5-3-19 तदः दा च प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले दानीं
तदः सप्तम्याः काले दा, दानीम् च
'तद्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'दा' तथा 'दानीम्' एतौ प्रत्ययौ स्वार्थे विधीयेते ।
तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनमनर्थकम्, विहितत्वात्॥
तदा । तदानीम् ॥<!तदो दावचनमनर्थकं विहितत्वात् !> (वार्तिकम्) ॥
काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् तद्-शब्दस्य सप्तम्यन्तात् अनेन सूत्रेण 'दानीम्' तथा 'दा' एतौ प्रत्ययौ स्वार्थै उच्येते । यथा - तस्मिन् काले = तस्मिन् + दा / दानीम् → तद् + दा / दानीम् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → तअ + दा/दानीम् [<<त्यदादीनामः>> 7.2.102 इति दकारस्य अकारादेशः] → त + दा/दानीम् [<<अतो गुणे>> 6.1.97 इति पररूपम्] → तदा / तदानीम् अनेन प्रकारेण 'तस्मिन् काले' इत्यस्मिन्नेव अर्थे 'तदा' तथा 'तदानीम्' एतौ शब्दौ सिद्ध्येते । एतयोः द्वयोः अपि <<तद्धितश्चासर्वविभक्तिः>> 1.3.38 इत्यनेन इत्संज्ञा भवति । विशेषः - अस्मिन् सूत्रे 'दा' इति विधानमनावश्यकमस्ति, यतः 'तद्' इत्यमात् 'तस्मिन् काले' इति अभिधेये <<सर्वैकान्यकिंयत्तदः काले दा>> 5.3.15 इत्यनेन 'दा' प्रत्ययः पूर्वरूपेणैव उक्तः अस्ति । अतः इदम् सूत्रम् 'तदो च' इत्येव उच्यते चेदपि अलम् । ज्ञातव्यम् - 'दानीम्' प्रत्यये मकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञायाम् प्राप्तायाम् <<न विभक्तौ तुस्माः>> 1.3.4 इत्यनेन सा निषिध्यते ।
<<तदो दा च>> - तदो दा च । सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति ।सर्वैकान्ये॑त्यनेने॑ति शेषः ।
दावचनमिति। अपर आह - ठदाप्रत्ययोऽयं न दाप्रत्ययःऽ इति, तत्राद्यौदातत्वं पक्षे भवति ॥