अर्धं नपुंसकम्

2-2-2 अर्धं नपुंसकम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः एकदेशिनि एकाधिकरणे

Kashika

Up

index: 2.2.2 sutra: अर्धं नपुंसकम्


एकदेशिना एकाधिकरणे इति वर्तते। समप्रविभागेऽर्धशब्दो नपुंसकमाविष्टलिङ्गः, तस्य इदं ग्रहनम्। अर्धम् इत्येतद् नपुंसकम् एकदेशिनाएकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति। षष्ठीसमासापवादोऽयम् योगः। अर्धं पिप्पल्याः अर्धपिप्पली। अर्धकोशातकी। नपुंसकम् इति किम्? ग्रामार्धः। नगरार्धः। एकदेशिना इत्येव, अर्धं पसोर्देवदत्तस्य। देवदत्तेन सह समसो न भवति। एकाधिकरणे इत्येव, अर्धं पिप्पलीनाम्।

Siddhanta Kaumudi

Up

index: 2.2.2 sutra: अर्धं नपुंसकम्


समांसवाच्यर्ध शब्दो नित्यं क्लीबे स प्राग्वत् ।<!एकविभक्तावषष्ठ्यन्तवचनम् !> (वार्तिकम्) ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी इत्यादि सिद्ध्यति । अर्धं पिपल्या अर्धपिप्पली । क्लीबे किम् । ग्राम्यार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.2.2 sutra: अर्धं नपुंसकम्


समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली॥

Balamanorama

Up

index: 2.2.2 sutra: अर्धं नपुंसकम्


अर्धं नपुंसकम् - अर्धं नपुंसकम् । अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह — समांशवाच्यर्धशब्दो नित्यं क्लीबे इति । 'वर्तते' इति शेषः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशादिति भावः । अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः, अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम् । स प्राग्वदिति । स नित्यनपुंसकलिङ्गोऽर्धशब्दोऽवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात्पूर्वेण न प्राप्तिः । नन्वर्धं पिप्पल्या अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्धं पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्या अर्धपिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात्पिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, अर्धे पिप्पल्याः अर्धपिप्पल्यामिति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतयाएकविभक्ति चापूर्वनिपाते॑इत्युपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वः स्यादित्यत आह — एकविभक्ताविति ।एकविभक्ति चापूर्वनिपाते॑ इति सूत्रेअषष्ठन्त॑मिति वक्तव्यमित्यर्थः । ततश्च पिप्पलीशब्दस्य षष्ठ्न्यतत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्वानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्वाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठन्तत्वादनुपसर्जनत्वात्गोस्त्रियो॑रिति ह्रस्वाऽभावेऽदन्तत्वाऽभावेनद्विगो॑रिति ङीबभावे पञ्चखट्वेति स्यात्, पञ्चखट्वीति न स्यादित्यत आह — एकदेशिसमासेति ।अपथं नपुंसक॑मिति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति ।प्रथमानिर्दिष्ट॑मित्यर्धशपब्दस्योपसर्जनत्वात्पूर्वनिपातः । प#इप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि 'एकविभक्तौ' इति निषेधादुपसर्जनत्वाऽभावान्न ह्रस्व इति भावः । ग्रामार्ध इति । ग्रामस्याऽर्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाऽभावेन नित्यनपुंसकत्वाऽभावान्नायं समास, किन्तुषष्ठी॑इत्येव समास इति षष्ठन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः । अर्धं पिप्पलीनामिति । अत्र द्रव्यैक्याऽभावान्न समासः । सति समासेऽर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात् । इदं सूत्रंपरवल्लिङ्ग॑मिति सूत्रभाष्ये प्रत्याख्यातम् ।

Padamanjari

Up

index: 2.2.2 sutra: अर्धं नपुंसकम्


आविष्टलिङ्ग इति। नियतलिङ्ग इत्यर्थः। तस्येदं ग्रहणमिति। तत्रैवार्थे नपुंसकत्वस्याव्यभिचाराद्। अवयववाची ह्यभिधेयवुशेन त्रिलिङ्गः - अपूपार्ध्दं मया भक्षितम्, दन्तार्ध्दमास्यात्पतितम्, ग्रामार्ध्दः, नगरार्धः, सर्पिषार्ध्यया व्यनक्ततोति।'तस्यार्ध्दाः शस्त्वार्ध्दाः परिशिष्य मध्ये निविदं दधाति' इति। भाष्ये त्ववयववाची पुंलिङ्ग इत्युपलक्षणम् । क्वचितु समप्रविभागे स्त्रीलिङ्गता दृश्यते - एकान्तृचेर्ध्दा युग्मासुऽ इति, यग्मासु ऋक्षु अर्ध्दाः शस्त्वा निविदं दध्यादित्यर्थः, तस्यार्षत्वेन निर्वाहः। अर्धमिति नपुसकनिर्देशः शब्दरूपापेक्षयापि सम्भाव्येत, यथा'स्वमज्ञातिधनाख्यायाम्' 'बन्धुनि बहुव्रीहौ' इति, तस्मान्नपुंसकमित्युक्तम्। अर्ध्दपिप्पलीति। पिप्पलीशब्दस्य ठेकविभक्ति चऽ इत्युपसर्जनसंज्ञा न भवति; एकविभ्कायवषष्ठ।ल्न्तमिति वचनात्। अर्ध्दं पिप्पलीनामिति। न तर्हीदानीमिदं भवति - अर्ध्दानि पिप्पलीनामर्ध्दपिप्पल्य इति; नैतदस्मिन्विग्रहे भवति, खण्डसमुदाये भवति - अर्ध्दपिप्पली चार्ध्दपिप्ली चार्ध्दपिप्पल्य इति। देवददतशब्देन समासो न भवतीति। देवदतोऽत्र स्वामी, न त्वेकदेशी। यस्त्वेकदेशी पशुस्तेन भवत्येव समासः - अर्ध्दपशुर्देअवतदतस्येति, देवदतस्वामिकं पशोरर्ध्दमित्यर्थः। तत्र समुदायेन सम्बन्धान्नास्ति सापेक्षत्वम्। अयं योगः शक्योऽवक्तुम्। कथमर्ध्दपिप्पली? सामानाधिकरण्ये भविष्यति अर्ध्दं चासौ पिप्पली चेति। ननु च यद्यर्ध्दं न पिप्पली, अथ पिप्पली नार्ध्दम्, अर्ध्दं पिप्पली चेति विप्रतिषिध्दम्? नास्ति विप्रातिषेधः; समुदाये हि दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते। किञ्च समप्रविभागादन्यत्रार्ध्दन्द्रादावयमेव गतिप्रकारः, समप्रविभागेऽपि तथास्तु। इदं तर्हि प्रयोजनम् - म्प्रविभागे षष्ठीसमासो मा भूदिति? इष्यते षष्ठीसमासोषऽपि, तथा च भगवान्पिङ्गलनागः प्रयुङ्क्ते'स्वरार्ध्दं चार्यार्ध्दम्' इति। एवं तर्हि गौणत्वात्सामानाधिकरण्यस्य विशेषणसमासो न किल स्यादित्यमारम्भः॥