अवपथासि च

6-1-121 अवपथासि च संहितायाम् अचि प्रकृत्या यजुषि अनुदात्ते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यजुषीत्येव। अनुदात्त इति चशब्देनानुकृष्यते। अवपथाःशब्देऽनुदात्तेऽकारादौ परतो यजुषि विषय एङ् प्रकृत्या भवति। त्री रुद्रेभ्यो अवपथाः (काठ० सं० ३०.६.३२)। वपेर्लङि थासि <<तिङ्ङतिङः>> ८.१.२८ इति निघातेनानुदात्तत्वम्। अनुदात्त इत्येव — यद्रुद्रेभ्योऽवपथाः। <<निपातैर्यद्यदिहन्त॰>> ८.१.३० इति निघातः प्रतिषिध्यते॥

Siddhanta Kaumudi

Up

अनुदात्ते अकारदौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुंद्रेभ्यो अवपथाः (त्रीरुं॒द्रेभ्यो॑ अवपथाः) । वपेस्थासि लङि तिङ्ङतिङः - <{SK3935}> इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुद्रेभ्योऽवपथाः (यद्रुद्रेभ्यो॑ऽवपथाः) । निपातैर्यद्यदि - <{SK3937}> इति निघातो न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up