वा सुप्यापिशलेः

6-1-92 वा सुपि आपिशलेः संहितायाम् अचि एकः पूर्वपरयोः आद् वृद्धिः उपसर्गात् ऋति धातौ

Sampurna sutra

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


आत् उपसर्गात् ऋति सुपि धातौ पूर्वपरयोः वृद्धि-एकादेशः वा ।

Neelesh Sanskrit Brief

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


अवर्णान्तात् उपसर्गात् ऋकारादौ सुब्धातौ परे विकल्पेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


When an अवर्णान्त उपसर्ग is followed by a ऋकारादि सुब्धातु, both of them are optionally replaced by a single वृद्धि letter.

Kashika

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


आतित्येव, उपसर्गातृति धातौ इति च। सुबन्तावयवे धातौ ऋकारादौ परतः अवर्णान्तातुपसर्गात् पूर्वपरयोः आपिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्शभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। ऋकारलृकारयोः सावर्ण्यविधिः इति ऋतीति लृकारोऽपि गृह्यते। आपिशलिग्रहणं पूजर्थम्, वा इति ह्युच्यते एव।

Siddhanta Kaumudi

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् लृवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥

Neelesh Sanskrit Detailed

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः आद्गुणः 6.1.87 इत्यनेन गुणैकादेशे प्राप्ते ; तं बाधित्वा उपसर्गादृति धातौ 6.1.91

इत्यनेन नित्यम् वृद्ध्येकादेशे प्राप्ते; नामधातूनां विषये प्रकृतसूत्रेण अयम् वृद्ध्यैकादेशः विकल्प्यते, अतः पक्षे गुणैकादेशः अपि भवति। यथा —

  1. 'ऋषभम् आत्मनः इच्छति' इत्यत्र सुप आत्मनः क्यच् 3.1.8 इत्यनेन क्यच्-प्रत्यये कृते 'ऋषभीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । प्र + ऋषभीयति → प्रार्षभीयति, प्रर्षभीयति ।

  2. अस्मिन् सूत्रे अनुवृत्तिरूपेण 'ऋति' इति गृह्यमाणेन शब्देन सवर्णग्रहणम् अपि भवति, अतः ऌकारस्य विषये अपि प्रकृतं सूत्रं प्रवर्तते । यथा, 'ऌकारम् आत्मनः इच्छति' इत्यत्र सुप आत्मनः क्यच् 3.1.8 इत्यनेन क्यच्-प्रत्यये कृते 'ऌकारीय' इति आतिदेशिकधातौ सिद्धे, तस्य रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति । प्र + ऌकारीयति → प्राल्कारीयति, प्रल्कारीयति ।

ऋति इत्यत्र तपरकरणम्

केवलम् 'ऋ' इति निर्देशः अणुदित् सवर्णस्य चाप्रत्ययः 1.1.69 इत्येतं सूत्रम् अनुसृत्य सवर्णग्रहणं करोति । तद्बाधित्वा तपरस्तत्कालस्य 1.1.70 इत्यनेन तात्कालिक-भेदानाम्व एव ग्रहणं कर्तुम् ऋति-शब्दे तपरकरणं क्रियते । अनेन तपरकरणेन दीर्घ-ॠकारस्य अस्मिन् सूत्रे ग्रहणं न भवति, अतश्च दीर्घ-ॠकारादि-धातुरूपाणां विषये इदं सूत्रं नैव प्रवर्तते । अतः 'ॠकारम् आत्मनः इच्छति' इत्यत्र 'ॠकार' शब्दात् सुप आत्मनः क्यच् 3.1.8 इत्यनेन क्यच्-प्रत्यये कृते 'ॠकारीय' इति नामधातुः सिद्ध्यति, तस्य विषये इदं सूत्रं न प्रवर्तते । अतः अस्य धातोः विषये आद्गुणः 6.1.87 इत्यनेन नित्यम् गुणैकादेशः एव विधीयते । प्र + ॠकारीयति → प्रर्कारीयति ।

दीर्घ-ॠकारान्त-नामधातूनां विषये प्रकृतसूत्रेण वृद्ध्यैकादेशस्य बाधः भवति चेत् उपसर्गादृति धातौ 6.1.91 इत्यनेन पुनः वृद्ध्यैकादेशः न हि प्रवर्तते, यतः तस्मिन् सूत्रे अपि 'ऋति' इति शब्दः विद्यते एव ।

आपिशलिग्रहणम् पूजार्थम्

प्रकृतसूत्रे 'आपिशलेः' इति निर्देशः 'आपिशलिः' इति कस्यचन वैयाकरणस्य निर्देशः अस्ति । अष्टाध्याय्यां सामान्यरूपेण यत्र पाणिनिः अन्येषाम् आचार्याणाम् नाम उक्त्वा किञ्चन कार्यं वदति, तत्र तत् कार्यं वैकल्पिकं मन्यते । परन्तु अत्र पाणिनिना 'वा' इति उक्त्वा आदौ एव वैकल्पिकत्वम् उक्तमस्ति । अतः अत्र 'आपिशलि'-मुनेः ग्रहणम् केवलं पूजार्थम् (आदरार्थम्, to show respect, to give credit etc) क्रियते, न हि विकल्पविधानार्थम् ।

Balamanorama

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


वा सुप्यापिशलेः - न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामर्थ्याद्बाध्यत इत्यर्थः । वा सुपि । उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण #इत्यतो वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह — अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतकधातौ परत इत्यर्थः, सुबन्तस्य धातोरसंभवात् । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि तुस्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात्सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह — आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः संमत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यच्॒सनाद्यन्ताः॑ इति धातुत्वम् ।सुपो धातुप्रातिपदिकयोः॑ इति सुपो लुक् ।क्यचि चे॑ति ईत्वम् । लट्, तिप्, शप् । पररूपम् । प्र ऋषभीयतीति स्थितेऽनेन वृद्धिराकारः । रपत्वम् । प्रर्षभीयतीति । वृद्ध्यभावपक्षे आद्गुणः, रपरत्वम् । सावण्र्यादिति । ऋलृवर्णयोरिति सावण्र्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । लृकारमात्मान इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्वभावादत्र गुणः । लपरत्वम् । तपरत्वादिति । ऋतीति तपरकरणेन तत्कालस्यैव ग्रहणाद्दीर्घऋकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्ध्यभावादत्र गुण एव ।

Padamanjari

Up

index: 6.1.92 sutra: वा सुप्यापिशलेः


सुबन्तस्य धातोरसम्भवात्सुबित्येत्येतद्धातोरवयवद्वारकं विशेषणमित्याह -सुबन्तावयवे धाताविति। आचार्यग्रहणेनैव पूजाविकल्पयोरपि सिद्धयोः पुनर्वाग्रहणमाचार्यग्रहणस्य प्राधान्येन पूजार्थतां ख्यापयितुं कृतम् ॥