1-2-18 न क्त्वा सेट् कित्
index: 1.2.18 sutra: न क्त्वा सेट्
क्त्वा प्रत्ययः सेट् न किद् भवति । देवित्वा, वर्तित्वा । सेट् इति किम्? कृत्वा, हृत्वा । क्त्वाग्रहणं किम् ? निगृहीतिः, उपस्निहितिः, निकुचितिः ।
न सेडिति कृतेऽकित्त्वे निष्ठायामवधारणात् ।
ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ॥1॥
इत्त्वं कित्सन्नियोगेन रेण तुल्यं सुधीवनि ।
वस्वर्थं किदतीदेशान् निगृहीतिः प्रयोजनम् ।॥2॥
index: 1.2.18 sutra: न क्त्वा सेट्
सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥
index: 1.2.18 sutra: न क्त्वा सेट्
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥
index: 1.2.18 sutra: न क्त्वा सेट्
न किद्भवतीति । कित्कार्यं न करोतीत्यर्थः । न पुनः ककारस्येत्संज्ञाभावात् किन्न भवतीति । प्रकृतो हि किच्छब्दः कित्कार्यकारिणि वर्तत इति तदर्थस्यैव निषेधो युक्तः-देवित्वेत्यादौ गुणप्रतिषेधाख्यं कित्कार्यं न भवतीति । निगृहीतिरिति । अत्र ऽतितुत्रऽ इतीट्प्रतिषेधो न भवति, तितुत्रेष्वग्रहदीनामिति वचनात् । निकुचितिरिति । ऽकुञ्च कौटिल्याल्पीभावयोःऽ । एषूदाहरणेषु संप्रसारणम्, गुणप्रतिषेधः, उपधालोपश्च कित्वाद्भवन्ति । न सेडित्यादि । पूर्वाद्धेमेको ग्रन्थः, उतरार्द्धाच्च नेत्यपकृष्यते । न सेडित्येतावतापि योगेनाकित्वे कृते गुधितो गुधितवानित्यत्र निष्ठायामवधारणान्नियमान्न भविष्यति । ऽनिष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषःऽ इति नियमः-शीङदिभ्य एव परा निष्ठा न किदिति । विपरीतस्तु नियमः-निष्ठ्èअवेति व्याख्यानान्न भवति । लिटि तर्हि प्रतिषेधः स्यात्, ततश्च जग्मिव, जग्मिम ऽगमहनऽ इत्युपधालोपो न स्याद्, अत आह-ज्ञापकादिति । पूर्वाचार्यप्रसिद्ध्या परोक्षे लिडुच्यते, यथा-भवन्ती लट्, श्वस्तनी लुट् । किं ज्ञापकमित्यत आह-सनीति । ऽइको झल्ऽ इत्यत्र झल्ग्रहणस्यैतत्प्रयोजनम् - शिशयिषत इत्यत्र मा भूदिति । यदि च न सेडिति प्रतिषेध आतिदेशिकस्यापि कित्वास्य स्याद् झल्ग्रहणमनर्थकं स्यात् । प्राप्नोत्वत्र कित्वम्, ऽन सेट्ऽ इति प्रतिषेधो भविष्यति । तदेतद् झल्ग्रहणमौपदेशिकस्य कित्वस्यायं प्रतिषेधो नातिदेशिकस्येत्यस्यार्थस्य ज्ञापकं विदुः । ननु चोतरार्थं झल्ग्रहणम्, स्थाघ्वोरित्वं झलादौ यथा स्यात् चिण्वदिटि मा भूदिति-उपास्थायिषाताम्, अत्र हि उपास्थास् आतामिति स्थिते, इत्वं च प्राप्नोति चिण्वद्भावश्च, परत्वाच्चिण्वद्भावे युक्च प्राप्नोति वृद्धिश्च, कापवादत्वाद्यौकि कृते यकारस्येत्वप्रसङ्गः; न च पुनर्वृद्धिर्लभ्यते, पूर्वमेव युका बाधित्वात्, तस्मादुतरार्थं झल्ग्रहणम् ? नैतदस्ति; यस्मादित्वं कित्वसंयोगेनोच्यते, न चात्र कित्वमस्ति; न सेडिति प्रतिषेधात् । न ह्यत्रास्यां दशायां झल्ग्रहणस्य ज्ञापकत्वं स्थितमित्यातिदेशिकस्यापि कित्वस्यायं प्रतिषेधो भवति । रेण तुल्यं सुधीवनीति । शोभना धीवानोऽस्याः सुधीवा स्त्री ऽअनो बहुव्रीहेःऽ इति प्रकृतस्य ङीपो निषेधे सति ऽसंनियोगशिष्टानामन्यतराभावे उभयोरप्यभावःऽ इति यथा रेफो न भवति तद्वदिहापीत्यर्थः । वस्वर्थमिति । अर्थशब्दो निवृतौ । जग्मिवानित्यत्र क्वसौः कित्वप्रतिषेधो मा भूदित्येवमर्थं तर्हि क्त्वाग्रहणमित्यर्थः । दूषयति-किंदतीदेशादिति । सिद्धमिति शेषः । अस्त्वत्रौपदेशिकस्य कित्वस्य प्रतिषेधः, आतिदेशिकं कित्वं भविष्यति । यत्रतर्हि तत्प्रतिषिध्यते संयोगान्तष्वञ्जेः, आजिवान्-अत्र हि नलोपे कृते द्विर्वचन एकदेशे च ऽवस्वेकाजाद्धसाम्ऽ इतीडागमः, तत्र कृते कित्वप्रतिषेधाद् नलोपनिवृतौ द्विहल्तात् नुटि सत्येकाच्त्वाभावादिण्निवृतौ कित्वनलोपादीनां चक्रकप्रसह्गः । एवं तर्हि छान्दसः क्वसुः, लिट् च्छन्दसि सार्वधातुकमपि भवति ऽसार्वधातुकमपिद्ऽ इति ङ्त्विं ङ्तीत्युपिधालोपः । न च संयोगान्तेषु कित्वङ्त्वियोः कश्चिद्विशेषः, तस्माद्वस्वर्थमपि क्त्वाग्रहणं न भवति । एवं तर्हि-निगृहीतिः प्रयोजनम् । क्तिन्क्तिज्निवृत्यर्थं क्त्वाग्रहणमित्यर्थः । यदि पुनरुपरिष्टाद्योगविभागः क्रियते-न सेण्निष्टा शीङ्स्विदिमिदि क्ष्विदिधृषः, मृषस्तितिक्षायाम्, उदुपधाद्भावादिकर्मणोरन्यतरस्याम्; ततः पूङ्श्च-पूङ्श्च परा निष्ठा सेण् न किद्भवति; ततः क्त्वा च, क्त्वा च सेट् किन्न भवति । अत्र ऽपूङ्ःऽ इति निवृतमिति, ततः क्त्वाग्रहणं शक्यमकर्तुम् ॥