भय्यप्रवय्ये च च्छन्दसि

6-1-83 भय्यप्रवय्ये च छन्दसि संहितायाम् अचि एचः प्रत्यये धातोः

Sampurna sutra

Up

छन्दसि भय्य-प्रवय्ये

Neelesh Sanskrit Brief

Up

वेदेषु - 'भय्य' तथा 'प्रवय्या' एतौ शब्दौ निपात्येते ।

Neelesh English Brief

Up

In the context of Vedas, the words भय्य (the one from which somebody is afraid) and the word प्रवय्या (= a female being impregnated) are seen used (and should thus be considered derived).

Kashika

Up

बिभेतेर्धातोः प्रपूर्वस्य च वी इत्येतस्य यति प्रत्यये परतश्छन्दसि विषयेऽयादेशो निपात्यते। भय्यं किलासीत् (द्र० — काठ० सं० ३३.४)। वत्सतरी प्रवय्या। भय्येति <<कृत्यल्युटो बहुलम्>> ३.३.११३ इत्यपादाने यत् प्रत्ययः। बिभेत्यस्मादिति भय्यम्। प्रवय्या इति स्त्रियामेव निपातनम्। अन्यत्र प्रवेयमित्येव भवति। छन्दसीति किम् ? भेयम्। प्रवेयम्॥ ह्रदय्या आप उपसंख्यानम्॥ ह्रदय्या आपः। ह्रदे भवाः,<<भवे छन्दसि>> ४.४.११० यत् प्रत्ययः॥

Siddhanta Kaumudi

Up

बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् ।<!हृदय्या उपसंख्यानम् !> (वार्तिकम्) ॥ हृदे भवा हृदय्या आपः । भवे छन्दसि यत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यदा भी (भये) तथा च वी (प्रजनादिषु) एताभ्याम् धातुभ्याम् यत्-प्रत्ययः भवति, यदा वेदेषु अयादेशं निपात्य रूपं प्रयुक्तं दृश्यते । तद्यथा — 1) बिभेति अस्मात् (the one from which someone is afraid) अस्मिन् अर्थे भी-धातोः यत्-प्रत्यये कृते 'भय्य' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् — बिभेति अस्मात् [कृद्वृत्तिः] → ञिभी (भये, जुहोत्यादिः <{3.2}>) → भी [<<आदिर्ञिटुडवः>> 1.3.5,<<तस्य लोपः>> [1.3.9]]] → भी + यत् [<<कृत्यल्युटो बहुलम्>> 3.3.113 इति अपादाने यत्-प्रत्ययः] → भे + य [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → भय् + य [प्रकृतसूत्रेण अयादेशः निपात्यते ] → भय्य 2) प्रवीयते इति (the one that is being impregnated) अस्मिन् अर्थे प्र-उपसर्गपूर्वात् वी-धातोः यत्-प्रत्यये कृते 'प्रवय्या' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् — प्र + वी (गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, अदादिः <{2.43}>) → प्र + वी + यत् + आ [<<अचो यत्>> 3.1.97 इति यत्-प्रत्ययः । स्त्रीत्वं द्योतयितम् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः] → प्र + वे + य + आ [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → प्र + वय् + य + आ [प्रकृतसूत्रेण अयादेशः निपात्यते ] → प्रवय्या [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घादेशः] इदं सूत्रं वैदिकशब्दानाम् सिद्ध्यर्थम् एव प्रयुज्यते । लोके तु 'भेय' तथा 'प्रवेया' इत्येव रूपे भवतः । वार्त्तिकम् - <!हृदय्या आपः उपसङ्ख्यानम्!> 'हृद' शब्दात् तद्धितसंज्ञके यत्-प्रत्यये परे अकारस्य 'अय्' आदेशः निपात्यते, येन 'हृदय्य' इति शब्दः सिद्ध्यति — इति अस्य वार्त्तिकस्य आशयः । प्रक्रिया इयम्‌ — हृदे भवः [तद्धितवृत्तिः] हृद + यत् + टाप् [<<तत्र भवः>> 4.3.53 इत्यस्मिन् अर्थे <<शरीरावयवाच्च>> 4.3.55 इत्यनेन यत्-प्रत्ययः । स्त्रीत्वं द्योतयितम् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः] हृद् अय् + य + आ [अकारस्य अयादेशः निपात्यते] → हृदय्या [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घादेशः] अस्य शब्दस्य प्रयोगः 'हृदय्याः आपः' अनेन प्रकारेण कृतः दृश्यते । अस्य प्रयोगस्य सिद्ध्यर्थम् एव इदं वार्त्तिकम् निर्मितम् अस्ति ।

Balamanorama

Up

Padamanjari

Up

वीत्येतस्येति।'वी गत्यादिषु' , ठजेर्व्यघञपोःऽ इति वा। हृदय्या इति। आकारस्यायादेशः ॥ एकः पूर्वपरयोः ॥ वक्ष्यमाणप्रकरणे पौर्वापर्येणावस्थितौ निर्दिश्येते -आदचि, आदेचीत्यादि, तयोः पूर्वपरयोः स्थाने वक्षयमाणो गुणादिरेकादेशो भवतीति सूत्रार्थः । अथ पूर्वपरयोरिति किमर्थम्? स्थानिनिर्द्देशार्थम्, असति हि तस्मिन् ठाद्गुणःऽ इत्यादौ स्थानिनिर्द्देशाभावात् कक्य गुणादिरादेशः स्यात्। नैतदस्ति प्रयोजनम्, अदित्यादिका पञ्चमी अचीत्यादिकायाः सप्तम्याः षष्ठआआ प्रकल्पयिष्यति, सा च तस्यास्तेन तयोरेव पूर्वपरयोर्गुणो भविष्यतीति नार्थ एतेन ? तदाह -पूर्वपरग्रहणमित्यादि। द्वयोरादेशप्रतिपत्यर्थमिति। युगपदादेशप्रतिपत्यर्थमित्यर्थः॥ असति तु तस्मिन्कस्य स्यात्? इत्यत नोभे सप्तमीपञ्चम्याविकि। नोभे प्रकल्पिके भवतः, युगपन्न प्रकल्पिके भवत इत्यर्थः। इतिकरणो हेतौ। तत्र ठाद्गुणःऽ इत्यत्राचीत्येषा सप्तमी यणादिविधौ चरितार्था; आदित्येषा तु पञ्चमी न क्वचिच्चरितार्था, ततश्च सैव सप्तम्याः षष्ठआआ प्रकल्पयिष्यति इत्यच एव स्थाने गुणः स्याद्।'वृद्धिरेचि' इत्यत्र तु गुणविधौ पञ्चमी कृतार्थेति तस्याः ठेचिऽ इति सप्तम्यकृतार्था षष्ठआआ प्रकल्पयेदित्यवर्णस्यैव वृद्धिः स्यात्। ठुपसर्गादृति धातौऽ इत्यादौ द्वयोरप्यकृतार्थत्वेऽपि पर्यायेण परस्परषष्ठीप्रकलृप्तिः स्यात्, न युगपत्कार्यित्वं निमितत्वं च; द्वयोर्युगपद्विरोधात्, ततश्च कार्यमपि पर्यायेण स्यात्। तस्मात्पूर्वपरयोरिति वक्तव्यम् ? न वक्तव्यम्; एकग्रहणसामर्थ्याद्। ठन्तादिवच्चऽ इति वचनाच्च पूर्वपरयोर्द्वयोरेवादेशो भवष्यति, नान्यतरस्य ? सत्यम्; सुखप्रतिपत्यर्थं तु पूर्वपरयोरित्युक्तम्; अन्यथा युगपत् षष्ठीप्रकल्पनद्वारेण विवक्षितप्रतिपतौ प्रतिपतिगौरवं स्यात् । अथ किमर्थमेकग्रहणम्, प्रथमनिर्दिष्टमतिक्रम्य चरमनिर्दिष्टस्य'पूर्वपरयोः' इत्यस्य प्राक् प्रयोजनमुक्तम्; पाठक्रमादर्थकमस्य बलीयस्त्वात्। कथम् ? सतः कार्यिणः कार्येण भवितव्यम्, कार्यस्य च गुणादेर्विशेषणमेकग्रंहणम्। ननु च ठाद्गुणःऽ इत्यादावेकस्यैवादेशस्य सूत्रे उपादानम्, संख्याया विवक्षितत्वादुपातसंख्यात्यागे कारणाभावात्, ततश्चैक एव गुणादिरादेशो भविष्यति। स्यादेतत् -आदेशस्य विधेयतया प्राधान्यात् प्रधाने च ग्रहं सम्मार्ष्टीत्यादौ संख्याया अविवक्षितत्वादनेकादेशप्रसङ्ग इति ? तदसतः ग्रहं शेषितयोद्दिश्च सम्मार्गो हि विधीयते, शास्त्रान्तरे च विहितं शेषेत्वमुपगच्छति, शास्त्रान्तरो च विज्ञाता ग्रहाः संख्यान्तरान्विताः, तत्रैकत्वविवक्षायां वाक्यभेदः प्रसज्येतेति कृत्वा ग्रहैकत्वमविवक्षितमुच्यते। नैवं गुणादिरादेश इत्येकत्वं विवक्षितम्;'प्राजापत्या नव ग्रहाः' इति शास्त्रान्तरविहितनवग्रहोद्देशेन संस्कारः सम्मार्गो विधीयते, तत्र श्रुतमप्येकत्वं नोद्देश्यकोटौ निवेशयितुं शक्यते; तत्र संख्यान्तरान्विततया विहितत्वात्। ततश्च तद्विवक्षायां तदपि विधेयं स्यात्, ततश्च वाक्यभेदप्रसङ्गः। वचनव्यक्तिभेदाद्यो ग्रहस्तं सम्माष्टि, तं चैकमिति। इह तु विधेयतया गुणादेः प्राधान्येऽपि विशिष्टविधिसम्भवाद् न वाक्यबेदप्रसङ्गः, अविवक्षाकारणाभावाद्वियक्षितमेकत्वं लोकवत्, तद्यथा -लोकेऽनयोर्मृत्पिण्कडयोर्घट्ंअ कुर्विति, न चोच्यते एकमिति एकमेव चासौ करोति। न चार्थप्रकरणादिना तत्रैकस्य करणम्, तदभावेऽपि दर्शनातस्मान्नार्थ एकग्रहणेन? तत्राह -एकग्रहं पृथगादेशनिवृत्यर्थमिति। यथा पुनः पृथगादेशप्रसङ्गस्तथा दर्शयति -स्थानिभेदादिति।'पूर्वपरयोः' इति निर्द्देशात्स्थानिभेदः प्रतीयते, ततश्च तद्वशादादेशेऽपि श्रुतमप्येकत्वमविवक्षितं स्यादित्यनेकादेशप्रसङ्ग इत्यर्थः। अवश्यं चैतदेवमभ्युपगन्तव्यमिति दृष्टान्तेन दर्शयति। भिन्नादिषु नत्ववदिति। यथा रदाभ्यां निष्ठातो नः पूर्वस्य च दःऽ इति नत्वमेकत्वाविवक्षया प्रतिस्थानि भवति, तद्वदत्रापीत्यर्थः। भाष्ये त्वेकग्रहणं प्रत्याख्यात्म्। न तावद् गुणभूतस्थान्यनुरोधेन प्रधानस्यादेशस्य भेदकल्पना युक्ता, प्रधानानुरोधी ही गुणो भवति,न पुनर्गुणानुरोधी प्रदानम्। यच्चोक्तम् -भिन्नादिषु नन्ववदिति, तत्र न खलु नत्वविधावेकत्वस्याविवक्षिततया द्वौ नकारौ भवतः, किं तर्हि? पूर्वस्य चेति चकाराद्वाक्यभेदोऽवगम्यते। तत्र पूर्वेण निष्ठातो नत्वम्, परेण धातुदकारस्य, इह च ठुभौसाभ्यासस्यऽ इति प्राणिणिषतीत्युपसर्गादनन्तरस्य नकारस्य ठनितेःऽ इत्येव णात्वे सिद्धे साभ्यासस्येतेयेतावतैव द्वयोर्नकारयोर्मत्वं सिद्धमिति स्थानिनिर्द्देशार्थमुभौग्रहणं न कर्तव्यम् -उभौ नकारौ णत्वमापद्यते इति। तस्मादादेशार्थमुभौग्रहणं विज्ञायते -साब्यासस्यानितेर्थौ नकारौ द्वौ तयोरुभौ णौ भवत इति। तेनात्रापि नैकत्वस्याविवक्षितत्वाद् द्वयोद्वाê भवतः, किन्तूभौग्रहणादिति न कश्चिद्दोषः। इह श्रुतिस्मृतिविहितं कर्म किञ्चित्सकृदनुष्ठीयते, यथा -उपनयनम्, आधानम्, आचमनमिति; न ह्युपनीतः पुनरुपनीयते, नाप्यग्न्याहितः पुनरग्नीनाधते, नाप्याचान्तः पुनराचामति। असति निमिते, किञ्चिदसकृद्यथा -ज्योतिष्टो मादयः। यथा -ठ्पूर्ववया ब्राह्मणः प्रत्युत्थेयःऽ इति यो यो वृद्धवयास्तस्य तस्यागमनं प्रत्युत्थीयते।'ब्राह्मणो न हन्तव्यः' ,'सुरा न पेया' इति प्रतिव्यक्तिविषेधोऽनुष्ठीयते, न पुनरेकं ब्राह्मणमहत्वैकां च सुरामपीत्वान्यत्र कामचारः। व्याकरणं च स्मृतिः, तदिह ठाद्गुणःऽ इत्यनया स्मृत्या'गुणः कर्तव्यः' इति चोदिते यदि सकृदनुष्ठानं खट्वेन्द्र इत्येकस्यां व्यक्तौ गुणे कृते कृतः शास्त्रार्थ इति कृत्वा मालेन्द्र इत्यादिषु न क्रियेत, तस्मात्प्रत्युत्थानादिवदावर्तते। किं पुनरत्र निभन्धनम् -किञ्चित्सकृत्क्रियते, किञ्चित्पुनः पुनरिति? उपनयनं तावन्माणवकस्य संस्कारः, सकृच्चासौ संस्कृतोऽध्ययनादिषु योग्यो भवति, आधानमप्यग्निसंस्कारार्थम्, सम्पन्नेष्वग्निषु प्रयोजनाबावात्पुनर्न क्रियते, आचमनमपि शौचार्थमित्य सति निमिते पुनर्न क्रियते। ज्योतिष्टोमादयस्तु नित्याश्चेत्प्रत्यवायपरिहाराय वसन्ते क्रियन्ते; अथ काम्याः ठमुष्मिन् लोक एनमप्सरसो जाया भूत्वोपशेरते इति ततस्तमभ्युदयम्ऽ, भूयोभूयः परीप्सुभिः पुनः पुनरनुष्ठीयन्ते। पूर्ववयोब्राह्मणप्रत्युत्थानाकरणे दोषः, करणे चाब्युदयो दर्शितः - ठूर्ध्व प्राणा ह्युत्कामन्ति यूनः स्थाविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यतेऽ॥ इति। तच्च प्रत्यागमनमविशिष्टम्, अतो दोषनिर्हाणाथ पुनः पुनरनुष्ठीयन्ते। नैमितिकत्वाद्वा प्रतिनिमितमावृत्तिः। तथा ब्राह्मणवधे च सुरापाने च दो, उक्तः। स ब्राह्मणमात्रे सुरामात्रे च भवति, ततो दोषवन्तो मा भूमेति सर्वत्रैवानुष्ठीयते। इह शब्दस्य ज्ञाने प्रयोगे चाभ्युदयो दशितः -ठेकः शब्द सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवतिऽ इति। प्रत्यवायश्च याज्ञे कर्मण्यपशब्दुप्रयोगे दर्शितः -ठ्तेऽसुरा हेलयःऽ इति, ठाहिताग्निरपशब्दं प्रयुज्यऽ इति च। अत एव तदपि गुणादिक पुनःपुनरनुष्ठीयते। तदेवं नित्यत्वं नैमितिकत्वं काम्यत्वं भूयोबूयोऽनुष्ठाननिबन्धनम्। एतच्च सर्वशास्त्रसाधारणमपि वातिककारेण प्रोक्तं भाष्यकारेणोपपादितमित्यस्माभिरप्यत्रैव प्रत्यपादि ॥