7-1-16 पूर्वादिभ्यः नवभ्यः वा अतः सर्वनाम्नः ङसिङ्योः स्मात्स्मिनौ
पूर्वादिभ्यः नवभ्यः सर्वनाम्नः उत्तरस्य ङसि-ङ्योः वा स्मात्-स्मिनौ
पूर्वादिभ्यः नवभ्यः सर्वनामशब्देभ्यः परस्य ङसिँ/ङि-प्रत्यययोः क्रमेण स्मात्/स्मिन् आदेशौ विकल्पेन भवतः ।
For the nine words - पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर - when they are used as a सर्वनाम, the ङसिँ and ङि- प्रत्ययs after them are optionally converted to स्मात् and स्मिन् respectively.
पूर्वादिभ्यो नवभ्यः सर्वनामभ्य उत्तरयोर्ङसिङ्योः स्मात् स्मिन् इत्येतावादेशौ वा भवतः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। परस्मात्, परात्। परस्मिन्, परे। अवरस्मात्, अवरात्। अवरस्मिन्, अवरे। दक्षिणस्मात्, दक्षिणात्। दक्षिणस्मिन्, दक्षिणे। उत्तरस्मात्, उत्तरात्। उत्तरस्मिन्, उत्तरे। अपरस्मात्, अपरात्। अपरस्मिन्, अपरे। अधरस्मात्, अधरात्। अधरस्मिन्, अधरे। स्वस्मात्, स्वात्। स्वस्मिन्, स्वे। अन्तरस्मात्, अन्तरात्। अन्तरस्मिन्, अन्तरे। नवभ्य इति किम्? त्यस्मात्। त्यस्मिन्॥
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्दः सङ्ख्यायां नित्यैकवचनान्तः ॥
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥
(गणसूत्रम् 1), (गणसूत्रम् 2) तथा (गणसूत्रम् 3) एतैः सूत्रैः - पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर - एतेषां नवशब्दानाम् विशिष्टेषु अर्थेषु सर्वनामसंज्ञा क्रियते । एतेषां शब्दानाम् एवम् सर्वनामसंज्ञायाम् सत्याम् <<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इत्यनेन तेभ्यः परस्य ङसिँ-प्रत्ययस्य ङि-प्रत्ययस्य च क्रमेण स्मात् / स्मिन् एतौ आदेशौ प्राप्तयोः सत्योः वर्तमानसूत्रेण तौ आदेशौ केवलं विकल्पेन भवतः नित्यम् न । यथा - 1. पूर्व-शब्दस्य सर्वनामसंज्ञा क्रियते चेत् - 1) पूर्व + ङसिँ [पञ्चम्येवकचनस्य ङसिँ-प्रत्ययः] → पूर्व + स्मात् / आत् [<<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशे प्राप्ते <<पूर्वादिभ्यो नवभ्यो वा>> 7.1.16 इति सः विकल्पेन भवति । विकल्पाभावे <<टाङसिङसामिनात्स्याः>> 7.1.12 इति आत्-आदेशः] → पूर्वात् / पूर्वस्मात् 2) पूर्व + ङि [सप्तम्येकवचनस्य प्रत्ययः] → पूर्व + स्मिन् / इ [<<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशे प्राप्ते <<पूर्वादिभ्यो नवभ्यो वा>> 7.1.16 इति सः विकल्पेन भवति । विकल्पाभावे ङि-प्रत्ययस्यैव प्रयोगः भवति ] → पूर्वस्मिन् / पूर्वे तथैव अन्येषां शब्दानां विषये अपि एतानि रूपाणि भवन्ति - 2. पर - परात्, परस्मात् । परे , परस्मिन् । 3. अवर - अवरात् , अवरस्मात् । अवरे , अवरस्मिन् । 4. दक्षिण - दक्षिणात्, दक्षिणस्मात् । दक्षिणे, दक्षिणस्मिन् । 5. उत्तर - उत्तरात्, उत्तरस्मात् । उत्तरे , उत्तरस्मिन् । 6. अपर - अपरात् , अपरस्मात् । अपरे , अपरस्मिन् । 7. अधर - अधरात्, अधरस्मात् । अधरे , अधरस्मिन् । 8. स्व - स्वात् स्वस्मात् । स्वे , स्वस्मिन् । 9. अन्तर - अन्तरात्, अन्तरस्मात् । अन्तरे, अन्तरस्मिन् । ज्ञातव्यम् - 1. पूर्वसूत्रेण नित्यं प्राप्ते वर्तमानसूत्रेण विकल्पः विधीयते, अतः इयम् प्राप्तविभाषा । <<न वेति विभाषा>> 1.1.44 इत्यत्र अस्मिन् विषये अधिकम् दृश्यताम् । 2. एतेषाम् नव शब्दानाम् सर्वनामसंज्ञा भवति चेदेव वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यस्मिन् अर्थे एतेषाम् सर्वनामसंज्ञा न भवति तस्मिन् अर्थे <<ङसिङ्योः स्मात्स्मिनौ>> 7.1.15 इत्यस्यापि प्रसक्तिः नास्ति, अतः अयम् विकल्पः अपि न भवति । यथा, 'उत्तर' नाम कश्चन बालकस्य विवक्षा अस्ति चेत् 'उत्तरात् / उत्तरे' इत्येव रूपे करणीये ।
<<पूर्वादिभ्यो नवभ्यो वा>> - पूर्वादिभ्यो ।ङसिङ्योः स्मात्स्मिना॑वित्यनुवर्तते इत्याह — एभ्य इति । पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टाः पूर्वादय इति विवक्षिताः । त्यदादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दः सङ्ख्यायामिति । अर्थान्तरे तु द्विवचने बहुवचने अपि स्तः ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे सङ्क्यायां च प्रयुज्यते । इति कोशः । स्यादेतत् — ॒त्वत्कपितृकः॒॑मत्कपितृकः॑ इति बहुव्रीहिः । त्वकं पिता यस्य, अहकं पिता यस्येति लोकिकविग्रहवाक्यम् । लौकिकत्वं — प्रयोगार्हत्वम् । युष्मदस्मदोरज्ञाताद्यर्थेअव्ययसर्वनाम्ना॑मित्यकचि — युष्मकद् स् इति स्थिते, 'ङे प्रथमयोः' इत्यमि,त्वाहौ सौ॑ इति त्वादेशेऽहादेशे च सति, 'शेषे लोपः' इति लोपे, 'अतो गुणे' अमि पूर्वे च त्वकम्, अहकमिति रूपम् । युष्मद् स्, पितृ स्, अस्मद्स्, पितृ स् — इत्यलौकिकं विग्रहवाक्यम् । प्रयोगानर्हत्वम् — अलौकिकत्वमिति स्थितिः । तत्र त्वत्कपितृको मत्कपितृक इति बहुव्रीहिदशायां कप्रत्ययो न संभवति, युष्मदस्मदोः सर्वनामत्वेनाऽकच्प्रसङ्गात् ।
द्वये पूर्वादयः - सूत्रपठिताः, गणपाठपठिताश्च, सर्वनाम्नः इति चेहानुवर्तते तत्रासति नवग्रहणे ङसिङ्योर्येन सर्वनामसंज्ञा स गणपाठ एव गृह्यत इति नवग्रहणम् । इह जसिङसिङीनां शीस्मात्स्मिनः पूर्वादिभ्यो नवभ्यो वा, औङ् आपः, शी नपुंसकाच्चेति सूत्रन्यासः कर्तव्यः, एवं जसि विभाषार्थानि त्रीथणि सूत्राणि न कर्तव्यानि भवन्ति तथा तु न कृतमित्येव ॥