समासस्य

6-1-223 समासस्य अन्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समासस्यान्त उदात्तो भवति। रा॒ज॒पु॒रु॒षः। ब्रा॒ह्म॒ण॒क॒म्ब॒लः। क॒न्या॒स्व॒नः। प॒ट॒ह॒श॒ब्दः। न॒दी॒घो॒षः। रा॒ज॒पृ॒षत्। ब्रा॒ह्म॒ण॒स॒मित्। <<स्वरविधौ व्यञ्जनमविद्यमानवद्०>>इति हलन्तेऽप्यन्तोदात्तत्वं भवति। नानापदस्वरस्यापवादः॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमः पादः॥

Siddhanta Kaumudi

Up

अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

राजदृषदिति। ननु च योऽत्र समासस्यान्तो दकारो नासौ स्वरभाक्, यश्च ततः पूर्वोऽकारो नासौ समासस्यान्तः ? अत आह -स्वरविधाविति। न स्वरस्यैव विधिः, किं तर्हि ? योऽपि ठनुदातादेरञ्ऽ इत्यादिः, सोऽपि स्वरविधिः; स्वराश्रयत्वात्। तेन सोऽपि विधिर्व्यञ्जनादौ व्यञ्जनान्ते च भवति। अत्र च ज्ञापकम् -ठ्नोतरपदेऽनुदातादौऽ इत्युतवा पृथिव्याः प्रतिषेधः। नानास्वरापवाद इति यद्यपि ठनुदातं पदमेकवर्जम्ऽ इत्यस्ति, तथापि वर्जने विशेषाश्रयणात्पर्यायेण नानास्वरप्रसङ्गः। तत्र राजशब्दः'कनिन्युवृषितक्षि' इत्यादिना कनिन्प्रत्यान्तत्वादाद्यौदातः;'पुरः कुषन्' - पुरुषः; ब्रह्मणोऽपत्यं ब्राह्मणाः -अणन्तः;'कलतृपश्च' ;'वृषादिभ्यश्चित्' ;ठ्कमेर्बुक् चऽ - कम्बलः;'कन्याराजन्यशिप्यामनुप्याणामन्तः' इति कन्याशब्दोऽनतस्वरितः;'स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;'स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;'शाशपिभ्यां दनौ' , पचादिषु नदडिति पठ।ल्ते, टित्वान्ङीप्-नदी; उदातनिवृत्तिस्वरः; पोषशब्दो घञन्तः;'श्रदृभसो' दिःऽ'दृणातेः षुग् ह्रस्वश्च' दृषत्, प्रत्ययस्वरः; समिध्यते ययेति समित्, सम्पदादित्वात्क्विप्, कृदुतरपदप्रकृतिस्वरः -एते नानास्वराः, तेषामपवादः ॥