5-4-89 न सङ्ख्यादेः समाहारे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य अह्नः
अह्नः अह्नः सङ्ख्यादौ तत्पुरुषस्य समाहारे न
समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति ।
संख्यादेस्तत्पुरुषस्य समाहारे वर्तमानस्याहःशब्दस्याह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहार इति किम्? द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। <<तद्धितार्थो०>> २.१.५१ इति समासे कृतेऽण आगतस्य <<द्विगोः०>> ४.१.८८ इति लुक्॥
समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥
<<अह्नोऽह्न एतेभ्यः>> 5.4.88 इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उक्तः अस्ति । अयमादेशः यद्यपि सङ्ख्यावाचकस्य पूर्वपदस्य उपस्थितौ भवितुमर्हति, तथापि समाहारस्य विषये अयमादेशः वर्तमानसूत्रेण निषिध्यते । यथा - द्वयोः अह्नोः समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति द्विगुसमासः] → द्वि + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> 5.4.91 इति समासान्तः टच्-प्रत्ययः] → द्व्यहन् + अ [<<इको यणचि>> 6.1.77 इति यणादेशः] → द्व्यह् + अ [<<अह्नष्टखोरेव>> 6.4.145 इति टिलोपः] → द्व्यह [<<रात्राह्नाहाः पुंसि>> 2.4.39 इति पुंस्त्वम् ] अहन्-शब्दस्य <<अह्नोऽह्न एतेभ्यः>> 5.4.88 इत्यनेन प्राप्तः अह्नादेशः नैव भवतीति प्रक्रियाविशेषः अत् स्मर्तव्यः । एवमेव - त्रयाणामह्नाम् समाहारः त्र्यहः । स्मर्तव्यम् - 'द्वाभ्यां अहभ्यामागतः' एतादृशेषु वाक्येषु द्विगुसमासान्तप्रातिपदिकात् विहितस्य अजादितद्धितप्रत्ययस्य <<द्विगोर्लुगनपत्ये>> 4.1.88 इत्यनेन लुक् भवति । यथा - द्वाभ्यां अहभ्यामागतः = द्वि + अहन् + अण् [<<ततः आगतः>> 4.3.74 अस्मिन् अर्थे औत्सर्गिकः अण्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति द्विगुः] → द्वि + अहन् + टच् + अण् [<<राजाहस्सखिभ्यष्टच्>> 5.4.91 इति समासान्तः टच्-प्रत्ययः] → द्वि + अहन् + टच् [<<द्विगोर्लुगनपत्ये>> 4.1.88 इति तद्धितप्रत्ययस्य लुक्] → द्व्यहन् + अ [<<इको यणचि>> 6.1.77 इति यणादेशः] → द्व्यह् + अ [<<अह्नष्टखोरेव>> 6.4.145 इति टिलोपः] → द्व्यह [<<रात्राह्नाहाः पुंसि>> 2.4.39 इति पुंस्त्वम् ] द्वाभ्यां अहभ्यामागतः द्व्यहः । एवमेव - द्वयोः अह्नोः भवः द्व्यहः । , विशेषः - अस्मिन् सूत्रे 'सङ्ख्यादेः' इति पदम् वस्तुतः न आवश्यकम्, यतः तत्पुरुषसमासस्य विषये 'समाहार'समासः सङ्ख्यादिः एव भवितुमर्हति । अतः केवलं 'न समाहारे' इत्येव उच्यते चेदपि पर्याप्तम् । अतएव कौमुद्यामुच्यते - 'संख्यादेरिति स्पष्टार्थम्' ।
<<न संख्याऽऽदेः समाहारे>> - न सङ्ख्यादेः । अह्नादेश इति । 'अह्नोऽह्नः' इत्यतस्तदनुवृत्तेरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह — स्पष्टार्थमिति । द्व्यह इति । समाहारे द्विगुः । टच्,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्व्यहवत् ।
'सङ्खयादेः' इति न वक्तव्यम्; अन्यस्य समाहारे वृत्यसम्भवात् ॥