5-4-94 अनओश्मायःसरसां जातिसञ्ज्ञयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
अनः-अश्म-अयस्-सरसाम् तत्पुरुषस्य जाति-संज्ञयोः टच्
यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायाम् गम्यमानायाम् 'टच्' इति समासान्तप्रत्ययः भवति ।
अनस् अश्मन् अयस् सरस् इत्येवमन्तात् तत्पुरुषात् टच् प्रत्ययो भवति जातौ संज्ञायां च विषये। उपानसमिति जातिः। महानसमिति संज्ञा। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा। कालायसमिति जातिः। लोहितायसमिति संज्ञा। मण्डूकसरसमिति जातिः। जलसरसमिति संज्ञा। जातिसंज्ञयोरिति किम् ? सदनः। सदश्मा। सत्सरः॥
टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥
यस्य तत्पुरुषसमासस्य अन्ते 'अनस्' (गृहम्), 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तथा च यत्र समस्तपदेन जातेः उत संज्ञायाः निर्देशः भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते । उदाहरणानि एतादृशानि - 1. उपगतमनः [<<कुगतिप्रादयः>> 2.2.18 इति तत्पुरुषसमासः] → उप + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → उपानस [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] उपानसम् इति काचन जातिः । 2. महान् च असौ अनः [<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> 2.1.61 इति कर्मधारयसमासः] → महत् + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → महा + अनस् + अ [<<आन्महतः समानाधिकरणजातीययोः>> 6.3.46 इति महत्-शब्दस्य तकारस्य आकारादेशः] → महानस महानस (kichen) इति संज्ञा अस्ति । 3. अमृतं च तद् अश्म [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = अमृत + अश्म + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → अमृताश्मन् + अ [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → अमृताश्म् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → अमृताश्म अमृताश्मः इयम् काचन जातिः । 4. पिण्डम् च तद् अश्म [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = पिण्ड + अश्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → पिण्डाश्मन् + अ [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → पिण्डाश्म् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → पिण्डाश्म 'पिण्डाश्मः' इति काचन संज्ञा । 5. कालं च तद् अयः [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = काल + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → कालायस् + अ [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → कालायस 'कालायसम्' इति लोहस्य कश्चन जातिः । Black iron इत्याशयः । 6. लोहितम् च तद् अयः [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = लोहित + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → लोहितायस् + अ [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → लोहितायस 'लोहितायसम्' इति ताम्रस्य संज्ञा अस्ति । Red colored metal इत्याशयः । 7. मण्डूकानाम् सरः [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः] मण्डूक + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → मण्डूकसरस मण्डूकसरसम् इति सरसः काचन जातिः । A type of lake that contains lots of frogs इत्याशयः । 8. जलानाम् सरः → जल + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → जलसरस् + अ → जलसरस → जलसरस जलसरसम् इति काचन संज्ञा । A lake with lot of water इत्यर्थः । यत्र 'जाति' उत 'संज्ञा' इति अर्थः नास्ति तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'सतामनः सदनम्' अत्र केवलम् 'गृहम्' इत्येव अर्थः अस्ति अतः अत्र टच् प्रत्ययः न भवति ।
<<अनोऽश्मायस्सरसाम् जातिसंज्ञयोः>> - अनोऽश्यमायस् । उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतोऽश्मेति विग्रहः । टचि टिलोपः । कालायसमिति । कालमय इति विग्रहः । टच् ।परवल्लिङ्ग॑मिति नपुंसकत्वम् । मण्डूकसरसमिति । षष्ठीसमासः । टच् । जातिविशेषा एते । महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः ।
जवन इत्यर्थ इत्यादि। विषयविशेषादियमर्थव्यवस्था श्वशब्दस्य ॥