न पूजनात्

5-4-69 न पूजनात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः

Sampurna sutra

Up

index: 5.4.69 sutra: न पूजनात्


समासान्ताः पूजनात् न

Neelesh Sanskrit Brief

Up

index: 5.4.69 sutra: न पूजनात्


पूजनवाचकेभ्यः शब्देभ्यः समासान्तप्रत्ययाः न विधीयन्ते ।

Kashika

Up

index: 5.4.69 sutra: न पूजनात्


यान् शब्दानुपादाय समासान्ता विधीयन्ते राजाहःसखिभ्यष् टच् 5.4.91 इत्येवमादीन्, यदा ते पूजनात् पूजनवचनात् परे भवन्ति तदा समासान्तो न भवति। सुराजा। अतिराजा। सुगौः। अतिगौः। पूजायां स्वतिग्रहणं कर्तव्यम्। इह मा भूत्, परमराजः, परमगवः इति। प्राग्बहुव्रीहिग्रहणं च कर्तव्यम्। बहुव्रीहौ सक्थ्यक्ष्णोः इत्येवमादौ प्रतिषेधो न भवति। सुसक्थः। अतिसक्थः। स्वक्षः। अत्यक्षः।

Siddhanta Kaumudi

Up

index: 5.4.69 sutra: न पूजनात्


पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥<!स्वतिभ्यामेव !> (वार्तिकम्) ॥ नेह परमराजः । पूजनात् किम् । गामतिक्रन्तोऽतिगवः । बहुव्रीहौ सक्थ्यक्ष्णोः - <{SK852}> इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.4.69 sutra: न पूजनात्


पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥ इति समासान्ताः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.69 sutra: न पूजनात्


समासान्ताः 5.4.69 अस्मिन् अधिकारे विहिताः समासान्तप्रत्ययाः पूजनवाचकेभ्यः शब्देभ्यः (= यत्र आदररूपेण विधानम् क्रियते तेभ्यः शब्देभ्यः) न विधीयन्ते ।

अस्य सूत्रस्य प्रयोगार्थम् वार्त्तिककारः एकम् नियम् पाठयति - <!स्वतिभ्यामेव!> । इत्युक्ते, 'सु' तथा 'अति' एतौ शब्दौ यत्र पूर्वपदरूपेण आगच्छतः, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, अन्यत्र न ।

यथा -

  1. 'शोभनः राजा' इत्यत्र कुगतिप्रादयः 2.2.18 इत्यनेन तत्पुरुषसमासे कृते 'सु + राजन्' इति स्थिते वस्तुतः राजाहस्सखिभ्यष्टच् 5.4.91 इत्यनेन टच्-प्रत्ययः भवितुमर्हति, परन्तु वर्तमानसूत्रेण सः निषिध्यते, यतः अत्र 'शोभनः राजा' इति प्रयोगः आदरवाचक; / पूजनवाचकः अस्ति । अतः अत्र 'सुराजन्' इत्येव प्रातिपदिकं सिद्ध्यति ।

  2. 'अतिशयितः राजा' (extra-ordinary king) अत्रापि कुगतिप्रादयः 2.2.18 इत्यनेन तत्पुरुषसमासे कृते 'अति + राजन्' इति स्थितेराजाहस्सखिभ्यष्टच् 5.4.91 इत्यनेन प्राप्तः टच्-प्रत्ययः वर्तमानसूत्रेण निषिध्यते, अतः 'अतिराजन्' इत्येव प्रातिपदिकं सिद्ध्यति ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <! प्राग् बहुव्रीहिग्रहणं च कर्तव्यम्!> । इत्युक्ते, अस्य सूत्रस्य प्रसक्तिः बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् 5.4.113 इति सूत्रात् प्राक् एव विद्यते । ततः यद्यपि पूजनवाची प्रातिपदिकमस्ति, तथापि समासान्तप्रत्ययः भवत्येव । यथा, 'शोभने अक्षिणी यस्य' इत्यस्मिन् अर्थे 'सु + अक्षि' इति स्थिते बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् 5.4.113 इत्यनेन अत्र षच्-प्रत्ययः भवत्येव, येन 'स्वक्ष' इति प्रातिपदिकम् सिद्ध्यति ।

स्मर्तव्यम् - यद्यपि अस्मिन् सूत्रे 'पूजनात्' इति निर्देशः अस्ति, तथापि केवलम् 'सु' तथा 'अति' एतयोः विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषाम् शब्दानाम् विषये न, इति ज्ञातव्यम् । यथा 'महान् राजा' इत्यत्र यद्यपि पूजावचनमस्ति, तथाप्यत्र टच्-प्रत्ययं कृत्वा 'महाराज' इत्येव प्रातिपदिकं सिद्ध्यति ।

Balamanorama

Up

index: 5.4.69 sutra: न पूजनात्


न पूजनात् - न पूजनात् । 'परेभ्य' इत्यध्याहार्यम् । 'समासान्ता' इति पूर्वसूत्रमनुवर्तते । तदाह — पूजनार्थादिति ।पूजायां स्वतिग्रहणं कर्तव्य॑मिति वार्तिकमभिप्रेत्योदाहरति — सुराजेति । सु=शोभनो राजेति प्रादिसमासः । अतिराजेति । पूज्यो राजेत्यर्थः । उभयत्रापि 'राजाहःसखिभ्यः' इति टज्न भवति । स्वतिभ्यामेवेति । स्वतिभ्यां परो यो राजन्शब्दस्तस्मादेवेत्यर्थः, तथा वार्तिकादिति भावः । नेहेति । 'निषेधे' इति शेषः । परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति । 'अत्यादयः' इति समासः । अतेः पूजनार्थकत्वाऽभावान्न टचो निषेधः । एवं 'परमराज' इत्यत्रापि । इत्यतः प्रागिति ।प्राग्बहुव्रीहिग्रहणं कर्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । सुसक्थः स्वक्ष इति । सु=शोभने सक्थिनी यस्य, सु=शोभने अक्षिणी यस्येति च विघः ।बहुव्रीहौ सक्थ्यक्ष्णो॑रिति षच् । किमः क्षेपे । किंराजा किंसखेति । इह 'राजाहःसखिभ्यः' इति टज्नभवति, 'किं क्षेपे' इति समासः । किंराजः किंसख इति । किंशब्दोऽत्र प्रश्ने । कस्य राजा, को राजेति वा विग्रहः ।