चिण्णमुलोर्दीर्घोऽन्यतरस्याम्

6-4-93 चिण् णमुलोः दीर्घः अन्यतरस्याम् असिद्धवत् अत्र आभात् अचि उपधायाः णौ मितां

Kashika

Up

index: 6.4.93 sutra: चिण्णमुलोर्दीर्घोऽन्यतरस्याम्


चिण्परे णमुल्परे च णौ परतः मितामङ्गानामुपधायाः दीर्घो भवति अन्यतरस्यां। अशमि, अशामि। अतमि, अतामि। शमंशमम्, शामंशामम्। तमन्तमम्, तामन्तामम्। दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते? न एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात्। णिलोपस्य स्थानिवद्भावाद् दीर्घविधौ त्वजादेशो न स्थानिवत्। शयमन्तं प्रयुक्तवान्। अशमि, अशामि। शमंशमम्, शामंशामम्। शंशमयतेः अशंशमि, अशंशामि। शंशमंशंशमम्, शंशामंशंशामम्। योऽसौ णौ णिर्लुप्यते, यश्च यङ्कारः, तयोर्दिर्घविधौ आदेशो न स्थानिवद् भवतीति अस्थानिवद्भावात् दीर्घः सिद्धो भवति। ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात्। णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव। व्याश्रयत्वादसिद्धत्वमपि न अस्ति। णौ हि णियङोर्लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम्।

Siddhanta Kaumudi

Up

index: 6.4.93 sutra: चिण्णमुलोर्दीर्घोऽन्यतरस्याम्


चिण् परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो मितां ह्रस्वः-<{SK2568}> एव तु न विकल्पितः । ण्यन्ताण्णौ ह्रस्वविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं मास्तु इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तात्वाभावे शस्यते मुनिना ।

Balamanorama

Up

index: 6.4.93 sutra: चिण्णमुलोर्दीर्घोऽन्यतरस्याम्


चिण्णमुलोर्दीर्घोऽन्यतरस्याम् - चिण्णमुलोः । 'दोषो णौ' इत्यतो णाविति, 'ऊदुपधाया गोहः' इत्यस्मादुपधाया इति, 'मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते । तदाह — चिण्परे इत्यादिना । नन्विह दीर्घ ग्रहणं व्यर्थं,चिण्णमुलोरन्यतरस्या॑मित्येतावतैव 'मितां ह्रस्वः' इति पूर्वसूत्रादनुवृत्तस्य ह्रस्वस्यविकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह — प्रकृत इत्यादि । कुत इत्यत आह — ण्यन्ताण्णाविति । शमदातोण्र्यन्ताण्णौ पूर्वणेर्लोपे लुटि तासि ण्यन्तस्याऽजन्तत्वाच्चिण्वदिटि तस्याऽऽभीयत्वेनाऽसिद्धतया 'अनिटी' ति निषेधाऽभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । ह्रस्वविकल्पस्य विधौ तु ह्रस्वविकल्पो न स्यात्, प्रथमणिलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाऽभावादित्यर्थः । दीर्घविकल्पविधौ तु न दोष इत्याह — दीर्घविधाविति । दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात्, अतोऽत्र दीर्घविकल्पः सिध्यति । ह्रस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारं, तत्र स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । भाष्ये त्विति । न पदान्तसूत्रभाष्ये तुपूर्वत्रासिद्धे न स्थानिवदि॑त्येव सिद्धत्वान्न पदान्तसूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । 'सुद्ध्युपास्य' इत्यत्रअनचि चे॑ति द्विर्वचनस्य, शिण्ढीत्यत्रनश्चे॑त्यनुस्वारस्य,अनुस्वारस्य ययी॑ति परसवर्णस्य च, प्रतिदीब्न इत्यत्रहलि चे॑ति दीर्घस्य, सग्धिरित्यत्रझलां जश् झशी॑ति जश्त्वस्य, जक्षतुरित्यत्रखरि चे॑ति चर्त्वस्य च पूर्वत्राऽसिद्धीयत्वादित्यर्थः । ननु ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम्, 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाऽभावात् । ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घाऽनापत्तिः । एवं च तत्र दीर्गे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यातमित्यताअह — णावितीति ।चिण्णमुलो॑रिति दीर्घविधौ चिण्परे णमुल्परे च 'णौ' इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । चिण्णमुल्परकणित्वजातौ परत इति लभ्यते । णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इतिन पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः । शामिता शमितेति । शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्गविकल्पः । शमियितेति । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति । शमधातोर्यङि शंशम्येत्येतस्माद्धेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमीत्यस्मात्कर्मलकारे णिलोपे 'शंशम्यते' इति रूपमित्यर्थः । शंशामिता शंशमितेति ।चिण्मुलो॑रिति दीर्घविकल्पः । शंशमयितेति । चिण्वत्त्वाऽबावे वलादिलक्,णे इटि रूपम् । भाष्यमते त्विति ।न पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थः । यङन्तादिति ।ण्यन्ता॑दिति शेषः । यङन्ताण्णिचि यलोपे अल्लोपे च कृतेशंशमी॑त्यस्माल्लुटि तासि चिण्वदिटि कृते तस्याऽसिद्धत्वाण्णिलोपेशंशमिते॑त्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाऽबावात्चिण्णमुलो॑रिति दीर्घो नास्ति, भाष्यमतेन पदान्त॑सूत्रे दीर्घग्रहणाऽभावेन स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे ल इति भावः ।

Padamanjari

Up

index: 6.4.93 sutra: चिण्णमुलोर्दीर्घोऽन्यतरस्याम्


न ह्रस्वविकल्प एव विधीयेतेति । एवमपि ह्रस्वपक्षे अशमीति सिध्यति, पक्षान्तरे अशामीति यथाप्राप्तं दीर्घ एवाषस्थास्यत इति भावः । शमयन्तं प्रयुंक्ते इति । यद्यपि चिण्विषये कर्म प्रदर्शनीयं भूतकालश्च, तथापि णिजुत्पतये हेतुव्यापारमात्रप्रदर्शनमत्र विवक्षितम्, न कर्ता नापि वर्तमानः काल तैति न दोषः । णिलोपस्य स्थानिवद्भावादिति । स्थानिवद्भावे हि सति यश्चिण्णमुल्परो णिः न तस्मिन्मिदङ्गम्, पूर्वेण णिचा व्यावधानात् यर्स्मिश्च मिदङ्गं न स चिण्णमुल्परः, परेण णिचा व्यावधानात् ततश्च ह्रस्वविकल्पो न स्यात्, पूर्वेथण नित्यमेव तु ह्रस्वः स्यात् । ननु दीर्घविकल्पेऽपि यावता स्थानिवद्भावः, कथमिवैतत् सिद्ध्यति तत्राह - दीर्घविधौ त्विति । न पदान्तद्विर्वचन इत्यादिना स्थानिवद्भावप्रतिषेधाद्दीर्घविकल्पस्यायं विषय एवेत्यर्थः । तथेत्यादि । अत्र दीर्घविधौ त्वजादेशो न स्थानिवद्भावतीत्यनुषङ्गः । शमेर्यङ्, द्विर्वचनम्, नुक्, णिच्यतो लोपः यस्य हल, तशंशमि इति स्थिते - यदा ततश्चिण्णमुलौ भवतः, तदा दीर्घविकल्पः सिध्यति अजादेशस्य स्थानिवत्वाभावादित्यर्थः । एतदेव स्पष्टयति - योऽसाविति । यश्च यङ्कार इति । णौ लुप्यत थैत्युनषङ्गः । एवं तावद्दीर्घविधौ त्वजादेशो न स्थानिव्ध्बवतीत्येतस्पष्टीकृतम् । णिलोपस्य स्थानिवद्भावाद् ह्रस्वविक्लपो न स्यात् इति यदुक्तम्, तत्समार्थयते - ह्रस्वविकल्पे त्विति । णेर्णिः णिणिः, सोऽन्तो यस्य स णिण्यन्तः । एतेन यड्ण्यन्ते इति व्याख्यातम् । असिद्धिरेवेति । कस्य प्रकृतत्वाद्दीर्घस्य, एवकारेण तुशब्देन चैतद्दर्शयति । णिचमाश्रित्य वृद्धिविधानादस्ति दीर्घस्य शङ्का, णिलोपस्य तु स्थानिवद्भावादयं विकल्पो न स्यादित्येव दोषः । यङ्ण्यन्ते तु भवतु नामायं विकल्पः, तथापि पक्षे दीर्घस्य श्रवणं न सिध्यति तणिचमपेक्ष्य वृद्धौ कर्तव्यायामतो लोपस्य स्थानिवद्भावाद्, दीर्घस्यानुन्मेषादिति । स्यादेत - दीर्घविकल्पे विधीयमाने यदि नाम स्थानिवद्भावो नास्ति, तथापि नैवात्र दीर्घः सिध्यति, असिद्धवदत्राभात् इति णियङेर्लोपस्यासिद्धत्वादिति अत थाअह - व्याश्रयत्वादिति । व्याश्रयत्वमेव दर्शयति - णौ हीत्यादि । किञ्च - हेड वेष्टने घटादिः, तस्य ह्रस्वाभावपक्षे अहेडीति स्यात्, दीर्घे तु ह्रस्वस्य कृते - अहीडीति भवति । तस्मादतोऽपि हेतोर्दीर्घ एव विकल्पनीयः ॥