5-2-54 द्वेः तीयः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे
'तस्य पूरणे' (इति) द्वेः तीयः
षष्ठीसमर्थात् 'द्वि' शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'तीय' प्रत्ययः विधीयते ।
द्विशब्दात् तीयः प्रत्ययो भवति तस्य पूरण इत्यस्मिन् विषये। डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥
डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥
डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥
<<तस्य पूरणे डट्>> 5.2.48 अनेन सूत्रेण 'पूरणम्' अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण 'डट्' प्रत्ययः विधीयते । अस्य अपवादरूपेण 'द्वि' शब्दात् 'तीय' इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । यथा - द्वयोः पूरणः = द्वि + तीय → द्वितीय (second इत्यर्थः) । 'द्वितीय' शब्दात् स्त्रीत्वे विवक्षिते <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्ययः विधीयते, येन 'द्वितीया' इति शब्दः सिद्ध्यति ।
<<द्वेस्तीयः>> - द्वेस्तीयः । द्विसब्दात्षष्ठन्तात्पूरणे तीयप्रत्ययः स्यादित्यर्थः ।
तीयप्रत्ययो भवतीति। डटो द्विशब्दस्य चादेशो न भवति; द्वितीयेति निर्द्देशात्। यद्येवम्, तस्मादेव निर्द्देशान्न सिद्धमस्य साधुत्वम् ? सिद्ध्यतु साधुत्वम्, पूरणाअर्थस्तु कर्थ लभ्यते! किञ्च तदाश्रयणे प्रकृतिप्रत्ययविभागाभावात्प्रातिपदिकस्वरेणान्तोदातत्वं स्यात्, ठबाधकान्यपि निपातनानि भवन्तिऽ इति पक्षे डटः प्रसङ्गश्च ॥