ओः सुपि

6-4-83 ओः सुपि असिद्धवत् अत्र आभात् अचि यण् एः अनेकाचः असंयोगपूर्वस्य

Sampurna sutra

Up

अनेकाचः अङ्गस्य असंयोगपूर्वस्य ओः धातोः सुपि अचि यण्

Neelesh Sanskrit Brief

Up

धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य उवर्णस्य अजादौ सुप्-प्रत्यये परे यणादेशः भवति ।

Neelesh English Brief

Up

An उवर्ण occurring at end of an a असंयोगपूर्व धातु which in turn occurs at end of an अनेकाच् अङ्ग is converted to यण् letter when followed by a सुप् अजादिप्रत्यय.

Kashika

Up

धात्ववयवः संयोगः पूर्वो यस्मादुवर्णाद् न भवति, तदन्तस्याङ्गस्यानेकाचोऽजादौ सुपि परतो यणादेशो भवति। खलप्वौ, खलप्वः। शतस्वौ, शतस्वः. सकृल्ल्वौ, सकृल्ल्वः। सुपीति किम्? लुलुवतुः, लुलुवुः। अनेकाच इत्येव — लुवौ, लुवः। असंयोगपूर्वस्येत्येव — कटप्रुवौ, कटप्रुवः। गतिकारकाभ्यामन्यपूर्वस्य नेष्यत इत्येव — परमलुवौ, परमलुवः॥

Siddhanta Kaumudi

Up

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि ॥<!गतिकारकेतरपूर्वपदस्य यण्नेष्यते !> (वार्तिकम्) ॥ खलप्वौ । खलप्व इत्यादि । एवं सुल्वादयः । अनेकाचः किम् । लूः लुवौ । लुवः । धात्ववयवेति किम् । उल्लूः । उल्ल्वौ । उल्ल्वः । असंयोगपूर्वस्य किम् । कटप्रुवौ । कटप्रुवः । गतीत्यादि किम् । परमलुवौ । सुपि किम् । लुलुवतुः । स्वभूः । न भूसुधियोः <{SK273}> । स्वभुवौ । स्वभुवः । एवं स्वयम्भूः ॥

Laghu Siddhanta Kaumudi

Up

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः॥

Neelesh Sanskrit Detailed

Up

अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. अनेन सूत्रेण अजादि-सुप्-प्रत्यये परे यणादेशः प्रोक्तः अस्ति । 2. कस्य यणादेशः? अत्र स्थानी अस्ति 'असंयोगपूर्वस्य ओः धातोः' । 'धातोः' इति विशेष्यम्, 'असंयोगपूर्वस्य' तथा 'ओः' एते विशेषणे । 3. प्रथमं विशेषणमस्ति - 'ओः' इति । एतत् 'उ' इत्यस्य षष्ठी-एकवचनमस्ति । 'ओः धातोः' इत्युक्ते 'उवर्णान्त-धातोः' (<<येन विधिस्तदन्तस्य>> 1.1.72 )। 4. <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अस्य उवर्णान्तधातोः 'अन्तिमवर्णस्य' ( = उवर्णस्य) यणादेशः भवतीति अर्थः जायते । 4. 'धातोः' अस्य द्वितीयम् विशेषणमत्र प्रयुक्तमस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-उवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? <<हलोऽनन्तराः संयोगः>> 1.1.7 इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति। 5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतमस्ति? सः धातुः यस्य अन्ते उकारः अस्ति, तथा यस्मिन् धातौ उकारात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इकारस्य स्थाने अजादि-सुप्-प्रत्यये परे यणादेशः भवति । 6. अयं स्थानी 'अनेकाच्-अङ्गस्य' भवेत् इति उक्तमस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । 'अनेकाच्' इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति । 7. <<पदाङ्गाधिकारे तस्य च तदन्तस्य च>> अनया परिभाषया 'अनेकाचः अङ्गस्य धातोः' इत्युक्ते 'अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः' इति अर्थः निष्पद्यते । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गमनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि उवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः उवर्णस्य अजादि सुप्-प्रत्यये परे यणादेशः भवति । उदाहरणानि एतानि - 1) 'खलं पुनाति सः' अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा 'खलपू' इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन उवङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः उवर्णान्तः च अस्ति, अतः उवङ्-आदेशं बाधित्वा अत्र यणादेशः भवति , ततः च 'खलप्वौ' इति रूपं सिद्ध्यति । 2) 'कटं प्रवति सः' अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा 'कटप्रू' इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन उवङ्-आदेशः आगच्छति । अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, परन्तु अस्य अन्ते विद्यमानः धातुः संयोगपूर्वः अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः उवङ्-आदेशे कृते 'कटप्रुवौ' इत्येव रूपं सिद्ध्यति । 3) अस्मिन् सूत्रे 'अचि' इत्यस्य 'सुपि' इति विशेषणमस्ति । अतः अस्य सूत्रस्य प्रसक्तिः केवलं सुप्-प्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, 'लूञ्' (छेदने) अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशं सिद्ध्यति - लू + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → लू लू ल् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → लु लू ल् [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → लु लू तस् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्] → लु लू अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तस्-इत्यस्य अतुस्-आदेशः] → लु ल् उवङ् अतुस् [<<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन उवङ्-आदेशः] → लुलुवतुः अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!गतिकारकेतरपूर्वपदस्य यण् नेष्यते !> । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा - 1. 'सुष्ठु लूनाति सः' इत्यर्थे 'सुलू' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'सु' इति गतिसंज्ञकमस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा 'सुल्वौ', 'सुल्वः' आदीनि रूपाणि सिद्ध्यन्ति । 2. 'परमम् वृक्षम् लूनाति सः' इत्यर्थे 'परमलू' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'परम' एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा 'परमल्वौ, 'परमल्वः' आदीनि रूपाणि सिद्ध्यन्ति । 3. 'परमः च असौ लूः' इत्यर्थे अपि 'परमलू' इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गमनेकाच् तथा असंयोगपूर्व-उवर्णान्त-धात्वन्तमस्ति, तथाप्यत्र यणादेशः न भवति । अतः <<अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ>> 6.4.77 इत्यनेन उवङ्-आदेशः एव जायते । यथा - परमलुवौ, परमलुवः ।

Balamanorama

Up

<<ओः सुपि>> - ओः सुपि । 'एरनेकाचः' इति सूत्रं, एरितिवर्जमनुवर्तते । 'अचि श्नुधातु' इत्यतोऽचीत्यनुवृत्तं । तेन सुपीति विशेष्यते । तदादिविधिः । 'इणो य' णित्यतो यणित्यनुवर्तते । तदाह — धात्ववयवेत्यादिना । गतिकारकेति । इदमपि वार्तिकमत्रानुवर्तते इति भावः । खलप्वौ खलप्व इति । कारकपूर्वकत्वादिह यणिति भावः । हे खलपूः । खलप्वम् खलप्वौ खलप्वः । खलप्वा । खलप्वे । खलप्वः । खलप्वः खलप्वोः । खलप्वि । इह अजादौ 'एरनेकाचः' इतिओः सुपी॑ति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः । एवं सुल्वादय इति । सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलूरित्यादिसङ्ग्रहः । कटप्ररिति ।प्रुगतौ॑ ।क्विब्वची॑त्यादिना क्विप्, उकारस्य दीर्घश्च । परमलुवाविति । परमश्चासौ लूश्चेति विग्रहः । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति । अतुसि लुलू इत्यस्याऽनेकाच्त्वेऽपि सुप्परकत्वाऽभावान्न यणिति भावः । स्वभूरिति । स्वस्माद्भवतीति क्विप् । कारकपूर्वकत्वाद्यणि प्राप्ते आह-न भूसुधियोरिति । वर्षासु भवति वर्षाभूः । वर्षर्तावुत्पन्न इत्यर्थः । वर्षशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः ।वर्षाभूर्ददुरे पुमान् इति यादवः ।न भूसुधियो॑रिति निषेधे प्राप्ते- ।

Padamanjari

Up

सकृल्ल्वाविति । क्रियाविशेषणत्वात् सकृदित्यस्य कारकत्वम् । कटप्रुवाविति । क्विब्वचि इत्यादिना क्विप्, दीर्घश्च ॥