सर्वत्र विभाषा गोः
6-1-122 सर्वत्र विभाषा गोः संहितायाम् अचि प्रकृत्या
Sampurna sutra
Up
पदान्तात् गोः एङः अति सर्वत्र प्रकृत्या विभाषा
Neelesh Sanskrit Brief
Up
पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व अकारे परे संहितायाम् लोके वेदे च विकल्पेन प्रकृतिभावः भवति ।
Neelesh English Brief
Up
In the context of संहिता, an ओकार occurring at the end of the पदसंज्ञक गो शब्द exhibits optional प्रकृतिभाव when followed by a ह्रस्व अकार.
Kashika
Up
सर्वत्र छन्दसि भाषायां चाति परतो गोरेङ् प्रकृत्या भवति विभाषा। गोऽग्रम्, गो अग्रम्। छन्दसि — अप॑॑शवो॒ वा अ॒न्ये गो॑॑अ॒श्वेभ्य॑ः॑ प॒शवो॑॑ गोअ॒श्वान् (तै० सं० ५.२.९४)॥
Siddhanta Kaumudi
Up
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥
Laghu Siddhanta Kaumudi
Up
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
Neelesh Sanskrit Detailed
Up
पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व-अकारे परे <<एङः पदान्तादति>> 6.1.109 इत्यनेन नित्यम् पूर्वरूपैकादेशे प्राप्ते, प्रकृतसूत्रेण वैकल्पिकः प्रकृतिभावः (इत्युक्ते, अच्-सन्धेः अभावः) विधीयते । पक्षे (प्रकृतिभावस्य अभावे) <<एङः पदान्तादति>> 6.1.109 इत्यनेन पूर्वरूप-एकादेशः अपि भवति । यथा —
गोः अग्रम् [<<षष्ठी>> 2.2.8 इति समासः]
→ गो + अग्र [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]
→ गोग्रम्, गोअग्रम् [पदसंज्ञकस्य गो-शब्दस्य ओकारात् परः ह्रस्वः अकारः विद्यते, अतः ओकारस्य <<सर्वत्र विभाषा गोः>> 6.1.122 इति पाक्षिकः प्रकृतिभावः विधीयते । पक्षे <<एङः पदान्तादति>> 6.1.109 इति पूर्वरूपम् अपि भवति । ततः सुबुत्पत्तिं कृत्वा 'अग्रम्' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाः अन्ते सिद्धे गोऽग्रम् तथा गोअग्रम् इति द्वे अपि समस्तपदे एव स्तः इति ज्ञेयम् ।]
अत्र प्रक्रियायाम् गो-शब्दस्य <<अवङ् स्फोटायनस्य>> 6.1.123 इत्यनेन वैकल्पिकः अवङ्-आदेशः अपि सम्भवति, अतः 'गवाग्रम्' इति अपि अन्यत् वैकल्पिकम् रूपम् जायते ।
अस्मिन् सूत्रे अनुवृत्तिरूपेण 'एङ्' इति शब्दः स्वीक्रियते । यद्यपि एङ्-प्रत्याहारे एकार-ओकारौ स्तः, तथापि गो-शब्दस्य अन्ते एकारः नैव सम्भवति । अतः अत्र सूत्रार्थे ओकारस्यैव उदाहरणम् विद्यते ।
दलकृत्यम्
1. सर्वत्र इति किमर्थम् ? प्रकृतसूत्रात् पूर्वम् विद्यमानानि प्रकृतिभावप्रकरणे पाठितानि सर्वाणि अपि सूत्राणि (<<प्रकृत्याऽन्तःपादमव्यपरे>>
6.1.115
इत्यतः <<अवपथासि च>>
6.1.121 इति यावन्ति सप्त सूत्राणि) केवलम् वैदिकप्रयोगानां विषये एव प्रवर्तन्ते । परन्तु इदं सूत्रम् वैदिकप्रयोगार्थम् लौकिकप्रयोगार्थम् च अपि पाठितम् अस्ति । अतः अस्मिन् सूत्रे 'सर्वत्र' इति शब्देन 'वेदेषु लोकेषु च' इतो अर्थः ज्ञाप्यते ।
2. विभाषा इति किमर्थम् ? प्रकृतसूत्रेण उक्तः प्रकृतिभावः विकल्पेनैव भवति, अतः पक्षे <<एङः पदान्तादति>>
6.1.109 इत्यनेन पूर्वरूपसन्धिः अपि भवति इति ज्ञापयितुम् अस्मिन् सूत्रे 'विभाषा' इति शब्दः स्वीक्रियते ।
3. एङः इत्यस्य अनुवृत्तिः किमर्थम् ? यदि पदसंज्ञक-गो-शब्दस्य अन्ते कश्चन अन्यः वर्णः (यथा, उकारः) विद्यते तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा,
चित्राः गावः यस्य तत् (कुलम्) इत्यत्र
चित्रगु इति ह्रस्व-उकारान्तशब्दस्य विषये इदं सूत्रं नैव प्रवर्तते, अतः
चित्रगुणः अग्रम् अस्मिन् समासे
चित्रगु + अग्रम् इति स्थिते <<इको यणचि>> इति यणादेशः एव भवति येन
चित्रग्वम् इति शब्दः सिद्ध्यति ।
4. पदान्ते इति किम्? गो शब्दस्य अपदान्त-ओकारस्य विषये इदं सूत्रम् नैव प्रवर्तते । अतएव गो-शब्दस्य पञ्चम्येकवचनस्य/षष्ठ्येकवचनस्य प्रक्रियायाम् 'गो + अस्' इति स्थिते अत्र गो-शब्दस्य पदसंज्ञायाः अभावात् प्रकृतसूत्रम् नैव प्रवर्तते, अतः <<ङसिङसोश्च>>
6.1.110 इत्यनेन पूर्वरूप-एकादेशे कृते गोः इत्येव सिद्ध्यति । एवमेव, पदस्य
मध्ये विद्यमानस्य ओकारस्य विषये अपि इदं सूत्रं नैव प्रवर्तते, अतः
गोः + अत्र इत्यत्र अपि प्रकृतसूत्रस्य प्रसक्तिः नास्ति ।
प्रतिपदोक्तस्यैव ओकारस्य ग्रहणम्, न हि सूत्रनिर्मितस्य
गो-शब्दस्य अन्ते
मूलरूपेण (प्रातिपदिकस्वरूपे) ओकारः विद्यते चेदेव प्रकृतसूत्रम् प्रवर्तते । यदि तत्र मूलरूपेण कश्चन अन्यः वर्णः अस्ति, प्रक्रियायां च तस्य ओकारादेशः भवति, तर्हि <<लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्>> अनया परिभाषया तस्य विषये इदं सूत्रं न प्रवर्तते । यथा,
चित्रगु-इति उकारान्तशब्दस्य सम्बोधनस्य एकवचने उकारस्य गुणादेशे कृते ओकारः जायते, येन 'चित्रगो' इति ओकारान्तः शब्दः सिद्ध्यति । यद्यपि अत्र पदान्ते 'गो' शब्दस्य ओकारः अस्ति, तथापि अयम् ओकारः प्रातिपदिकस्य नास्ति अपितु लाक्षणिकः (सूत्रनिर्मितः) अस्ति इति कारणात् प्रकृतसूत्रम् अत्र न प्रवर्तते, अतः
चित्रगो + अत्र इत्यत्र केवलम् <<एङः पदान्तादति>>
6.1.109 इत्यनेन पूर्वरूपं कृत्वा
चित्रगोऽत्र इत्येव प्रयोगः सिद्ध्यति ।
Balamanorama
Up
<<सर्वत्र विभाषा गोः>> - सर्वत्र विभाषा । पदान्तादित्यनुवर्तते ।प्रकृत्यान्तः पाद॑मित्यतःप्रकृत्ये॑त्यनुवर्तते । प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः । 'यजुष्युर' इत्यतो यजुषीति निवृत्तं । तत्सूचनायसर्वत्रे॑त्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह — लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः । एवं च पूर्वरूपमवादेशश्च न । गो-अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एङ इत्यप्यनुवर्तते । ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात् । प्रकृते च 'ह्रस्वस्य गुण' इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एवङसिङसोश्चे॑ति तत्र पूर्वरूपारम्भात् ।
Padamanjari
Up
सर्वत्र च्छन्दसि भाषायां चेति। यद्यपि'च्छन्दसि' इति न प्रकृतम्, तथापि ठन्तः पादं यजुषिऽ इति वचनात् अवक्रमुः, अव्रतावस्युरिति छान्दसानुकरणाच्च छान्दसानि पूर्वसूत्राणीति भावः। सर्वत्रग्रहणं तु यजुषि, अन्यत्र चेत्यप्युपपन्तम्। पदान्तादित्येव - गोरागतं गोः स्वम् ॥