तयोर्दार्हिलौ च च्छन्दसि

5-3-20 तयोः दार्हिलौ च छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले

Sampurna sutra

Up

index: 5.3.20 sutra: तयोर्दार्हिलौ च च्छन्दसि


ताभ्याम् दा-र्हिलौ छन्दसि

Neelesh Sanskrit Brief

Up

index: 5.3.20 sutra: तयोर्दार्हिलौ च च्छन्दसि


'इदम्' तथा 'तद्' एत्येताभ्याम् यथासङ्ख्यम् 'दा' तथा 'र्हिल्' एतौ प्रत्ययौ वेदेषु कृतौ दृश्येते ।

Kashika

Up

index: 5.3.20 sutra: तयोर्दार्हिलौ च च्छन्दसि


तयोः इति प्रातिपदिकनिर्देशः। तयोरिदमः तदश्च यथासङ्ख्यं दार्हिलौ प्रत्ययौ भवतश् छन्दसि विषये। चकाराद् यथाप्राप्तं च। इदावत्सरीयः। इदं तर्हि। इदानीम्। तदानीम्।

Siddhanta Kaumudi

Up

index: 5.3.20 sutra: तयोर्दार्हिलौ च च्छन्दसि


इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् (इ॒दा हि व॒ उप॑स्तुतिम्) । तर्हि ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.20 sutra: तयोर्दार्हिलौ च च्छन्दसि


वेदेषु केषुचन स्थलेषु 'इदम्' इत्यस्मात् 'दा' प्रत्ययः तथा 'तद्' इत्यस्मात् 'र्हि' प्रत्ययः कृतः दृश्यते । एतयोः साधुत्वार्थम् वर्तमानसूत्रस्य निर्माणम् कृतमस्ति । क्रमेण पश्यामः -

1) इदम् + दा

→ इदा [इदमः इश् 5.3.3 इति इदम्-इत्यस्य 'इश्' आदेशः । शित्त्वात् सर्वादेशः]

यथा - ऋग्वेदे 8.27.11 - इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।

अत्र 'इदा' इति शब्दः 'अस्मिन् काले' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति ।

  1. तद् + र्हिल्

→ त र्हि [त्यदादीनामः 7.2.102 इति दकारस्य अकारादेशः । अतो गुणे 6.1.97 इति पररूपम्]

→ तर्हि

अयम् 'तर्हि' इति शब्दः 'तस्मिन्' इत्यस्मिन् अर्थे प्रयुज्यते । ('तस्मिन् काले' इत्यस्मिन् अर्थे तु अनद्यतने र्हिलन्यतरस्याम् 5.3.21 इत्यनेन अग्रिमसूत्रेण लौकिकवैदिकसंस्कृतयोः उभयोः अस्य सिद्धिः भवितुमर्हति, अतः तस्य उदाहरणानि अत्र न देयानि)।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'तयोः' इति निर्देशः 'इदम्' तथा 'तद्' एतयोः निर्देशार्थमस्ति । पूर्वसूत्रेषु 'इदम्' तथा 'तद्' एतयोर्विषये आचार्येण उक्तमस्ति, तस्यैव सन्दर्भम् स्वीकृत्य अत्र आचार्यः 'तयोः' इत्यनेन 'इदम्' तथा 'तद्' एतयोः ग्रहणम् करोति ।

  2. पूर्वसूत्रेषु 'इदम्' तथा 'तद्' एताभ्याम् विहिताः अन्ये प्रत्ययाः अपि वेदेषु दृश्यन्ते एव - इति स्मर्तव्यम् ।

  3. अनेन सूत्रेण साधितः 'तर्हि' इति शब्दः केवलम् वैदिकसंस्कृते एव दृश्यते । लौकिकसंस्कृते प्रयुज्यमाणः 'तर्हि' इति शब्दः अनद्यतने र्हिलन्यतरस्याम् 5.3.21 इत्यनेन पाठितः अस्ति ।

Padamanjari

Up

index: 5.3.20 sutra: तयोर्दार्हिलौ च च्छन्दसि


तयोरिति प्रातिपदिकनिर्द्देशः, व्यत्ययेन पञ्चम्याः स्थाने षष्ठी ॥