विभाषा अञ्चेरदिक्स्त्रियाम्

5-4-8 विभाषा अञ्चेः अदिक् स्त्रियाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः खः

Sampurna sutra

Up

अदिक्-स्त्रियामञ्चेः विभाषा खः

Neelesh Sanskrit Brief

Up

यः 'अञ्च्' धातोः निर्मितः शब्दः 'दिशा' इत्यस्मिन्नर्थे स्त्रीलिङ्गे न प्रयुज्यते, तस्मात् स्वार्थे विकल्पेन ख-प्रत्ययः भवति ।

Kashika

Up

अञ्चत्यन्तात् प्रातिपदिकाददिक्स्त्रियां वर्तमानात् स्वार्थे विभाषा खः प्रत्ययो भवति। प्राक् , प्राचीनम्। अर्वाक् , अर्वाचीनम्। अदिक्स्त्रियामिति किम् ? प्राची दिक् । प्रतीची दिक्। दिग्ग्रहणं किम् ? प्राचीना ब्राह्मणी। अर्वाचीना शिखा। स्त्रीग्रहणं किम् ? प्राचीनं दिग् रमणीयम्। उदीचीनं दिग् रमणीयम् ॥

Siddhanta Kaumudi

Up

अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्, प्राचीनम् । प्रत्यक्, प्रतीचीनम् । अवाक्, अवाचीनम् । निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् अर्वाचीनम् । अदिक्स्त्रियां किम् । प्राची दिक् । उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अञ्च्' (अञ्चुँ गतौ) इति भ्वादिगणस्य कश्चन धातुः । अस्मात् धातोः निर्मिताः शब्दाः यदा 'दिशा' अस्मिन् अर्थे स्त्रीलिङ्गे न प्रयुज्यन्ते, तदा तस्मात् स्वार्थे विकल्पेन ख-प्रत्ययः भवति । उदाहरणद्वयम् पश्यामः - 1) 'प्र + अञ्च्' इत्यस्मात् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> 3.2.59 इत्यनेन क्विन्-प्रत्ययं कृत्वा 'प्राच्' इति शब्दः सिद्ध्यति । अयम् शब्दः 'पूर्वः कालः' अस्मिन् अर्थे प्रयुज्यते । अस्मात् शब्दात् स्वार्थे ख-प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा - प्राक् इत्येव = प्राच् + ख → प्राच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → प्र + च् + ईन [<<अचः>> 6.4.138 इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रा + च् + ईन [<<चौ>> 6.3.138 इति अङ्गस्य दीर्घादेशः ] → प्राचीन अयम् ख-प्रत्ययः वैकल्पिकः अस्ति, अतः पक्षे 'प्राक्' इत्यपि शब्दः साधु एव । 2) 'अर्वन् + अञ्च्' इत्यस्मात् <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> 3.2.59 इत्यनेन क्विन्-प्रत्ययं कृत्वा 'अर्वाच्' इति शब्दः सिद्ध्यति । 'निकृष्टः कालः / निकटतमः कालः' अस्मिन् अर्थे अस्य प्रयोगः क्रियते । अस्मात् शब्दात् स्वार्थे ख-प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा - अर्वाक् इत्येव = अर्वाच् + ख → अर्वाच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → अर्व + च् + ईन [<<अचः>> 6.4.138 इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → अर्वा + च् + ईन [<<चौ>> 6.3.138 इति अङ्गस्य दीर्घादेशः ] → अर्वाचीन विशेषः - 1) यदि प्रकृतिः केवलम् स्त्रीलिङ्गे अस्ति परन्तु दिशावाचिनी नास्ति तर्हि ख-प्रत्ययः भवत्येव । यथा - 'प्राची ब्राह्मणी' (An old brahmin lady) इत्यत्र 'प्राची' शब्दः स्त्रीलिङ्गे अस्ति परन्तु दिशावाची नास्ति । अतः अस्मात् ख-प्रत्ययः अवश्यम् विधीयते । प्राची ब्राह्मणी इत्येव - = प्राची + ख → प्राची + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → प्राच् + ईन [<!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इति पुंवद्भावः । → प्र + च् + ईन [<<अचः>> 6.4.138 इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रा + च् + ईन [<<चौ>> 6.3.138 इति अङ्गस्य दीर्घादेशः ] → प्राचीन + टाप् [<<अजाद्यतष्टाप्>> 4.1.4 इति टाप्] → प्राचीना [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] प्राची ब्राह्मणी इत्येव प्राचीना ब्राह्मणी । 2) यद्यपि प्रकृतिः दिशावाचकशब्दः अस्ति, स्त्रीलिङ्गे च विद्यते, तर्हि तस्मात् विहितस्य स्त्रीप्रत्ययस्य लुक्-कृत्वा अग्रे 'ख' प्रत्ययविधानम् भवितुमर्हति - इति व्याख्यानैः स्पष्टीक्रियते । यथा, 'प्राची दिक्' इति विद्यते चेत् 'प्राची' शब्दात् <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.27 इत्यनेन 'अस्ताति' इति प्रत्ययं कृत्वा, अग्रे <<अञ्चेर्लुक्>> 5.3.30 इत्यनेन अस्ताति-प्रत्ययस्य लुक्-कृत्वा अग्रे ख-प्रत्ययः भवति येन नपुंसकलिङ्गवाचि प्रातिपदिकम् सिद्ध्यति । प्रक्रिया इयम् - प्राची + अस्ताति [<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.27 इति अस्ताति-प्रत्ययः] → प्राची [<<अञ्चेर्लुक्>> 5.3.30 इति 'अस्ताति'प्रत्ययस्य लुक्] → प्राच् [<<लुक् तद्धितलुकि>> 1.2.49 इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्येव अवशिष्यते । सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इति अव्ययसंज्ञा विधीयते ।] → प्राच् + ख [वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययविधानम्] → प्राच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → प्र + च् + ईन [<<अचः>> 6.4.138 इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रा + च् + ईन [<<चौ>> 6.3.138 इति अङ्गस्य दीर्घादेशः ] → प्राचीन अस्य शब्दस्य प्रयोगः नित्यं नपुंसकलिङ्गे च भवतीति व्याख्यानानि स्पष्टीकुर्वन्ति । यथा - 'प्राचीनम् दिक् रमणीयम्' । अत्र 'दिक्' इति नित्यस्त्रीलिङ्गः शब्दः अस्ति अतः तस्य लिङ्गम् तादृशमेव विद्यते । परन्तु 'रमणीयम्' इति शब्दः 'प्राचीन' इति शब्दवदेव अपि नपुंसकलिङ्गे प्रयुज्यते । एवमेव 'प्रतीचीन' तथा 'उदीचीन' एतौ शब्दौ अपि सिद्ध्यतः । यथा - अ) 'प्रतीची दिक् रमणीया' इत्येव = प्रतीचीनम् दिक् रमणीयम् । प्रक्रिया इयम् - प्रतीची + अस्ताति [<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.30 इति अस्ताति-प्रत्ययः] → प्रतीची ['अस्ताति'प्रत्ययस्य लुक्] → प्रत्यच् [<<लुक् तद्धितलुकि>> 1.2.49 इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्रति + अच्' इत्येव अवशिष्यते । यणादेशं कृत्वा 'प्रत्यच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इति अव्ययसंज्ञा विधीयते । अस्य विस्तारेण प्रक्रिया <<अञ्चेर्लुक्>> 5.3.30 इत्यत्र द्रष्टव्या] → प्रत्यच् + ख [वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययविधानम्] → प्रत्यच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → प्रति + च् + ईन [<<अचः>> 6.4.138 इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रतीच् + ईन [<<चौ>> 6.3.138 इति अङ्गस्य दीर्घादेशः ] → प्रतीचीन आ) 'उदीची दिक् रमणीया' इत्येव = उदीचीनम् दिक् रमणीयम् । प्रक्रिया इयम् - उदीची + अस्ताति [<<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.30 इति अस्ताति-प्रत्ययः] → उदीची ['अस्ताति'प्रत्ययस्य लुक्] → उदच् [<<लुक् तद्धितलुकि>> 1.2.49 इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'उद् + अच्' इत्येव अवशिष्यते । वर्णमेलनं कृत्वा 'उदच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इति अव्ययसंज्ञा विधीयते । अस्य विस्तारेण प्रक्रिया <<अञ्चेर्लुक्>> 5.3.30 इत्यत्र द्रष्टव्या] → उदच् + ख [वर्तमानसूत्रेण स्वार्थे ख-प्रत्ययविधानम्] → उदच् + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → उद् + ईच् + ईन [ [<<उद ईत्>> 6.4.139 इति अकारस्य इकारादेशः]] → उदीचीन स्मर्तव्यम् - वस्तुतः इदम् सूत्रम् <<समर्थानां प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायाः महाविभाषायाः अधिकारे एव पाठ्यते । परन्तु तथापि अस्मिन् सूत्रे 'विभाषा' इति निर्दिष्टमस्ति । अस्य स्पष्टीकरणार्थम् व्याख्यानेषु उच्यते - विभाषाग्रहणात् केचन स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते । इत्युक्ते, अत्र विभाषाग्रहणेन एतत् स्पष्टीभवति यत् स्वार्थिकप्रकरणे केचन प्रत्ययाः नित्यमेव कर्तव्या, न हि विकल्पेन । यथा, पूर्वसूत्रेण <<अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः>> 5.4.7 इत्यनेन उक्तः ख-प्रत्ययः विकल्पेन न भवति, नित्यमेव भवति । ज्ञेयम् - अग्रे प्रत्येकस्मिन् सूत्रे प्रत्ययविधानम् नित्यम् भवति उत विकल्पेन तत् स्पष्टरूपेण निर्दिष्टमस्ति ।

Balamanorama

Up

<<विभाषा अञ्चेरदिक्स्त्रियाम्>> - विभाषाञ्चेरदिक्स्त्रियाम् । अदिक्स्त्रियामिति कर्मधारयगर्बो नञ्तत्पुरुषः । तदाह — अदिक्स्त्रीवृत्तेरिति । प्रागिति ।अञ्चेर्लु॑गिति लुप्ताऽस्तात्यन्तमिदम् प्राचि देशे इत्यर्थे । प्राचीनमिति । खान्तमिदं स्वभावादाधेयपरम् । स्वभावादेव सामान्ये नपुंसकमेकवचनान्तत्वं च । इदं तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याह्मतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थितविशेष्यलिङ्गत्यागे मानाऽभावात्प्राचीना आम्रा॑, 'प्राचीना वाटी'प्राचीनं वन॑मिति भवतीत्याहुः । अर्वन्तमञ्चतीति वक्ष्यन्नर्वच्छब्दं विवृणोति — निकृष्टेति । अमरवाक्यमिदम् । प्राची दिगिति । लिङ्गविशिष्टपरिभाषया प्राप्तिः । दिग्ग्रहणं किमिति ।अस्त्रिया॑मित्ये तावतैव प्राची दिगित्यत्रातिप्रसङ्घनिराशात्क तेनेति प्रश्नः । अव्याप्तिपरिहारार्थमित्याह — प्राचीना ब्राआहृणीति । नेयं दिग्रूपा स्त्री, किंतु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणं किमिति ।अदिशी॑त्येतावतैव प्राचीना ब्राआहृणीत्यत्राऽव्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह — प्राचीनं ग्रामादाम्रा इति । स्थानिवत्सूत्रभ#आष्येऽयं प्रयोगः स्थितः । अत्र प्राच्यां दिशीत्यर्थे लुप्ताऽस्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वादस्त्रीति खो भवेत्येववेति भावः ।

Padamanjari

Up

दिक् चासौ स्त्री चेति दिक्स्त्री, तत्र प्रतिषेधः न तु दिशि स्त्रियां च; स्त्रीलिङ्गैकवचननिर्देअसात्। उदाहरणेषु ठचःऽ इत्यकारलोपे कृते'चौ' इति दीर्घः। उदीचीनमित्यत्र तूद ठुद ईत्ऽ इतीत्वम्। दिग्ग्रहणं किमिति। अञ्जत्यन्तः स्त्रियां वतमानो दिश्येव वर्तत इति प्रश्नः। प्राचीना ब्राहामणीति। क्रियानिमितको देशकालनिमितको वा ब्राह्मण्यां स्त्रियां वर्तते, न दिशीति प्रतिषेधाभावः। स्त्रीग्रहणं किमिति। दिग्वृत्तिरञ्चत्यन्तः स्त्रीलिङ्ग एवेति मन्यते। प्राचीनं दिग्रणणीयमिति। प्राचीनशब्दाद्दिग्वाचिनः प्रथमासमर्थाद् दिक्शब्देभ्य इत्युत्पन्नस्यास्तातेः ठञ्चेर्लुक्ऽ इति लुक्, ङीपोऽपि'लुक् तद्धितलुकि' इति लुक्, ततः'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वात्स्त्रीलिङ्गाभावः। खे तु कृते स्वभावादेव नपुंसकत्वम् ॥