परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः

2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वाद् इतरेतरयोगद्वन्द्वस्येदं ग्रहणम्। परस्य यल्लिङ्गं तद् भवति द्वन्द्वस्य तत्पुरुषस्य च। उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर्विधीयते। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। तत्पुरुषस्य — अर्धं पिप्पल्याः, अर्धपिप्पली। अर्धकोशातकी अर्धनखरञ्जनी॥ द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः॥ द्विगुः — पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकाम्, प्राप्तजीविकः। आपन्नो जीविकाम्, आपन्नजीविकः। अलं जीविकायै, अलंजीविकः। गतिसमासः — निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः॥

Siddhanta Kaumudi

Up

एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ।<!द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः !> (वार्तिकम्) ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥

Laghu Siddhanta Kaumudi

Up

एतयोः परपदस्येव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। <<द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः>> (परिभाषा) । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः>> - परवल्लिङ्गं ।परहव॑दिति षष्ठन्ताद्वतिः । तदाह — एतयोः परपदस्येवेति । द्व्न्द्वपदमत्र इतरेतरयोगद्वन्द्वपरं, समाहाद्वन्द्वेस नपुंसक॑मित्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे इति । अत्र द्वन्द्वे अवयवलिङ्गनाऽनियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति । 'अर्धं नपुंसकम्' इति तत्पुरुषः । अस्यैकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वपदलिङ्गे प्राप्ते उत्तरपदलिङ्गार्थं विधिः । अत्रद्वन्द्वतत्पुरुषयोः॑ इति षष्ठन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवंचकुक्कुटमयूर्याविमे॑ इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति । 'द्विगु' 'प्राप्त' 'आपन्न' 'अलंपूर्व'गतिसमास॑-एतेषु परवल्लिङ्गस्य प्रतिषेधो वक्तव्यः इत्यर्थः । पञ्चस्विति । उत्तरपदस्य नपुंसकत्वात्समासस्य नपुंसकत्वं प्राप्तं, न भवति, किन्तु विशेष्यलिङ्गमेव प्राप्तजीविक इति । अत्रोत्तरपदस्य जीविकाशब्दस्य यल्लिङ्गं तत्समासस्य न भवति । अलंपूर्वस्योदाहरति — अलंकुमारिरिति । अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति । नन्वत्र तदर्थादियोगाऽभावान्न चतुर्थीसमासः ।पर्यादयो ग्लानाद्यर्थे॑ इत्यपि न भवति, तस्य समासस्य नित्यत्वेन 'अलं कुमार्यै' इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह — अत एवेति ।एकविभक्ति चे॑ति कुमारीशब्दस्योपसर्जनत्वाद्ध्रस्वः । गतिसमासमुदाहरति — निष्कौशाम्बिरिति । अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति । यद्यपि निरादिसमास एवायं, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तेः, तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः ।

Padamanjari

Up

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ किमर्थमिदम्? इह द्वन्द्वे त्रीणि दर्शनानिअवयवार्था एवापेक्षितपरस्पराः द्वन्द्वार्थो न तु तद्व्यतिरिक्तः समुदायो नामेत्येकम्; अवयवार्थव्यतिरिक्त एव समुदायो द्वन्द्वर्थः, स चावयवलिङ्गेन लिङ्गवानिति द्वितीयम्; स एव स्वयं लिङ्गशून्य इति तृतीयम्। तत्र पूर्वके दर्शनद्वये विभिन्न लिङ्गावयवद्वन्द्वे युगपदुभयलिङ्गतानुपपतेः पर्यायेण लिङ्गद्वयप्रसङ्गे परस्यैव लिङ्गं भवतीति नियमार्थ भवति। तृतीये तु समासार्थस्यालिङ्गस्य परवल्लिङ्गता भवतीति विध्यर्थः। तत्पुरुषोऽपि द्विविधः - पूर्वपदार्थप्रधानोऽर्धपिप्पाल्यादिः; उतरपदार्थप्रधानो राजकुमार्यादिः। तत्रोतरपदार्थप्रधाने प्राधान्यादेव परवल्लिङ्गस्य सिद्धत्वात्पूर्वपदार्थप्रधाने विध्यर्थ भवति। तत्र वृत्तिकारेण विधिपक्ष आश्रितस्तदाह - परस्य यल्लिङ्गं तद्भवतीति। एवं हि सूत्रस्यैकरूपा वचनव्यक्तिर्भवति, इतरथा तत्पुरुषे विधिरूपा द्वन्द्वे नियमरूपेति वचनव्यक्तिभेदः स्यादिति भावः। द्वन्द्वस्य तत्पुरुषस्य वेति। एतेन द्वन्द्वतत्पुरुषयोरिति षष्ठीयमिति दर्शयति। सप्तम्यां त्वयमर्थो भवति - द्वन्द्वे तत्पुरुषे च यत्परं तद्वल्लङ्गिं भवतीति। तत्र कार्यिणोऽनुपादानात्परशब्दत्वातदाक्षिप्तस्य पूर्वपदस्य लिङ्गविधिर्भवति। यद्वा - द्वन्द्वे तत्पुरुषे च विषये परस्यैव लिङ्गं भवतीत्यक्षरार्थः। तत्रापि पूर्वपदस्यैव लिङ्गविधिः। अत्र पक्षे मयूरीकुक्कुटावित्यत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे स्त्रीप्रत्ययस्य निवृत्तिः प्राप्नोति; कुक्कुटमयूर्यौ, राजकुमारी, अर्द्धपिप्पलीत्यादौ पूर्वपदे स्त्रीप्रत्ययप्रसङ्गः। कि पुनरस्मिन्पक्षे किंचिदिष्ट्ंअ सिध्यति? आहोस्विद्दोषान्तमेव? सिध्यतीत्याह। इह पूर्वकायः अर्धद्रोण इति, यत्र पूर्वपदं नपुंसकमुतरपदं च पुंल्लिङ्गम्, तत्र परस्य लिङ्गे पूर्वस्यातिदिष्टे समासस्यापि तदेव भवति, न च पूर्ववदिह किंचिदनिष्टमापद्यते। द्वन्द्वेऽपि पूर्वके दर्शनद्वये गुणकर्मणी द्रव्यगुणावित्यादौ यत्र पुंनपुंसकाभ्यां भिन्नलिङ्गे पूर्वोतरपदे, यत्र वाऽवर्णान्तं स्त्रीप्रत्ययान्तं वा पदं न भवति - गतिस्थाने, योषित्पूरुषौ, तितिरिबलाके इति, तत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे द्वन्द्वस्य पर्यायेण द्वयोरपि लिङ्गे प्रवृतेऽपि सर्वमिष्ट्ंअ सिध्यति, पूर्ववदेव न किं ञ्चिदनिष्टमापद्यते।'व्यतिरिक्तो द्वन्द्वार्थः स्वयं लिङ्गशून्यः' इत्यत्र तु पक्षे द्वन्द्वार्थस्यालिङ्गत्वं तदवस्थमेवेत दोषान्तिमेव। द्वन्द्वस्य तत्पुरुषस्य चेति। द्वन्द्वार्थस्य तत्पुरुषार्थस्य चेत्यर्थः। तेनानुप्रयोगेऽपि तदेवं लिङ्गं भवति। यदि तर्हि षष्ठ।लश्रयणेन समासार्थस्य परवल्लिङ्गमतिदिश्यते,'पूर्ववदश्ववडवौ' इत्यत्रापि पूर्वपदार्थलिङ्गं समासार्थेऽतिदिश्यते, ततश्चोतरपदार्थस्य स्त्रीत्वं स्थितमेवेति टापः श्रवणप्रसङ्गः। सप्तमीपक्षे तु'पूर्ववदश्ववडवौ' इत्यत्रापि पूर्वपदार्थलिङ्गमुतरपदार्थस्यातिदिश्यत इति वडवाशब्दस्य पुंस्त्वातिदेशात् स्त्रीत्वाभावे टापोनिवृत्तिः सिध्यति। निपातनात्सिद्धम्। किं निपातनम्? न तावत्'पूर्ववदश्ववडवौ' इति निपातनमाश्रयितुमुचितम्, वचनान्तरेऽनतिदेशप्रसङ्गाद् अश्ववडवान्, अश्ववडवैरिति। एवं तर्ह्यश्ववडवपूर्वापराधरोतराणामित्यत्र टापोऽनुच्चारणान्निपातानादश्ववडवयोर्द्वन्द्वे टाब्निवर्तिष्यते। अपर आह -'चार्थे द्वन्द्वः' इत्यत्रानेकमित्यधिकारात्सर्वेषामेव वर्तिपदार्थष्यति। इहापि तर्हि प्राप्नोति - कुक्कुटमयूर्याविति? अस्तु, का रूपसिद्धिः? परवल्लिङ्कमिति शब्दशब्दार्थो, कोऽर्थः? लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्चतन्त्रेणैकशेषेण वाच्यते। तदयमर्थो भवति - द्वन्द्वार्थस्य तत्पुरुषार्थस्य परस्येव लिङ्गं भवति, तदभिधायी प्रत्ययश्च परस्यैव भवति ताभ्यामिति। तत्र च यत्र द्रव्यगुणौ गुणकर्मणी - अर्द्धद्रोण इत्यादौ, लिङ्गाभिधायी प्रत्ययो न संभवति तत्रार्थ एवातिदिश्यते, उभयसम्भवे तूभयम् - यथा कुक्कुटमयूर्याविति, ततश्चौपदेशिकस्य ह्रस्वत्वेऽप्यातिदेशिकस्य श्रवणं भविष्यति; तस्य चानुपसर्जनत्वातदन्तस्य चाप्रातिपदिकत्वात्पुनर्ह्रस्वत्वाभावः। इह तर्हि दतागार्ग्यायण्यौ, दताकारीषगन्ध्ये इति ह्रस्वत्वे कृते समासात्पुनः ष्फष्यङै प्राप्नुतः? स्ताम्,'भस्या' ढेअ तद्धितेऽ इति पूर्वोत्पन्नयोर्निवृत्तिर्भविष्यति। यत्र तर्हि पुंवद्भावो नास्ति अभत्वाद्, यथा - दता च युवतिश्च दतायुवती इति, तत्र द्वयोः स्त्रीप्रत्यययोः श्रवणप्रसङ्गः, तस्मादुपसर्जनह्रस्वत्वं द्वन्द्वे न भवति। अन्वर्था ह्युपसर्जनसंज्ञाऽप्रधानस्य विधीयते, द्वन्द्वे चावयवार्थानामेव कार्यान्वयादप्राधान्याभावः। परवल्लिङ्गमिति चार्थ एवातिदिश्यते, अश्ववडवाविति च निपातनादित्येतदेव सम्प्रति। द्विगुप्राप्तापन्नेत्यादि। स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, तत्पुरुषग्रहणं न करिष्यते, परवल्लिङ्गं द्वन्द्वस्येत्येव। कथं पूर्वकायः, अर्धपिप्पलीति? एकदेशिसमासो नारप्स्यते, कर्मधारय एवात्र भविष्यति - पूर्वश्चासौ कायश्च, अर्धं चासौ पिप्पली चेति। पूर्वादयः शब्दा एकदेशे वर्तन्ते, कायादयस्तु समुदाये, कथमेषां सामानाधिकरण्यम्? अवयवेन समुदायोपचारात्। तदेवं कर्मधारये कृते प्राधान्यादेवोतरपदार्थस्य लिङ्गं भविष्यति, नार्थस्तत्पुरुषग्रहणेन, नाप्येकदेशिसमासेन षष्ठीसमासप्रङ्गः इति चेन्न; इष्टत्वादनभिधानाच्च। तत्रैत्स्यात् - यद्यपि पूर्वकाय इत्यादीति रूपाणि कर्मधारयेणापि सिध्यन्ति, तथापि मुख्यार्थवृत्तिषु कायादिशब्देषु यथा पूर्वं कायस्येत्येवमादि वाक्यं भवति, तथा कायपूर्व इत्यादि षष्ठीसमासोऽपि स्याद्, अतस्तन्निवृतये एकदेशिसमास आरब्ध इति? तच्च नैवम्; इष्टत्वादनभिधानाच्च। तत्र तावद्'द्वितीयतृतीय' इत्यत्रान्यतरस्यांप्रहणात्सूत्रकारस्य षष्ठीसमास इष्टः - भिक्षाद्वितीयमिति, ठर्द्धं नपुंसकम्ऽ इत्यत्रापि भाष्यकार आह - ठिष्यतेऽत्र षष्ठी समासोऽपि, तद्यथा - अपूपार्धं मया भक्षितम्ऽ इति। अस्ति च पैङ्गलेसूत्रे प्रयोगः - स्वरार्धं चार्यार्धमिति। पूर्वापरेत्यत्र त्वनभिधानात् षष्ठीसमासो न भविष्यति॥