सस्नौ प्रशंसायाम्

5-4-40 सस्नौ प्रशंसायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः मृदः

Sampurna sutra

Up

index: 5.4.40 sutra: सस्नौ प्रशंसायाम्


प्रशंसायाम् मृदः स-स्नौ

Neelesh Sanskrit Brief

Up

index: 5.4.40 sutra: सस्नौ प्रशंसायाम्


प्रशस्तायाः मृदः निर्देशार्थम् 'मृद्' शब्दात् स्वार्थे 'स' तथा 'स्नौ' प्रत्ययौ भवतः ।

Kashika

Up

index: 5.4.40 sutra: सस्नौ प्रशंसायाम्


प्रशंसोपाधिकेऽर्थे वर्तमानान् मृच्छब्दात् स स्न इत्येतौ प्रत्ययौ भवतः। रूपपः अपवादः। प्रशस्ता मृद् मृत्सा, मृत्स्ना। नित्यश्च अयं प्रत्ययः, उत्तरसूत्रेऽन्यतरस्यां ग्रहणात्।

Siddhanta Kaumudi

Up

index: 5.4.40 sutra: सस्नौ प्रशंसायाम्


रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.40 sutra: सस्नौ प्रशंसायाम्


प्रशंसायाम् गम्यमानायाम् 'मृद्' शब्दात् स्वार्थे 'स' तथा 'स्न' प्रत्ययौ भवतः ।

यथा - प्रशस्ता मृद् (fertile soil) सा मृत्सा मृत्स्ना वा । उभयत्र अजाद्यतष्टाप् 4.1.4 इति टाप् प्रत्ययः विधीयते ।

यद्यपि इदं सूत्रम् समर्थानां प्रथमाद्वा 4.1.82 इत्यस्यां विभाषायाम् पाठ्यते, तथापि अनेन सूत्रेण उक्तौ प्रत्ययौ नित्यौ भवतः । इत्युक्ते, 'प्रशस्ता मृद्' इति वक्तव्यमस्ति चेत् विग्रहवाक्यम् वक्तव्यम्, नो चेत् 'मृत्सा / मृत्स्ना' इति वक्तव्यम् । केवलम् 'मृद्' इति उक्त्वा 'प्रशंस्ता मृद्' इति अर्थः न विधीयते ।

विशेषः - प्रशंसायाम् गम्यमानायाम् औत्सर्गिकरूपेण प्रशंसायां रूपप् 5.3.66 इत्यनेन रूपप्-प्रत्ययः भवति । तत् बाधित्वा 'मृद्' शब्दस्य विषये वर्तमानसूत्रेण 'स' तथा 'स्न' प्रत्ययौ कथ्येते ।

Balamanorama

Up

index: 5.4.40 sutra: सस्नौ प्रशंसायाम्


सस्नौ प्रशंसायाम् - सस्नौ । प्रशस्तायां मृदि वर्तमानान्भृच्छब्दात्स्वार्थे स स्न एतौ प्रत्ययौ स्त इत्यर्थः । रूपप इति ।प्रशंसायां रूपबि॑ति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः । वस्तुतस्तुञ्यादयः प्राग्वुनः॑ इत्यादिपरिगणितेष्वनयोः प्रत्ययोरनन्तर्भावादनित्यत्वमेवाऽनयोरुचितमित्याहुः ।

Padamanjari

Up

index: 5.4.40 sutra: सस्नौ प्रशंसायाम्


उतरसूत्रेऽन्यतरस्यांग्रहणादिति। मृच्छब्दस्य सामान्यशब्दत्वात्, मृदित्युक्ते प्रशंसाया अनवगमाच्च। इह'प्रशंसायां रूपप्' इत्यस्यानन्तरम् -'वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि, मृदस्सस्नौ, तिकंश्च' इति वक्तव्यम्? तथा तु न कृतमित्येव ॥