वर्षाभ्वश्च

6-4-84 वर्षाभ्वः च असिद्धवत् अत्र आभात् अचि यण् एः अनेकाचः असंयोगपूर्वस्य सुपि

Sampurna sutra

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


वर्षाभ्वः अङ्गस्य अचि सुपि यणः

Neelesh Sanskrit Brief

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


'वर्षाभू' शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


The word वर्षाभू gets a यणादेश when followed by an अजादि-सुप्-प्रत्यय.

Kashika

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


वर्षाभू इत्येतस्य अजादौ सुपि परतो यणादेशो भवति। वर्षाभ्वौ। वर्षाभ्वः। पुनर्भ्वश्चेति वक्तव्यम्। पुनर्भ्वौ। पुनर्भवः। कारापूर्वस्यापीष्यते। काराभ्वौ। काराभ्वः।

Siddhanta Kaumudi

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्वः । दृम्भतीति दृम्भूः । अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषू <{SK93}>रित्युणादिसूत्रेण व्युत्पादितः । दृम्भ्वौ । दृम्भ्वः । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेषं हूहूवत् । दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्विप् । दृन्भूः ।<!दृन्करपुनः पूर्वस्य भुवो यण्वक्तव्यः !> (वार्तिकम्) ॥ दृन्भ्वौ । दृन्भ्व इत्यादि खलपूवत् । करभ्वौ । करभ्वः । दीर्घपाठे तु कर एव कारः । स्वार्थिकः प्रज्ञाद्यण् । कारभ्वौ । कारभ्वः । पुनर्भूर्यौगिकः पुंसि । पुनर्भ्वावित्यादि । दृग्भूकाराभूशब्दौ स्वम्भूवत् ॥ इत्यूदन्ताः ॥ धाता । हे धातः । धातारौ । धातारः ।<!ऋवर्णान्नस्य णत्वं वाच्यम् !> (वार्तिकम्) ॥ धातॄणामित्यादि । एवं नप्त्रादयः । उद्गातारौ । पिता व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्नदीर्घः । पितरौ । पितरः । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः ॥ ना । नरौ । नरः । हे नः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥ दृन्भूः। दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः (वार्त्तिकम्)। दृन्भ्वौ। एवं करभूः॥ धाता। हे धातः। धातारौ। धातारः। ऋवर्णान्नस्य णत्वं वाच्यम् (वार्त्तिकम्) । धातॄणाम्। एवं नप्त्रादयः॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ। पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः॥ ना। नरौ॥

Neelesh Sanskrit Detailed

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


वर्षाभूः इत्युक्ते मण्डुकः । अयम् दीर्घ-ऊकारान्त-पुंलिङ्गशब्दः अस्ति । अस्य शब्दस्य अजादि-सुप्-प्रत्यये परे वर्तमानसूत्रेण यणादेशः भवति ।

यथा - वर्षाभू + औ [प्रथमाद्विवचनस्य प्रत्ययः] इत्यत्र -

इको यणचि 6.1.77 इत्यनेन यणादेशे प्राप्ते ;

परत्वात् प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ;

दीर्घात् जसि च 6.1.105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधे प्राप्ते ;

पुनः इको यणचि 6.1.77 इत्यनेन यणादेशे प्राप्ते ;

परत्वात् अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6.4.77 इत्यनेन उवङ्-आदेशे प्राप्ते ;

तं बाधित्वा ओः सुपि 6.4.83 इत्यनेन यणादेशे प्राप्ते ;

न भूसुधियोः 6.4.85 इत्यनेन तस्य निषेधे प्राप्ते ;

पुनः अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6.4.77 इत्यनेन उवङ्-आदेशे प्राप्ते ;

परत्वात् वर्षाभ्वश्च 6.4.84 इत्यनेन अन्ते यणादेशः विधीयते ।

अतः वर्षाभू + औ → वर्षाभ्वौ इति रूपं सिद्ध्यति ।

अत्र एकम् वार्त्तिकं ज्ञातव्यम् - <!दृन्-कर-पुनः पूर्वस्य भुवो यण्वक्तव्यः !> । इत्युक्ते, दृम्भू, करभू, पुनर्भू - एतेषामं शब्दानामजादि सुप्-प्रत्यये परे यणादेशः भवति । यथा - दृम्भ्वौ, करभ्वौ, पुनर्भ्वौ ।

Balamanorama

Up

index: 6.4.84 sutra: वर्षाभ्वश्च


वर्षाभ्वश्च - वर्षाभ्वश्च ।ओः सुपी॑त्यनुवर्तते ।अचि श्नुधात्वि॑त्यतोऽचीति च, 'इणो य' णित्यतो यणिति चानुवर्तते । तदाह — अस्येति । वर्षाभूशब्दस्येत्यर्थः । दृभतीति ।दृभी ग्रन्थे॑ । तुदादिः । शविकरणस्यसार्वधातुकमपि॑दिति ङित्त्वान्न गुणः । निपातित इति । कूप्रत्ययो नुम्चेह निपात्यते इत्यर्थः ।नश्चापदान्तस्ये॑त्यनुस्वारः,अनुस्वारस्य ययी॑ति तस्य परसवर्णो मकारः । अत्र च ऊकारो न धात्ववयवः । अत उवङ्,ओः सुपी॑ति यण्च न । किंतुइको यणची॑त्येव यण् । स च 'अमि पूर्वः' इत्यनेन बाध्यत इत्याशयेनाह — दृम्भूमिति । शसिदीर्घाज्जसि चे॑ति निषेधाऽप्रवृत्त्या पूर्वसवर्णदीर्घेणइको यणची॑ति यण् बाध्यत इत्यभिप्रेत्याह — दृम्भूनिति । दृम्भ्वा । दृम्भवे । दृम्भ्वः । दृम्भ्वः दृम्भ्वोः । दृम्भ्वाम् । इह तुदृन्कारे॑ति यण्न भवति, भूशब्दस्यार्थवत एव तत्र ग्रहणात् । इह च भूशब्दस्याऽनर्थकत्वात् ।दृ न्निति नान्तमव्ययं हिंसायां वर्तते । तस्मिन्नुपपदे भूधातोः क्विबित्यर्थः । दृन्-हिंसां, भवते=प्राप्नोतीति विग्रहः । दृन्भूरिति । तरुविशेषः । सर्पविशेष इत्यन्ये । स्वाभाविक एवात्र नकारः । तस्य पदान्तत्वा॑न्नश्चापदान्तस्ये॑ति नानुस्वारः । अत एव न परसवर्णः । ॒न भूसुधियो॑रिति निषेधे प्राप्ते — दृन्करपुनः । दृन्भ्वमिति । यणा पूर्वरूपं बाध्यत इति भावः । दृन्भ्व इति । शसि यणा पूर्वसवर्णदीर्घो बाध्यत इति भावः । करात् करे वा भवतीति करभूः, दृन्भूवदित्यभिप्रेत्याह — करभ्वं करभ्व इति ।दृन्करे॑त्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरं । तत्राह — दीर्घेति । स्वार्थिक इति । स्वस्याः प्रकृतेरर्थः स्वार्थः, तत्र भवः स्वार्थिकः । अध्यात्मादित्वाठ्ठञ् । प्रज्ञाद्यणिति ।प्रज्ञादिभ्योऽणि॑ति प्रज्ञादिभ्यः स्वार्थेऽण्विधानादिति भावः । दीर्घपाठे करपूर्वस्य उवडेव । ह्रस्वपाठे करपूर्वस्य यणेवेति विवेकः । पुनर्भवतीति पुनर्भूः । ननुपुनर्भूर्दिधिषूरूढा॑ इति कोशात्पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात्स्त्रीलिङ्गाधिकार एव तन्निरूपणं युक्तमित्यत आह — पुनर्भूर्योगिकः पुंसीति । पुनर्भवतीति क्रियानिमित्तस्य पुनर्भूशब्दस्य पुंलिङ्गत्वमप्यस्तीत्यर्थः । दृग्भू इति । दृशो भवतीति दृग्भूः । कारायां भवतीति काराभूः । कारा=बन्धनालयः । स्वयंभूवदिति । तत्रन भूसुधियो॑रिति यणः प्रतिषेधात्, प्रतिप्रसवाऽभावाच्चेति भावः । इत्यूदन्ताः । अथ ऋदन्ताः । धातेति ।डुधाञ् धारणपोषणयोः॑ तत्र तृन् तज्वा स्यात् । क्रोष्टुशब्दवदनङ्दीर्घ सुलोपनलोपाः । हे धातरिति ।ऋदुशनसि॑त्यत्रासंबुद्धावित्यनुवृत्तेर्नानङ् ।ऋतो ङी॑ति गुणोऽकारः, रपरत्वं, हल्ङ्यादिलोपः, विसर्गः । 'अप्तृन्' इति दीर्घस्तु न, असंबुद्धावित्यनुवृत्तेः । धाताराविति । ङिसर्वनामस्थानयोःऋतो ङी॑ति गुणोऽकारः । रपरत्वम्, 'अप्तृन्' इति दीर्घश्च । धातारः । धातारम् । धातारौ । शसि पूर्वसवर्णदीर्घ ॠकारः, नत्वम् । धातृन् । टा-यण् । धात्रा । ङे-यण् । धात्रे । ङसिङसोः-ऋत उत्, रपरत्वम्, सलोपः, विसर्गः-धातुः । धातुः । धात्रोः धात्रोः । आमि 'ह्रस्वनद्यापः' इति नुट् ।नामी॑ति दीर्घः । नकारस्य रेफषकाराभ्यां परत्वाऽभावादप्राप्ते णत्वे । ऋवर्णान्नस्य । ऋवर्णात्परस्येत्यर्थः । इदं तु वार्तिकं णत्वविधायकसूत्राणां सर्वेषां शेषभूतम् । ङौऋतो ङी॑ति गुणोऽकारः, रपरत्वम् । धातरि । धातृषु । नच दातृशब्दस्य हिरण्यगर्भसंज्ञाशब्दादौणादिकशंसिक्षदादितृन्तृजन्तत्वादिह कथमप्तृन्निति दीर्घः,औणादिकतृन्तृजन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्य, धाञ्धातोः शंसिक्षदादित्वकल्पनायां प्रमाणाऽभावेन धातृशब्दस्यौणादिकत्वाऽभावादिति भावः । एवं नप्त्रादय इति । नप्तृनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृशब्दा धातृशब्दवदित्यर्थः । उद्गातृशब्दस्य औणादिकतृन्तृजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्गातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्तंप्राक् । तदेतत्समारयति-उद्गाताराविति । पितेति । धातृवदनङादि । सर्वनामस्थाने तुऋतो ङी॑ति गुणोऽकारः, रपरत्वम् । 'अप्तृन्' इति दीर्घस्तु नेत्याह — व्युत्पत्तीति । पातीति पिता । तृच्प्रत्ययः, इट् आकारलोपश्चेति व्युत्पत्तिर्बोध्या । अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावाद्दीर्घशङ्कैव नास्तीति भावः । पितरौ पितरः । पितरम् पितरौ पितृनित्यादि धातृवत् । एवं जामातृभ्रात्रादय इति । उणादिषुनप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ॑ इति सूत्रे पितृजामातृभ्रातृशब्दाः व्युत्पादिताः । तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता । भ्राजेस्तृनि तृचि वा जलोपः । भ्राता । जायां मातीति जामाता । तृन्प्रत्ययः । तृज्वा यालोपश्च । अनयोरप्यौणादिकयोर्नप्त्रादिष्वनन्तर्भावान्न दीर्घ इत्यर्थः । आदिना मन्तृ हन्तृ इत्यनयोग्र्रहणं, तयोरुणादिषुतृन्तृचौ शंसिक्षदादिभ्यः॑ इति प्रकरणे बहुलमन्यत्रापि इत्यत्र उदाहृतत्वात् । नेति । नृशब्दो मनुष्यवाची । तस्मात्सुः ।ऋदुशन॑सित्यनङ् ।अप्तृ॑न्निति सूत्रेऽनन्तर्भावा॒त्सर्वनामस्थाने चे॑ति नान्तत्वप्रयुक्तो दीर्घः । हल्ङ्यादिलोपः । नलोपः ना इति रूपम् । नरा नर इति ।ऋतो ङी॑ति गुणो रपरः । अप्तृन्नाद्यनन्तर्भावान्नान्तत्वाऽभावाच्च न दीर्घः । हे न इति ।ऋतो ङी॑ति गुणो रपरः । हल्ङ्यादिलोपो विसर्गश्च । नरम् । नरौ । शसि पूर्वसवर्णदीर्घो ॠकारः, नत्वम्, नृन् । टादावचि यणि रेफः । न्रा । न्रे । ङसिङसोः ऋत् उत्, रपरः, सलोपः, विसर्गश्च । नुः । नुः । न्रोः । आमि नुट्,नामी॑ति नित्यं दीर्घे प्राप्ते- ।