5-4-95 ग्रामकौटाभ्यां च तक्ष्णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
ग्रामकौटाभ्याम् तक्ष्णः तत्पुरुषस्य टच्
यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।
जातिसंज्ञयोरिति नानुवर्तते। ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। ग्रामस्य तक्षा ग्रामतक्षः। बहूनां साधारण इत्यर्थः। कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः। स्वतन्त्रः कर्मजीवी, न कस्यचित् प्रतिबद्ध इत्यर्थः। ग्रामकौटाभ्यामिति किम्? राजतक्षा॥
ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥
यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' (= कुट्यां भवः इत्याशयः) एतौ शब्दौ स्तः तथा च 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । यथा - 1. ग्रामस्य तक्षा (carpenter of the village) [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषसमासः] → ग्राम + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → ग्रामतक्ष् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → ग्रामतक्ष ग्रामस्य तक्षा ग्रामतक्षः । 2. कौटश्चासौ तक्षा च (carpenter who stays in a hut and works from there. Works independently, not under someone इत्याशयः) [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः ] → कौट + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → कौटतक्ष् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → कौटतक्ष विशेषः - 'कौट' इति शब्दः 'कुट्यां भवः' इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> 4.1.83 इति अण्-प्रत्ययं कृत्वा सिद्ध्यति । ज्ञातव्यम् - अन्येषु तत्पुरुषसमासेषु उत्तरपदरूपेण विद्यमानात् 'तक्षन्' शब्दात् टच् प्रत्ययः न भवति । यथा - राज्ञः तक्षा = राजतक्षा ।
<<ग्रामकौटाभ्यां च तक्ष्णः>> - ग्रामकौटाभ्यां च । आभ्यां टजिति । ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात्तत्पुरुषाट्टच्स्यादित्यर्थः । ग्रामतक्ष इति । टचि टिलोपः । साधारण इति । ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः । कुटआं भव इति । कुटीमेकां क्रयादिना सम्पाद्य तत्र यो वसति, न तु परकीयभूमिप्रदेशे स कौट इत्यर्थः । फलितमाह — स्वतन्त्र इति । कौटतक्ष इति । टचि, टिलोपः ।