मृदस्तिकन्

5-4-39 मृदः तिकन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

मृदः तिकन्

Neelesh Sanskrit Brief

Up

'मृद्' शब्दात् स्वार्थे तिकन्-प्रत्ययः भवति ।

Kashika

Up

मृच्छब्दात् स्वार्थे तिकन् प्रत्ययो भवति। विकल्पः सर्वत्रानुवर्तते। मृदेव मृत्तिका॥

Siddhanta Kaumudi

Up

मृदेव मृत्तिका ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

मृद् (soil, clay etc) शब्दात् स्वार्थे 'तिकन्' इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे शब्दः नित्यम् स्त्रीलिङ्गे एव प्रयुज्यते, अतः प्रक्रियायाम् टाप् इति स्त्रीप्रत्ययः अपि विधीयते । यथा - मृद् इत्येव = मृद् + तिकन् + टाप् [स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्] → मृद् + तिक + आ [इत्संज्ञालोपः] → मृद् + तिका [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः ] → मृत् + तिका [<<खरि च>> 8.4.55 इति दकारस्य चर्त्वे तकारः] → मृत्तिका स्मर्तव्यम् - <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यत्र उक्तः महाविभाषा अत्र विधीयते, अतः अयम् 'तिकन्' प्रत्ययः विकल्पेन भवति । पक्षे 'मृद्' शब्दस्य प्रयोगः अपि भवितुमर्हति । विशेषः - वस्तुतः अत्र 'तिकन्' इत्यस्य स्थाने 'तकन्' इत्येव प्रत्ययः स्यात् चेदपि 'मृत्तिका' इति रूपमेव असेत्स्यत् । यथा - मृद् इत्येव = मृद् + तकन् + टाप् ['तकन्' प्रत्ययस्य प्रयोगः । स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप् ] → मृद् + तक + आ [इत्संज्ञालोपः] → मृद् + तिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.44 इति तकारोत्तस्य अकारस्य इकारादेशः] → मृत्तिका [सवर्णदीर्घम्, चर्त्वम्] अस्यां स्थितौ 'तिकन्' इति प्रत्यये इकारः किमर्थम् पाठितः अस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् व्याख्यानेषु एतादृशं दीयते - 'प्रत्ययस्थात्' इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च । इत्युक्ते, 'तिकन्' प्रत्ययात् परस्य टाप्-प्रत्ययस्य यदि लोपः जायते, तर्हि <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.44 इत्यस्य प्रसक्तिः नैव भवति । अस्यां स्थितौ अपि 'मृत्तिका' इत्येव रूपम् भवेत् इति स्पष्टीकर्तुम् प्रत्यये इकारः स्थापितः अस्ति । यथा - पञ्चभिः मृत्तिकाभिः क्रीतः = पञ्च + मृत्तिका + ठक् [<<तेन क्रीतम्>> 5.1.37 इति ठक्] → पञ्च + मृत्तिका [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति तद्धितप्रत्ययस्य लुक्] → पञ्च + मृत्तिक [तद्धितप्रत्ययस्य लुकि कृते <<लुक् तद्धितलुकि>> 1.2.49 इति स्त्रीप्रत्ययस्य अपि लुक्] अस्यां स्थितौ 'मृत्तिक' इत्यस्मिन् शब्दे यदि 'तिकन्' इत्यस्य स्थाने 'तकन्' इति प्रत्ययः अभविष्यत्, तर्हि स्त्रीप्रत्ययस्य लुकि कृते <<अकृतव्यूहाः पाणिनीयाः>> अनया परिभाषया <<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.44 इत्यनेन प्राप्तः इकारादेशः अपि न्यवर्तिष्यत, येन 'पञ्चमृत्तक' इति अनिष्टं रूपमजनिष्यत । एतादृशं मा भूत्, अतः 'तिकन्' इत्येव प्रत्ययः मूलरूपेण अत्र आवश्यकः, येन 'पञ्चमृत्तिक' इति साधु रूपम् सिद्ध्येत् ।

Balamanorama

Up

Padamanjari

Up

'प्रत्ययस्थात्' इत्येव सिद्धे तिकन हकारोच्चारणम् यत्रापो लुक् क्रियते तदर्थम् - पञ्चभिर्मृतिकाभिः क्रीतः पटः पञ्चमृतिक पटः ॥