6-1-92 वा सुपि आपिशलेः संहितायाम् अचि एकः पूर्वपरयोः आद् वृद्धिः उपसर्गात् ऋति धातौ
आत् उपसर्गात् ऋति सुपि धातौ पूर्वपरयोः वृद्धि-एकादेशः वा ।
अवर्णान्तात् उपसर्गात् ऋकारादौ सुब्धातौ परे विकल्पेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
When an अवर्णान्त उपसर्ग is followed by a ऋकारादि सुब्धातु, both of them are optionally replaced by a single वृद्धि letter.
आदित्येव, उपसर्गादृति धाताविति च। सुबन्तावयवे धातावृकारादौ परतोऽवर्णान्तादुपसर्गात् पूर्वपरयोरापिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्षभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। ऋकारऌकारयोः सावर्ण्यविधिः (का० १.१.९) इति ऋतीति ऌकारोऽपि गृह्यते। आपिशलिग्रहणं पूजार्थम्। वेति ह्युच्यत एव॥
अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिरेकादेशः वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् ऌवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥
अवर्णान्त-उपसर्गात् ऋकारादौ धातुरूपे परे पूर्वपरयोः <<आद्गुणः>> 6.1.87 इत्यनेन गुणैकादेशे प्राप्ते ; तं बाधित्वा <<उपसर्गादृति धातौ>> 6.1.91
इत्यनेन नित्यम् वृद्ध्येकादेशे प्राप्ते; नामधातूनां विषये प्रकृतसूत्रेण अयम् वृद्ध्येकादेशः विकल्प्यते, अतः पक्षे गुणैकादेशः अपि भवति। यथा —
1. 'ऋषभम् आत्मनः इच्छति' इत्यत्र <<सुप आत्मनः क्यच्>> 3.1.8 इत्यनेन क्यच्-प्रत्यये कृते 'ऋषभीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परम् विद्यते चेत् पूर्वपरयोः विकल्पेन वृद्ध्यादेशः भवति, पक्षे गुणैकादेशः अपि सिद्ध्यति ।
<<वा सुप्यापिशलेः>> - न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामर्थ्याद्बाध्यत इत्यर्थः । वा सुपि । उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण #इत्यतो वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह — अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतकधातौ परत इत्यर्थः, सुबन्तस्य धातोरसंभवात् । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च संभवति, तथापि तुस्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात्सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह — आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः संमत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थेसुप आत्मनः क्यच्॒सनाद्यन्ताः॑ इति धातुत्वम् ।सुपो धातुप्रातिपदिकयोः॑ इति सुपो लुक् ।क्यचि चे॑ति ईत्वम् । लट्, तिप्, शप् । पररूपम् । प्र ऋषभीयतीति स्थितेऽनेन वृद्धिराकारः । रपत्वम् । प्रर्षभीयतीति । वृद्ध्यभावपक्षे आद्गुणः, रपरत्वम् । सावण्र्यादिति । ऋऌवर्णयोरिति सावण्र्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । ऌकारमात्मान इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्वं विशेषः । उपल्कारीयतीति । वृद्ध्वभावादत्र गुणः । लपरत्वम् । तपरत्वादिति । ऋतीति तपरकरणेन तत्कालस्यैव ग्रहणाद्दीर्घऋकारे परे वृद्धिविकल्पोऽयं न भवति, किं तु गुण एवेत्यर्थः । ऋकारीयतीति । ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्ध्यभावादत्र गुण एव ।
सुबन्तस्य धातोरसम्भवात्सुबित्येत्येतद्धातोरवयवद्वारकं विशेषणमित्याह -सुबन्तावयवे धाताविति। आचार्यग्रहणेनैव पूजाविकल्पयोरपि सिद्धयोः पुनर्वाग्रहणमाचार्यग्रहणस्य प्राधान्येन पूजार्थतां ख्यापयितुं कृतम् ॥