समासान्ताः

5-4-68 समासान्ताः प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

समासान्ताः

Neelesh Sanskrit Brief

Up

अधिकारसूत्रमिदम् । अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् पाठिताः तद्धितप्रत्ययाः समासप्रक्रियायामन्तिमसोपाने विधीयन्ते ।

Kashika

Up

अधिकारोऽयम्। आ पादपरिसमाप्तेर्ये प्रत्यया विहितास्ते समासस्यान्ता अवयवा एकदेशा भवन्ति, तद्ग्रहणेन गृह्यन्ते (व्या०प० ८०) इति वेदितव्यम् । प्रयोजनम् — अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः। उपराजम्। अधिराजम्। <<नाव्ययीभावाद्०>> २.४.८३ इत्येष विधिर्भवति। <<अनश्च>> ५.४.१०८ इति टच्। द्विपुरी, त्रिपुरीति। <<द्विगोः>> ४.१.२१ इति ङीब् भवति। कोशनिषदिनी। स्रक्त्वचिनी। <<द्वन्द्वोपतापगर्ह्याद्०>> ५.२.१२८ इतीनिर्भवति। विधु॑रः। प्रधु॑रः। <<तत्पुरुषे तुल्यार्थ०>> ६.२.२ — इत्येष स्वरो भवति। उ॒च्चैर्धु॑रः। नी॒चैर्धु॑रः। <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> ६.२.१ इत्येतद् भवति॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

इदमधिकारसूत्रम् । समासान्तप्रत्ययानामधिकारः अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तिमसूत्रपर्यन्तम् (= तद्धिताधिकारस्य अन्तपर्यन्तम्) गच्छति । किम् नाम समासान्ताः प्रत्ययाः ? समासप्रक्रियायाम् कुत्रचित् अन्तिमसोपाने कश्चन तद्धितप्रत्ययः विधीयते । अयम् प्रत्ययः समासान्तप्रत्ययः नाम्ना ज्ञायते । अस्य प्रत्ययस्य प्रयोगं विना समासस्य निर्माणमेव न भवति । यथा - 'मद्राणाम् राजा' इत्यत्र एतादृशः समासः भवति - मद्राणाम् राजा [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः समासः] = मद्र + आम् + राजन् + सुँ [अलौकिकविग्रहः] → मद्र + राजन् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति आम्-प्रत्ययस्य सुँ-प्रत्ययस्य च लोपः] → मद्र + राजन् + टच् [<<राजाहस्सखिभ्यष्टच्>> 5.4.91 इति 'टच्' प्रत्ययः । अयम् समासान्तप्रत्ययः अस्ति ] → मद्र + राजन् + अ [टकारचकारयोः इत्संज्ञा, लोपः] → मद्र + राज् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → मद्रराज [वर्णमेलनम्] अनेन प्रकारेण 'मद्राणाम् राजा मद्रराजः' इति समासः सिद्ध्यति । यदि अत्र 'टच्' इति तद्धितप्रत्ययः न आगच्छेत्, तर्हि 'मद्रराजन्' इति अनिष्टं प्रातिपदिकम् सिद्ध्येत् । अतः अत्र समासप्रक्रियायाम् 'टच्' प्रत्ययस्य योजनमावश्यकमस्ति । एतादृशाः प्रत्ययाः, ये समासप्रक्रियायामन्ते विधीयन्ते , ते सर्व समासान्तप्रत्ययाः अस्मिन् अधिकारे पाठिताः सन्ति । प्रश्नः - सर्वे समासान्तप्रत्ययाः तद्धितप्रत्ययाः अपि किमर्थम् सन्ति ? उत्तरम् - तद्धितप्रत्ययविशिष्टं कार्याणि (यथा <<नस्तद्धिते>> 6.4.144 इति टिलोपः, <<तद्धितस्य>> 6.4.144 इति स्वरविधानम् - आदयः) कारयितुम् एतेषाम् तद्धितसंज्ञा भवति । तथा च, एते प्रत्ययाः प्रातिपदिकात् विधीयन्ते, एतेषाम् योजनेन चापि प्रातिपदिकमेव सिद्ध्यति, अतः एतेषाम् 'तद्धित' इत्येव संज्ञा समीचीना । ज्ञातव्यम् - 1. अस्मिन् अधिकारे विहितः समासान्तप्रत्ययः समासस्य अवयवरूपेणैव विधीयते । इत्युक्ते, समासस्य निर्माणम् सम्पूर्णरूपेण तदा एव भवति यदा समासान्तप्रत्यययोजननेन तद्धितान्तशब्दः सिद्ध्यति । अयम् तद्धितान्तशब्दः एव 'समस्तपदम्' नाम्ना ज्ञायते । समासविशिष्टानि कार्याणि (यथा, <<द्विगोः>> 4.1.21 इति ङीप्-प्रत्ययः, <<परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः>> 2.4.26 इति लिङ्गनिर्णयः - आदीनि) अस्मात् तद्धितान्तशब्दात् एव भवितुमर्हन्ति । 2. सर्वेषु समासेषु समासान्तप्रत्ययाः न भवन्ति । केषुचन समासेषु, केषाञ्चन शब्दानां विषये एव समासप्रक्रियायाम् तद्धितप्रत्ययः (= समासान्तप्रत्ययः) भवति । एतेषाम् सङ्कलनमस्मिन् अधिकारे कृतमस्ति । 3. अस्मिन् अधिकारे पाठिताः तद्धितप्रत्ययाः समासप्रक्रियायाम् एव प्रयोक्तव्याः । एतेषामन्यत्र (वाक्येषु / शब्दनिर्माणे) प्रयोगः नैव भवितुमर्हति ।

Balamanorama

Up

<<समासान्ताः>> - समासान्ताः । इत्यधिकृत्येति ।आपादपरिसमाप्ते॑रिति भावः । अत्र समासपदमलौकिकविग्रहवाक्यपरमेव । अत एव 'बहुकुमारीक' इत्यत्र ह्रस्वो न । 'गोस्त्रियोः' इति सूत्रे 'अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत् । एवंचाऽलौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्ता इति सिद्धान्तः । अन्तशब्दश्चरमावयववाची । अत एव उपशरदमित्यादौनाव्ययीभावा॑दित्यम् । तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाऽभावादम् न स्यात् । तथाच टचस्तदनवयवत्वेअव्ययानां भमात्रे टिलोपः॑ इति प्रसज्येत । टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययीभावसमासतया अव्ययत्वादुपशरदित्यस्याव्ययत्वाऽभावान्न टिलोपः । समासान्तप्रत्ययाश्चलौकिकविग्रवाक्ये सुपः परस्तादेव भवन्ति । अत एव 'प्रत्ययस्थात्' इति सूत्राभाष्ये 'बहुचर्मिका' इत्युदाहृतं सङ्गच्छते । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।

Padamanjari

Up

अवयववचनोऽन्तशब्द इत्याह-अवयवा एकदेशा इति। समीपवचनस्तु न गृह्यते; प्रत्ययपरत्वेनैव सिद्धत्वात्। अवयववचनं चान्तशब्दमाश्रयता समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्तीत्युक्तं भवति। एवं हि ते समासस्यैकादेशा भवन्ति, यदि प्रागेव तान्प्रत्ययान्कृत्वा तदन्तेन समासः क्रियते। तथा च'न कपि' इत्यत्र वक्ष्यति -'समासार्थे ह्युतरपदे कपि कृते पश्चात्समासेन भवितव्यमिति। ये पुनरत्र पक्षे दोषास्ते ङ्याप्सूत्रे एव प्रतिविहिताः। अधिराजम्, उपराजमिति। विभक्त्यर्थे सामीप्ये चाव्ययीभावः, ठव्ययीभावे शरत्प्रभृतिभ्यः' ठनश्चऽ इति टच्। द्विपुरीति। समाहारद्वन्द्वः। ठृक्पूरब्धूःऽ इत्यकारः। कोषश्च निषच्च कोषनिषदम्, स्रुक्च त्वक् च स्रुक्त्वचम्-द्वन्द्वाच्चुदषहान्तात्समाहारेऽ इति टच्। विगतो धुरः, प्रगतो धुर इति। प्रादिसमासः। तत्पुरुषे तुल्यार्तेत्येष स्वरो भवतीति। पूर्वपदप्रकृतिस्वरः, पूर्वपदं चात्र'निपाता आद्यौदाताः' , ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातम्, उच्चैर्नीचैः- शब्दौ स्वरादिष्वन्तोदातौ पठितौ। अथ समासग्रहणं किमर्थम्, यावता'बहुव्रीहौ संख्येये,' 'तत्पुरुषस्याङ्गुलेः' , ठव्ययीभावे शरत्प्रभृतिभ्यःऽ' द्वन्द्वाच्चुदषहान्तात्' इति प्रायेण समासविशेषग्रहणमस्ति? यत्रापि नास्ति तत्रापि सङ्गात एव गृह्यते, यथा ठच् प्रत्यन्ववपूर्वात्सामलोम्नःऽ इति। यत्र तर्ह्येतदुभयं नास्ति ठृक्पूरब्धूःऽ इत्यादौ, समासग्रहममिति ॥