पुंसोऽसुङ्

7-1-89 पुंसः असुङ् सर्वनामस्थाने

Sampurna sutra

Up

सर्वनामस्थाने पुंसः असुङ्

Neelesh Sanskrit Brief

Up

सर्वनामस्थाने विवक्षिते पुम्स्-इत्यस्य अङ्गस्य असुङ् आदेशः भवति ।

Neelesh English Brief

Up

The पुम्स् अङ्ग gets the असुङ् आदेश when it is expected to be followed by a सर्वनामस्थान.

Kashika

Up

पुंस् इत्येतस्य सर्वनामस्थाने परतोऽसुङित्ययमादेशो भवति। पुमान्, पुमांसौ, पुमांसः। इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्तत्वम्, उत्पन्नायां विभक्तावसुङ् इत्यनिष्टः स्वरः प्राप्नोति। तदर्थमसुङ्युपदेशिवद्वचनं कर्तव्यम्। तेन परमपुमानित्यन्तोदात्तो भवति। पुमानित्ययं पुनराद्युदात्त एव॥

Siddhanta Kaumudi

Up

सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र उगितश्च <{SK455}> इति ङीबर्थं कृतेन पूञो डुम्सुन् इति प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ऋदुशन <{SK276}> इत्यनङ् । उशना । उशनसौ । उशनसः ।<!अस्य संबुद्धौ वाऽनङ्नलोपश्च वा वाच्यः !> (वार्तिकम्) ॥ हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घः । सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः । ग्रसु ग्लसु अदने ॥

Laghu Siddhanta Kaumudi

Up

सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात्। पुमान्। हे पुमन्। पुमांसौ। पुंसः। पुम्भ्याम्। पुंसु॥ ऋदुशनेत्यनङ्। उशना। उशनसौ। <<अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्यः>> (वार्त्तिकम्)। हे उशन, हे उशनन्, हे उशनः। हे उशनसौ। उशनोभ्याम्। उशनस्सु॥ अनेहा। अनेहसौ। हे अनेहः॥ वेधाः। वेधसौ। हे वेधः। वेधोभ्याम्॥

Neelesh Sanskrit Detailed

Up

पुम्स्-इत्यस्य अङ्गस्य सर्वनामस्थाने विवक्षिते असुङ् आदेशः भवति । असुङ् इत्यत्र ङकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति । ङित्वात् अयमादेशः <<ङिच्च>> 1.1.53 इत्यनेन स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते । यथा - पुम्स् + औ [प्रथमाद्विवचनस्य प्रत्ययः] → पु मस् + औ [<<पुंसोऽसुङ्>> 7.1.89 इति अस्-आदेशः] → पु म न् स् + औ [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इत्यनेन नुमागमः] → पुमा न् स् औ [<<सान्तमहतः संयोगस्य>> 6.4.10 इत्यनेन नकारात् पूर्वस्य अकारस्य दीर्घादेशः भवति ।] → पुमान्सौ ज्ञातव्यम् - अस्मिन् सूत्रे 'सर्वनामस्थाने' इति परसप्तमी नास्ति, विषयसप्तमी अस्ति । इत्युक्ते, 'सर्वनामस्थाने' इत्यस्य अर्थः 'सर्वनामस्थाने परे' इति अत्र न करणीयः, अपितु 'सर्वनामस्थाने विवक्षिते' इति करणीयः । सर्वनामस्थानस्य विवक्षायाम्, परन्तु सर्वनामस्थानस्य प्राप्तेः पूर्वमेव अयमादेशः भवतीति अस्य अर्थः । अस्य किम् कारणम्? 'परमपुमान्' अस्य शब्दस्य प्रक्रियां पश्यामश्चेत् स्पष्टं भवेत् । 'परमः च असौ पुमान्' अस्मिन् अर्थे <<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> 2.1.61 अनेन सूत्रेण तत्पुरुषः समासः विधीयते । तदा 'परमपुम्स्' अस्य सामासिकशब्दस्य अन्तिमः स्वरः, इत्युक्ते पकारोत्तरः उकारः <<समासस्य>> 6.1.223 इत्यनेन उदात्तत्वं प्राप्नोति, यत् न इष्यते । वस्तुतः असुङ्-आदेशात् अनन्तरम् यत् 'परमपुम स्' इति रूपं सिद्ध्यति, तस्य यः अन्तिमस्वरः (अकारः) सः उदात्तः अस्ति । एतत् साधयितुम् समस्तपदस्य निर्माणप्रक्रियायाम् एव सर्वनामस्थानस्य विवक्षां कृत्वा असुङ्-आदेशः करणीयः, येन 'परमपुम स्' इत्यस्यैव समस्तपदत्वं जायते, न हि केवलं 'परमपुम्स्' इत्यस्य । एवं भवति चेत् <<समासस्य>> 6.1.123 इत्यनेन समस्तपदस्य अन्तिमस्वरः (अकारः) उदात्तत्वं प्राप्नोति ।

Balamanorama

Up

<<पुंसोऽसुङ्>> - तत्र सुटि विशेषमाह — पुंसोऽसुङ् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सर्वनामस्थाने इति ।पुंसोऽसुङ् स्यात्सर्वनामस्थाने॑ इति फलितम् । ननु तत्पुरुषात्परमपुंस्शब्दात्सुटि असुङादेशात्प्रागेवसमासस्ये॑त्यन्तोदात्तत्वं पकारादुकारस्य स्यात् । सर्वनामस्थानोत्पत्तेः प्रागेव समासस्वरस्याऽन्तरङ्गत्वात्प्राप्तेः । इष्यते तु असुङि कृते परमपुमस् इत्यत्र मकारादकारस्य । अत आह — विवक्षिते इति । 'पुंसोऽसुङ्' इत्यत्र सर्वनामस्थान इति न परसप्तमी, किंतु 'विवक्षिते' इत्यध्याह्मत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति ततः प्रागेव असुङित्यर्थ आश्रीयते । एवं च सर्वनामस्थानोत्पत्तेः प्रागेव असुङि कृतेसमासस्ये॑त्यन्तोदात्तत्वं, परमपुमस् इत्यत्र मकारादकारस्य भवतीति न दोष इति भावः । नच परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्तेः प्रागन्तरङ्गेऽपि समासस्वरः पकारादुकारस्य अकृतवव्यूहपरिभाषया न भवति, असुङि कृते पकारादुकारस्य समासान्ततायाः प्रनङ्क्ष्यत्त्वादिति वाच्यम्, विविक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूहपरिभाषाया अस्वीकार्यत्वादिति भावः । अत्रअसुङि उकार इत् उदित्कार्यार्थ॑ इति प्राचीनमतं दूषयितुमाह — उच्चारणार्थ इति । न त्वित्संज्ञकः । प्रयोजनाऽभावादिति भावः । ननूदित्कार्यमस्ति प्रयोजनमित्यत आह — उगित्त्वेनैवेति । ननु विनिगमनाविरह इत्यत आह-ङीबर्थमिति । बहवः पुमांसो यस्यामिति बहुव्रीहौ सुब्लुकि निमित्ताऽपायादसुङो निवृत्तौ बहुपुंस्शब्दादुगित्त्वान्ङीपि बहुपुंसीशब्दः । अत्र ङीपोऽसर्वनामस्थानत्वात्तस्मिन्विवक्षिते असुङः प्राप्तिरेव नास्ति । डुम्सुन उगित्त्वादेव ङीप् वक्तव्यः । तदर्थं डुम्सुन उगित्त्वमावश्यकं । तेनैव नुमोऽपि सिद्धत्वादसुङ उकार उच्चारणार्थ इति भावः । यद्यप्युणादिषु 'पात्तेर्डुम्सुन्' इति वक्ष्यते, तथापि पाठान्तरमिदं द्रष्टव्यम् । 'स्त्रियाम्' इति सूत्रभाष्यकैयटयोस्तु सूत्रेः सस्य पः, ऊकारस्य ह्रस्वः, म्सुन्प्रत्यय इत्युक्तम् । पुमानिति । डुंसुन् इति कृतानुस्वानिर्देशः । ततश्च पुंस्शब्दात्सौ विवक्षिते असुङ् । ङकार इत्, उकार उच्चारणार्थः ।ङिचेचे॑त्यन्तादेशः । निमित्ताऽपायादनुस्वारनिवृत्तौ पुम्स्शब्दात् सुः, उगित्त्वान्नुम्, 'सान्तमहतः' इति दीर्घः, सोर्लोपः सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो नेति भाव#ः । पुमांसाविति । असुङि पुमस् औ इति स्थिते नुमिसान्ते॑ति दीर्घः ।नश्चे॑ति नुमोऽनुस्वार इति भावः । पुंसः पुंसेति । शसादावसर्वनामस्थानत्वादसुङभावे रूपम् । यय्परत्वाऽभावान्न परसवर्ण इति भावः । पुम्भ्यामिति । सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भावः । इत्यादीति । पुंसे । पुंसः, पुंसोः । पुंसीति । अत्र यय्परत्वाऽभावान्न परसवर्णः । नुम्स्थानिकानुस्वारस्यैवोपलक्षणात्नुम्विसर्जनीये॑ति षत्वं नेति भावः । 'वश क्रान्तौ' अस्मात् 'वशेः कनसिः' इति कनसि प्रत्ययः । ककार इत् । इकार उच्चारणार्थः , ङित्त्वादन्तादेशः । उशनन्स् इति स्थिते उपधादीर्घः, हल्ङ्यादिना सुलोपः, नलोपः । उशना इति रूपमिति भवः । यद्यपि वशधातुश्चान्दस इति लुग्विकरणे वक्ष्यते, तथापि तत्प्रायिकम्, 'वष्टि वागुरिः' इत्यादिनिर्देशात्, 'उशना भार्गवः कविः' इति कोशाच्च ।अस्य संबुद्धाविति । एतच्च वृत्तौ पठितम् । वशधातौ माधवस्तुसंबोधने तूशनसरिउआरूपं सान्तं तथा नान्तमथाप्यदन्त॑मिति श्लोपवार्तिकमित्याह । भाष्याऽदृष्टत्वादिदमप्रामाणिकमेवेति प्रामाणिकाः । हे उशनन्निति । अनङि नलोपाऽभावे रूपम् । हे उशनेति । अनङि नलोपे रूपम् । हे उशन इति । अनङभावे रूपम् । उशनोभ्यामिति । सस्य रुत्वेहशि चे॑त्युत्त्वेआद्गुणः॑ । उशनःसु-उशनस्सु । अनेहेति ।नञि हन एह चे॑ति नञि उपपदे हनधातोरसुन्, प्रकृतेरेहादेशश्च, उपपदसमासः, 'नलोपो नञः,' 'तस्मान्नुडचि' अनेहस्शब्दः । ततः सुः, अनङ्, सुलोपः, उपधादीर्घः, नलोप इति भावः । हे अनेहः । अनेहोभ्यामित्यादि । वेधा इति ।विधञौ वेध च॑ । विपूर्वाद्धाञ्धातोरसुन्प्रकृतेर्धादेशश्च । असुनि उकार उच्चारणार्थः । उगित्वाऽभावन्न नुम्, ततः सुः, असन्तत्वाद्दीर्घः, सुलोपः, रुत्वविसर्गाविति भावः ।वस आच्छादने॑लुग्विकरणः । सुपूर्वादस्मात्क्विप्, सुवस्शब्दः । ततः सुः, हल्ङ्यादिलोपः, रुत्वविसर्गौ, 'सुव' इति रूपं वक्ष्यति । अत्रअत्वसन्तस्ये॑ति दीर्घमाशङ्क्य आह — दीर्घ इति । नच सुवस्शब्दस्य असन्तत्वादधातुत्वाच्च दीर्घो दुर्वार इति वाच्यम्, धात्ववयवभिन्नोयोऽस्तदन्तस्य दीर्घ इत्याश्रयणात् । सुवोभ्यामित्यादि । 'वस निवासे' इति भौवादिकस्य तु नेदं रूपं, तस्य यजादित्वेन संप्रसारणप्रसङ्गात् । पिण्डग्रस्शब्दः सुवस्शब्दवत् ।

Padamanjari

Up

असुङे ङ्कारोऽन्तादेशार्थः । उकार उच्चारणार्थः । पुमानिति । पुंस्शब्दस्योगित्वान्नुम्, स हि पुञो डुमसुन् इति व्युत्पाद्यते । डकारष्टिलोपार्थः उकार उगित्कार्यर्थः - बहुपुंसीति ङीब् उगिल्लक्षणो भवति । नकारः स्वरार्थः । मकारेऽकार उच्चारणार्थः । इहेत्यादि । चोद्यम् । प्रागेव च प्रत्ययोत्पतेरिति । प्रत्ययः, सर्वनामस्थानम् । समासान्तोदातत्वमिति । पुंस्शब्दोकारस्य । अनिष्टः स्वर इति । स्रंसनधर्मणः सकारस्य हलः स्थाने तद्धर्माऽनुदात आदेशः स्यादित्यर्थः ए। ननु चोकारस्यकृतमपि समासान्तोदातत्वमसुइङ् कृतेऽनन्त्यत्वान्निवर्तिष्यते, असुङ्श्चान्त्यत्वात्प्रवर्तिष्यते नैतदस्ति, थान्तरणेó स्वरे कर्तव्ये बहिरङ्गस्यासुङेऽसिद्धत्वात्, प्रवृतस्य निवर्तनायोगाच्च । तदर्थमित्यादि । परिहारः । अर्थशब्दो निवृतवचनः, तस्यानिष्टस्वरस्य निवृत्यर्थमित्यर्थः । उपदेशिवद्वचनमिति । उपदेशोऽस्यास्तीत्युपदेशी, सकारः, स यथोपदेशावस्थायां सन्निहितस्तयाऽसुङ्पीत्यर्थः । सर्वनामस्थाने कैति विषयसप्तम्याश्रयणीयेत्युक्तं भवतीति, तत्र समासानन्तरमेव परत्वादसुङ् कृते पिश्चादुदातत्वं भवदसुङ् एवाकारस्य भवतीति सिद्धमिष्टम् । यद्यवम्, पुमानित्यादावसमासेऽपि उपदेशावस्थायामसुङ् कृते प्रितिपदिकस्वरो भवन्नसुङ् एव स्यात् इत्यत आह - पुमानित्ययं पुनरिति । पुंस्शब्दे प्रत्ययो निदित्युक्तम्, तत्सामर्थ्यादाद्यौदातत्वम् ॥