पस्पशाह्निकभाष्ये हिसिद्धे शब्दार्थसम्बन्धे॑ इति वार्तिकग्रन्थस्याऽऽदिमवार्तिकव्याख्यावसरेसिद्धशब्दोपादनं मङ्गलार्थ॑मित्युक्तम् ।मङ्गलादीनि मङ्गलमद्यानि मङ्गलान्तानि च शस्त्राणि प्रथन्ते॑ इति बूवादिसूत्रस्थभाष्याद्ग्रन्थान्तेऽपि मङ्गलस्य कर्तव्यतासिद्धिः । चुरादयः ।॥ इति बालमनोरमायाम् चुरादयः॥अथ दिवादयः ।अथ श्यन्विकरणा धातवो निरूप्यन्ते — । दीवु क्रीडेति । उदिदयम् । तेन क्त्वायामिड्विकल्पः, निष्ठायां च नेट् । झृषन्ता इति । जृष् झृष् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थः ।
तद्धितेष्विति निवृतमिति । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । तत्सम्बद्धं कितीत्यपीति । निवृतमित्यपेक्ष्यते । ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्, अतः'तद्धितेषु' इत्यस्मिन्निवृतेऽपि तदनुवर्तत एव । उदाहरणएषु'हो हन्तेर्ञ्णिन्नेषु' इति कुत्वम् ॥