दानीं च

5-3-18 दानीं च प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले इदमः

Sampurna sutra

Up

इदमः सप्तम्याः काले दानीम्

Neelesh Sanskrit Brief

Up

'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'दानीम्' इति प्रत्ययः स्वार्थे विधीयते ।

Kashika

Up

इदमः सप्तम्यन्तात् काले वर्तमानाद् दानीं प्रत्ययो भवति। अस्मिन् काल इदानीम्॥

Siddhanta Kaumudi

Up

इदानीम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण 'दानीम्' इति प्रत्ययः पाठ्यते । 'काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् इदम्-शब्दस्य सप्तम्यन्तात् अयम् प्रत्ययः स्वार्थे भवति । अस्मिन् प्रत्यये मकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञायाम् प्राप्तायाम् <<न विभक्तौ तुस्माः>> 1.3.4 इत्यनेन सा निषिध्यते । अस्मिन् काले इत्येव = अस्मिन् + दानीम् → इदम् + दानीम् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → इ + दानीम् ['इदम्' सर्वनाम्नः <<इदम इश्>> 5.3.3 इति इश्-आदेशः । शित्त्वात् सर्वादेशः ।] → इदानीम् अनेन प्रकारेण निर्मितः 'इदानीम्' शब्दः 'अस्मिन् काले' इत्यस्मिन्नेव अर्थे प्रयुज्यते । <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अस्य अव्ययसंज्ञा भवति । स्मर्तव्यम् - <<इदमो र्हिल्>> 5.3.16 इत्यनेन 'इदम्' इत्यस्य सप्तम्यन्तरूपात् 'अस्मिन् काले' इत्यमिन्नेव अर्थे 'र्हि' प्रत्ययः अपि विधीयते, येन 'एतर्हि' इति अव्ययम् सिद्ध्यति । अस्यापि अर्थः 'इदानीम्' इत्येव ।

Balamanorama

Up

<<दानीं च>> - दानीं च । इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति । इदंशब्दाद्दार्नीप्रत्ययः, इश् ।

Padamanjari

Up