प्रज्ञादिभ्यश्च

5-4-38 प्रज्ञादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः अण्

Sampurna sutra

Up

प्रज्ञादिभ्यः अण्

Neelesh Sanskrit Brief

Up

प्रज्ञादिगणस्य शब्देभ्यः स्वार्थे अण् प्रत्ययः विधीयते ।

Kashika

Up

प्रजानातीति प्रज्ञः। प्रज्ञ इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्वार्थेऽण् प्रत्ययो भवति। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। यस्यास्तु प्रज्ञा विद्यते सा प्राज्ञा भवति — <<प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः>> ५.२.१०१ इति। विदन्नित्यत्र पठ्यते। विदेः शत्रन्तस्य ग्रहणम्, <<विदेः शतुर्वसुः>> ७.१.३६ इत्यत एव ज्ञापकात् पाक्षिको वस्वादेशः। अन्यतरस्यांग्रहणं वा तत्रानुवर्तते — <<तुह्योस्तातङाशिष्यन्यतरस्याम्>> ७.१.३५ इति॥ प्रज्ञ। वणिज्। उशिज्। उष्णिज्। प्रत्यक्ष। विद्वस्। विदन्। षोडन्। षोडश। विद्या। मनस्। श्रोत्र शरीरे (ग०सू० १५८)। श्रौत्रम्। जुह्वत् कृष्णमृगे (ग०सू० १५९)। चिकीर्षत्। चोर। शत्रु। योध। चक्षुस्। वक्षस्। धूर्त। वस्। एत्। मरुत्। क्रुङ्। राजा। सत्वन्तु। दशार्ह। वयस्। आतुर। रक्षस्। पिशाच। अशनि। कार्षापण। देवता। बन्धु। प्रज्ञादिः॥

Siddhanta Kaumudi

Up

प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥

Laghu Siddhanta Kaumudi

Up

अण् स्यात्। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। दैवतः। बान्धवः॥

Neelesh Sanskrit Detailed

Up

प्रज्ञादिगणस्य शब्देभ्यः स्वार्थे अण्-प्रत्ययः भवति । <<समर्थानां प्रथमाद्वा>> 4.1.82 इत्यत्र उक्तः महाविभाषा अत्र विधीयते, अतः अयम् प्रत्ययः विकल्पेन भवति, पक्षे मूलशब्दस्य प्रयोगः अपि भवितुमर्हति । प्रज्ञादिगणः अयम् - प्रज्ञ, वणिज्, उशिज्, उष्णिह्, प्रत्यक्ष, विद्वस्, विदन् , षोडन्, षोडश, विद्या, मनस्, श्रोत्र शरीरे (गणसूत्रम्), जुह्वत् कृष्णमृगे (गणसूत्रम्), चिकीर्षत्, चोर, शत्रु, योध, चक्षुस्, वक्षस्, धूर्त, वस्, एत्, मरुत्, क्रुङ्, राजा, सत्वन्तु, दशार्ह, वयस्, आतुर, असुर, रक्षस्, पिशाच, अशनि, कार्षापण, देवता, बन्धु । उदाहरणानि- 1. प्रज्ञः एव प्राज्ञः । 2. वणिग् एव वाणिजः । 3. उशिग् (charming) एव औशिजः । 4. उष्णिग् इत्येव औष्णिहः 5. मनः इत्येव मानसम् । 6. चोरः इत्येव चौरः। 7. वस् इत्येव वासः । अत्र द्वे गणसूत्रे पाठ्येते - 1. श्रोत्र शरीरे - 'शरीरस्य अवयववाचकः यः श्रोत्रशब्दः, तस्मात् स्वार्थे अण् प्रत्ययः भवति । श्रोत्रम् इत्येव श्रौत्रम् । 2. जुह्वत् कृष्णमृगे - यः कृष्णमृगः जुह्वत् अस्ति (= बलिरूपेण विहितः अस्ति / sacrifice इत्याशयः) तस्य निर्देशार्थम् 'जुह्वत्' शब्दात् स्वार्थे अण् प्रत्ययः भवति । जुह्वत् कृष्णमृगः स एव जौह्वतः । ज्ञातव्यम् - केचन पण्डिताः तु केवलं 'कृष्णमृगे' इत्येव गणसूत्रम् स्वीकृत्य 'कृष्णशब्दात् मृगस्य निर्देशार्थमण्-प्रत्ययः स्वार्थे भवति, यथा कार्ष्णः मृगः' इति अर्थम् ज्ञापयन्ति । एते सर्वे शब्दाः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> 4.1.15 इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति । यथा - प्राज्ञी, वाणिजी, चौरी - आदयः । विशेषः - प्रज्ञादिगणः आकृतिगणः अस्तीति अनेकैः पण्डितैः मन्यते । अनेन भिन्नेभ्यः शब्देभ्यः स्वार्थे अण्-प्रत्ययः भवितुम अर्हति । अनेनैव 'बन्धुः एव बान्धवः, जेता एव जैत्रः, गोतमः एव गौतमः' एतादृशाः प्रयोगाः अपि सिद्ध्यन्ति । एवं च <<तद्युक्तात् कर्मणोऽण्>> 5.4.36 इत्यत्र पाठितयोः द्वयोः अपि वार्त्तिकयोः उक्ताः सर्वे शब्दाः प्रज्ञादिगणे स्वीकृत्य तेभ्यः अपि अण्-प्रत्ययः भवितुमर्हति । अस्यां स्थितौ तयोः वार्त्तिकयोः अपि न किञ्चन प्रयोजनम् ।

Balamanorama

Up

<<प्रज्ञादिभ्यश्च>> - प्रज्ञादिभ्यश्च ।स्वार्थे॑ऽणिति शेषः । प्राज्ञ इति । प्रजानातीति प्रज्ञः ।इगुपधज्ञे॑ति कः । प्रज्ञशब्दात्स्वार्थे अण् । प्राज्ञीति । अण्णन्तत्वान्ङीप् । प्रज्ञाअस्यास्तीति विग्रहे तुप्रज्ञाश्रद्धार्चाभ्यः॑ इति णाऽन्ताट्टापि प्राज्ञेति रूपम् ।

Padamanjari

Up

प्रजानातीति प्रज्ञ इति। ठिगुपधज्ञाप्रीकिरः कःऽ इति कः। अथ किमर्थमुभयं क्रियते, इह च प्रज्ञशब्दः पठ।ल्ते, मत्वर्थे च प्रज्ञाशब्दाण्णो विधीयते, यः प्रजानाति तस्य प्रज्ञाऽस्ति, यस्य च प्रज्ञास्ति स प्रजानातीति, ततश्चान्यतरैणैव प्राज्ञ इति सिद्धम्? - इत्याशङ्क्य स्त्रियां विशेष इति दर्शयति - स्त्रियामित्यादि। विदन्, षोडन्निति विभक्त्यन्तयोः पाठ एकत्वविवक्षार्थः। वैचित्र्यार्थः इत्यन्ते। श्रोत्र शरीरे। यः श्रोत्रशब्दः शरीरे वर्तते, असौ अणमुत्पादयति - श्रौत्रम्। अन्यत्र श्रोत्रामिन्द्रियम्। जुह्वत्कृष्णमृग इति। कृष्णमृगे वर्तमानाज्जुह्वच्छब्दादण्प्रत्ययो भवति - जौह्वतः कृष्णमृगः। अन्यत्र जुह्वत्। अपर आह - कृष्णमृगे वर्तमानात्कृष्णशब्दादण्प्रत्ययो भवति - कार्ण्णो मृगः। अन्यत्र तु कृष्णः जुह्वच्छब्दात्वविशेषेणाण्भवतीति। सत्वन्त्विति। सच्छब्दो मत्वन्त आगतनुम्को गृह्यते, सत्वानेव सात्वतः ॥