वा चित्तविरागे

6-4-91 वा चित्तविरागे असिद्धवत् अत्र आभात् अचि ऊत् उपधायाः दोषः णौ

Sampurna sutra

Up

चित्तविरागे दोषः उपधायाः णौ ऊत् वा

Neelesh Sanskrit Brief

Up

'चित्तस्य' विकारम् दर्शयितुम् प्रयुज्यमानस्य दुष्-धातोः उपधायाः णिच्-प्रत्यये परे विकल्पेन ऊकारादेशः भवति ।

Neelesh English Brief

Up

To indicate impurification of mind / intellect, the उपधा letter of the verb root दुष् is optionally converted to ऊकार when followed by the णिच् प्रत्यय.

Kashika

Up

चित्तविकारार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः। चित्तं दूषयति, चित्तं दोषयति। प्रज्ञां दूषयति, प्रज्ञां दोषयति॥

Siddhanta Kaumudi

Up

विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां ह्रस्वः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजॄष् । जनयति । जरयति । जृणातेस्तु । जारयति ।<!रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः !> (वार्तिकम्) ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगांस्तृणादानेन । चुरादिषु ज्ञपादिश्चिञ् । चिस्फुरोर्णौ <{SK2569}> चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फुरत् । अपुस्फरत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दुष्' (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः <<दोषो णौ>> 6.4.90 इत्यनेन णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः विधीयते । परन्तु अयम् दुष्-धातुः यदि चित्तस्य विकारम् (दोषम्) दर्शयति, तर्हि अयम् ऊकारादेशः विकल्पेन भवति । ऊकारादेशस्य अभावे <<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन गुणादेशः विधीयते । यथा - 1) कामः चित्तं दूषयति, कामः चित्तं दोषयति। 2) आलसः प्रज्ञां दूषयति, आलसः प्रज्ञां दोषयति । अन्यत्र तु नित्यमेव दीर्घादेशः भवति । यथा - जनाः सरः दूषयन्ति ।

Balamanorama

Up

<<वा चित्तविरागे>> - वा चित्तविरागे । ऊदुपधाया इति, दोषो णाविति चानुवर्तते । चित्तविरागे दुष उपधाया ऊद्वा स्याण्णाविति फलितम् । विरागपदस्य विवरणम् - अप्रीततेति । इच्छाविरह इत्यर्थः । चित्तमिति । चित्तं दुष्यति । स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्तं भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्व इति । णौ मितामुपधाया ह्रस्व इति प्राग्व्याख्यातमपि स्मारयति । जनीजषिति । इदमपि व्याख्यातं स्मार्यते । जृणातेस्त्विति । श्नाविकरणस्य अषित्त्वान्न मित्त्वमिति भावः । रञ्जेर्णाविति । णेः कित्त्वाऽभावानिदितामित्यप्राप्तौ वचनम् ।मृगरमणटपदस्य विवरणम् — आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति ।रञ्ज रागेट शब्विकरणः ।रञ्जेश्चे॑ति शपि नलोपः । 'रजन्ति मृगाः' ग्राह्रा भवन्ति । तान् मृगान् तादृग्व्यापारविषयान् करोति मृगवधासक्तो राजादिरित्यर्थः । अत्र नकारलोपः । रञ्जयति मृगांस्तृमदानेनेति । घातको मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानगान् करोतीत्यर्थः । चुरादिष्विति । चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति.तस्मात्स्वार्थणिचि कृतेचिस्फुरो॑रित्यात्वपक्षे पुकि मित्तवादुपधाह्रस्वे चपयतीति रूपम् । आत्त्वाऽभावे तु वृद्धावायादेशे मित्त्वाद्ध्रस्वे चययतीति रूपमुक्तं चुरादावित्यर्थः । चिनोतेस्त्विति । श्नुविकरणस्य चिञ्धातोर्हेतुमण्णौ 'चिस्फुरो' रित्यात्त्वे पुकि मित्त्वाऽभावाद्ध्रस्वाऽभावे चाययतीति रूपमित्यर्थः । स्फारयति — स्फोरयतीति ।चिस्फुरोरित्यात्त्वविकल्पः । अपुस्फरत् — अपुस्फुरदिति । स्फुर् इ अ त् इति द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतयास्फु॑रित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णावित्युत्तरखण्डे आत्त्वविकल्पः । आत्त्वपक्षे उपधाह्रस्व इति भावः ।

Padamanjari

Up

चितविरागः - चितस्याप्रीतता । प्राप्तविभाषेयम् । णावित्येव - चितस्य दोषः ॥