नाञ्चेः पूजायाम्

6-4-30 न अञ्चेः पूजायाम् असिद्धवत् अत्र आभात् नलोपः उपधायाः

Sampurna sutra

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


पूजायामञ्चेः अङ्गस्य उपधायाः नलोपः न

Neelesh Sanskrit Brief

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


अञ्च्-धातोः 'पूजायाम्' अस्मिन् अर्थे उपधा-नकारस्य लोपः न भवति ।

Neelesh English Brief

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


When used in the meaning of 'to pray', the नकार of the verb root अञ्च् is not removed.

Kashika

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


अञ्चेः पूजायामर्थे नकारस्य लोपो न भवति। अञ्चिता अस्य गुराः। अञ्चितमेव शिरो वहति। अञ्चेः पूजायाम् 7.2.53 इति इडागमः। पूजायाम् इति किम्? उदक्तमुदकं कूपात्। उद्धृतम् इत्यर्थः। यस्य विभाषा 7.2.15 इति इट्प्रतिषेधः।

Siddhanta Kaumudi

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राङ्षु । एवं पूजार्थे प्रत्याङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ऋत्विग् <{SK373}>आदिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुङ्भ्यामित्यादि ॥ चोः कुः <{SK378}> ॥ पयोमुक् । पयोमुग् । पयोमुचौ । पयोमुचः । व्रश्च <{SK294}> इति षत्वम् । स्कोः <{SK380}> इति सलोपः । जश्त्वचर्त्वे । सुवृट् । सुवृड् । सुवृश्चौ । सुवृश्चः । सुवृश्चा । सुवृट्सु । सुवृट्त्सु ॥ वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च (उणादिः-2.084) एते निपात्यन्ते शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । सान्तमहत <{SK317}> इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ । महान्तः । महतः । महता । महद्भ्यामित्यादि ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न। प्राङ्। प्राञ्चौ। नलोपाभावादलोपो न। प्राञ्चः। प्राङ्भ्याम्। प्राङ्क्षु॥ एवं पूजार्थे प्रत्यङ्ङादयः॥ क्रुङ्। क्रुञ्चौ। क्रुङ्भ्याम्॥ पयोमुक्, पयोमुग्। पयोमुचौ। पयोमुग्भ्याम्॥ उगित्त्वान्नुमि -

Neelesh Sanskrit Detailed

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


अञ्च् (गतिपूजनयोः) इति भ्वादिगणस्य धातुः । अयम् धातुः 'गतिः' तथा 'पूजायाम्' एतयोः अर्थयोः प्रयुज्यते । वस्तुतः अस्मिन् धातौ विद्यमानः नकारः कित्-प्रत्यये परे ङित्-प्रत्यये च परे अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन लुप्यति । परन्तु यदि अयं धातुः 'पूजायाम्' अस्मिन् अर्थे प्रयुज्यते, तर्हि अयं नकारलोपः वर्तमानसूत्रेण निषिध्यते ।

यथा, अञ्च् (पूजायाम्) इत्यस्य क्विन्-प्रत्यये परे 'अञ्च्' इत्येव प्रातिपदिकं सिद्ध्यति । परन्तु अञ्च् (गतौ) इत्यस्य क्विन्-प्रत्यये परे नकारलोपं भूत्वा 'अच्' इति प्रातिपदिकं सिद्ध्यति ।

तथैव, 'क्त' प्रत्यये परे अञ्च् (पूजायाम्) इत्यस्मात् 'अञ्चित' इति प्रातिपदिकं सिद्ध्यति, तथा अञ्च् (गतौ) इत्यस्मात् तु 'अक्त' इति प्रातिपदिकं सिद्ध्यति । अत्रापि नकारस्य लोपः केवलं 'गतौ' अस्मिन् अर्थे कृतः दृश्यते ।

Balamanorama

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


नाञ्चेः पूजायाम् - पूजार्थादञ्चुधातोः क्विनिअनिदिता॑मिति नलोपे प्राप्ते — नाऽञ्चेः ।अनिदिता॑मिति सूत्रात् 'उपधायाः'क्ङिती॑त्यनुवर्तते । 'श्नान्न लोपः' इत्यतो 'नलोप' इत्यनुवर्तते ।ने॑ति लुप्तषष्ठीकम् । तदाह — पूजार्थस्येत्यादिना । पूजाया गम्यत्वे सतीत्यर्थः, न त्वत्राञ्चुधातोः पूजार्थत्वमेवेह विवक्षितम् । अत एवअञ्चितं गच्छती॑त्यत्र नलोपो न । अञ्चतेरत्र समाधानमर्थः । समाहितो भूत्वा गच्छतीति गम्यते । समाधानं च अव्याकुलत्वम्, अव्याकुलं गच्छतीत्यर्थः । अव्याकुलगमने च पूजा गम्यते, नत्वञ्चतेरेव सोऽर्थ इति 'अञ्चोनपादाने' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । प्राङिति । प्रपूर्वादञ्चतेः क्विन् । प्रकर्षेण पूजनमञ्चेरर्थः । नलोपाऽभावे प्राञ्च इत्यतः सुबुत्पत्तिः । हल्ङ्यादिलोपः, संयोगान्तलोपः, ततोऽनुस्वारपरसवर्णनिवृत्तौ नकारस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वेन ङकार इति भावः । प्राञ्चाविति । स्वाभाविकनकारस्य अनुस्वारपरसवर्णाविति भावः । अलुप्तेति ।उगिदचा॑मित्यत्र नलोपिनोऽञ्चेतेरेव ग्रहणान्नुम्न । ततश्च नकारद्वयश्रवणं न शङ्क्यमिति भावः । नलोपाऽभावादिति । शसादावचि 'अचः' इति लोपो न भवति । सुप्तनकारस्यैवाऽञ्चतेस्तत्र ग्रहणादिति भावः । प्राञ्चेति । प्र अञ्च् अस् इति स्थिते सवर्णदीर्घे रूपमिति भावः ।नाञ्चेः पूजाया॑मित्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवणं न स्यात्,अनिदिता॑मिति लोपप्रसङ्गात् । असर्वनामस्थानतयाउगिदचा॑मिति नुमश्चाऽप्रसक्तेरिति बोध्यम् । प्राङ्भ्यामिति । 'स्वादिषु' इति पदत्वाच्चकारस्य संयोगान्तलोपेऽनुस्वारपरसवर्णनिवृत्तौ नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकार इति भावः । इत्यादीति । प्राङ्भिः । प्राञ्चे, प्राङ्भ्याम्, प्राङ्भ्यः । प्राञ्चः, प्राञ्चोः, प्राञ्चाम् । प्राञ्चि, प्राञ्चोः । प्राङ्ख्ष्विति । 'ङ्णोः कुक्टुक्' इति वा कुक् । 'चयो द्वितीयाः' इति पक्षे खश्च बोध्यः । एवमिति । सुटि पूर्ववदेव रूपाणि । शसादावचि-प्रत्ययः । प्रत्यञ्चा । प्रत्यङ्भ्याम् । अमुमुयञ्चः । अमुमुयङ्भ्याम् । उदञ्चः । उदङ्भ्यामित्यादि ज्ञेयम् । क्रुञ्च कौटिल्येति । नलोपाभावोऽपीति ।अनिदिता॑मिति नलोपाऽभावः, निरुपपदात्क्विन्नपि निपात्यत इत्यर्थः । सति तु नलोपे नकारो न श्रूयेत ।उगिदचा॑मिति नुमः सर्वनामस्थानेऽप्यप्रवृत्तेः । वस्तुतस्तु स्वाभाविकञोपधस्यैव धातुपाठे निर्द#एशान्नलोपस्याऽत्र प्रसक्तिरेव नास्ति । अत एव 'परेश्च घाङ्कयोः' इति सूत्रे भाष्येक्रुञ्चे॑त्यत्र चकारे परे 'चो कुः' इति कुत्वमाशङ्क्य ऋत्विगित्यादि सूत्रे क्रुञ्चेति निपातनात्कुत्वं नेत्युक्तं सङ्गच्छते । यदि तु नस्यानुस्वारपरसवर्णाभ्यां ञकारो निर्दिश्येत, तर्हि तस्य 'चो कुः' इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गतिः स्यात्, कुत्वे कर्तव्ये परसवर्णस्याऽसिद्धत्वादित्यास्तां तावत् । नोपधत्वमभ्युपेत्य आह — क्रुङिति । हल्ङ्यादिलोपे संयोगान्तलोपे नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वम् । क्रुङ्भ्यामिति । संयोगान्तलोपे नकारस्य कुत्वं ङकारः । अत्र प्रथमैकवचने भ्यामादावपि कुत्वं निपातनादेव न भवति, चवर्गपञ्चमञकार एव सर्वत्रेति 'परेश्च घाङ्कयोः' इति सूत्रभाष्यकैयटस्वरसः । पयोमुगिति ।मुच्लृ मोक्षणे॑क्विप् । सुपूर्वात् 'ओ व्रस्चू छेदने' इति धातोः क्विपिग्राहिज्ये॑ति सम्प्रसारणे सुवृश्च्शब्दः । तस्य विशेषमाह-षत्वमिति । हल्ङ्यादिना सुलोपे कृते चकारस्य षत्वमित्यर्थः । सलोप इति । धातुपाठे व्रस्चू इति सस्य श्चुत्वे कृते 'व्रश्चू' इति निर्देशः । तत्र श्चुत्वस्याऽसिद्धत्वात् 'स्कोः' इति सकारस्य लोप इत्यर्थः । 'वावसाने' इति चर्त्वे षस्य टः । तदभावे जश्त्वेन ड इत्यर्थः । सुवृट्त्स्विति । चर्त्वस्याऽसिद्धत्वात्पूर्वंडः सी॑ति वा धुट् । ततस्चर्त्वमिति भावः । इति चान्ताः । अथ तान्ताः । अछ महच्छब्दे विशेषं वक्तुमाह — वर्तमाने । उणादिसूत्रमेतत् । निपात्यन्ते इति । तत्र 'पृषु सेचने' 'बृह वृद्धौ' अनयोर्गुणाऽभावः, महेः कर्मणि अतिप्रत्ययः,गमेर्जगादेशश्चेति विशेषः । शतृवदिति । शतृप्रत्ययान्तवदित्यर्थः । उगित्त्वादिति । शतृवद्भावेन सुटि उगित्त्वान्नुमित्यर्थः । सान्तेति । सुटि महन्त स् औ इत्यादिस्थितौ नकारात्पूर्वस्य अकारस्य दीर्घ इत्यर्थः । मह्रते इति । कर्तरि कृत् इति कत्र्रर्थं बाधित्वा निपातनात् 'मह पूजायाम्' इति धातोः कर्मणि अतिप्रत्यय इति भावः । महानिति । नुमि दीर्घे सुलोपे संयोगान्तलोप इति भावः । महान्ताविति । नुमि दीर्घे अनुस्वारपरसवर्णाविति भावः । हे महन्निति । असंबुद्धावित्यनुवृत्तेः 'सान्तमहतः' इति दीर्घो नेति भावः । महत इति । असर्वनामस्थानत्वाच्छसादौ न दीर्घः । धीरस्यास्तीत्यर्थे धीशब्दान्मतुप्, पकार इत्, उकार उच्चारणार्थः । तद्धितान्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः ।

Padamanjari

Up

index: 6.4.30 sutra: नाञ्चेः पूजायाम्


उदाहरणे मतिबुद्धिपूजार्थ इत्यादिना वर्तमाने क्तः, क्तस्य च वर्तमाने इति कर्तरि षष्ठी । अथ नाञ्चेरिटि इत्येव कस्मान्नोक्तम् नैवं शक्यं वक्तुम् इह हि न स्यात् - समञ्चते गुरुः, गुरुं समञ्च्यागत इति । इड्विधौ वृत्तिकारो वक्ष्यति - निष्ठायामस्य विभाषा इति प्रतिषेधे प्राप्ते क्त्वायाम्, तथा उदितो वा इति विकल्पे प्राप्ते पूजायां नित्यमिड्विधीयते इति । तेन गुरुमङ्त्वेति पूजायामसाधुरेव ॥