3-3-113 कृत्यल्युटः बहुलम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्
index: 3.3.113 sutra: कृत्यल्युटो बहुलम्
भावे, अकर्तरि च कारके इति निवृतम्। कृत्यसंज्ञकाः प्रत्ययाः ल्युट् च भौलमर्थेषु भवन्ति। यत्र विहितास् ततोऽन्यत्र अपि भवन्ति। भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति। स्नानीयं चूर्णम्। दानीयो ब्राह्मणः। करणाधिकरणयोः भावे च ल्युट्। अन्यत्र अपि भवति। अपसेचनम्। अवस्रावणम्। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। प्रस्कन्दनम्। प्रपतनम्। बहुलग्रहणादन्येऽपि कृतः यथाप्राप्तमभिधेयं व्यभिचरन्ति। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः।
index: 3.3.113 sutra: कृत्यल्युटो बहुलम्
स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥
index: 3.3.113 sutra: कृत्यल्युटो बहुलम्
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥
स्नात्यनेनेति स्नानीयं चूर्णम्। दीयतेऽस्मै दानीयो विप्रः॥
index: 3.3.113 sutra: कृत्यल्युटो बहुलम्
कृत्यल्युटो बहुलम् - कृत्यल्युटो । याभ्यः प्रृतिभ्यो येष्वर्थेषु विहितास्ततोऽन्यत्रापि स्युरित्यर्थः ।स्नानीयमिति । करणे अनीयर् । दानीय इति । संप्रदाने अनीयर् । भाष्ये तुकृतो बहुलमिति वक्तव्य॑मित्युक्त्वा पादाभ्यां ह्यियते पादहारकः । कर्मणि ण्वुल् । आओऽग्नीनाधास्यमानेन । अनद्यतने भविष्यति लृडित्युदाहृतम् ।
index: 3.3.113 sutra: कृत्यल्युटो बहुलम्
स्नानीयमिति । करणे कृत्यः । दानीय इति । संप्रदाने अवसेचनादौ कर्मणि ल्युट् । प्रस्कन्दनः, प्रपतन इति । कर्तरि । बहुलग्रहणं न कर्तव्यम्, आरम्भसामर्थ्यादेव कृत्यल्युटो यत्र विहितास्ततोऽन्यत्र भविष्यन्ति, ततो बहुलग्रहणात् कृन्मात्रस्य स्वार्थव्यभिचारः साधितो भवति ।'तयोरेव कृत्यक्तखलर्थाः' 'कर्तरि कृत्' इत्ययं त्वर्थनिर्देशः'बाहुल्याद्भावादिषु भवन्ति, क्वचिदेव त्वन्यत्र' इति ज्ञापनार्थः । पादहारक इति । कर्मणि ण्वुलि पञ्चम्यन्तस्य साधनं कृतेति समासः । गलेचोपक इति । ठमूईर्द्धमस्तकात्ऽ इत्यलुक् ॥