विंशत्यादिभ्यस्तमडन्यतरस्याम्

5-2-56 विंशत्यादिभ्यः तमट् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे

Sampurna sutra

Up

'तस्य पूरणे' (इति) विंशति-आदिभ्यः डटः अन्यतरस्याम् तमट्

Neelesh Sanskrit Brief

Up

षष्ठीसमर्थेभ्यः 'विंशतिः' आदिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति ।

Kashika

Up

विंशत्यादिभ्यः परस्य डटस्तमडागमो भवत्यन्यतरस्याम्। पूरणाधिकाराद् डट् प्रत्यय आगमी विज्ञायते। विंशतेः पूरणो विंशतितमः, विंशः। एकविंशतितमः, एकविंशः। त्रिविंशतितमः, त्रिविंशः। त्रिंशत्तमः, त्रिंशः। एकत्रिंशत्तमः,एकत्रिंशः। विशंत्यादयो लौकिकाः संख्याशब्दा गृह्यन्ते, न पङ्क्त्यादिसूत्रसंनिविष्टाः। तद्ग्रहणे ह्येकविंशतिप्रभृतिभ्यो न स्यात्, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति <<षष्ट्यादेश्चासंख्यादेः>> ५.२.५८ इति पर्युदासो युज्यत एव॥

Siddhanta Kaumudi

Up

एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्य पूरणे डट्>> 5.2.48 अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण 'तमट्' इति विकल्पेन आगमः भवति । यथा - 1. विंशतेः पूरणः = विंशति + डट् [<<तस्य पूरणे डट्>> 5.2.48 इति डट्-प्रत्ययः] → विंशति + तमट् + डट् [<<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> 5.2.53 इति डट्-प्रत्ययस्य विकल्पेन तमट्-आदेशः । <<आद्यन्तौ टकितौ>> 1.1.46 इति आद्यवयवः] → विंशति + तम् + अ [<<टेः>> 6.4.143 इति टिलोपः] → विंशतितम पक्षे तमट्-प्रत्ययस्य अप्राप्तौ 'विंश' इति अपि साधुरूपम् सिद्ध्यति । विंशतेः पूरणम् विंशतितमम् विंशम् वा । Twentieth इत्यर्थः । एवमेव - 2. एकविंशतेः पूरणः एकविंशतितमः एकविंशः वा । 3. द्वाविंशतेः पूरणः द्वाविंशतितमः द्वाविंशः वा । 4. त्रिंशतः पूरणः त्रिंशत्तमः त्रिंशः वा । 5. एकत्रिंशतः पूरणः एकत्रिंशत्तमः एकत्रिंशः वा । 6. एकचत्वारिंशतः पूरणः एकचत्वारिंशत्तमः एकचत्वारिंशः वा । 7. पञ्चाशतः पूरणः पञ्चाशत्तमः पञ्चाशः वा । अनेन प्रकारेण 'विंशति' इत्यस्मात् अग्रे विद्यामानानाम् सङ्ख्याशब्दानां विषये वर्तमानसूत्रेण 'डट्' प्रत्ययस्य विकल्पेन 'तमट्' आगमः भवति । स्मर्तव्यम् - 1. अस्मिन् सूत्रे विद्यमानस्य 'विंशत्यादि' शब्दस्य अर्थः 'विंशति-शब्दः यस्य आदौ विद्यते सः' इति नास्ति, अपितु 'विंशतिः इत्यस्मात् आरभ्य अग्रे विद्यमानाः सर्वाः सङ्ख्याः' इति अस्ति । All numbers greater than or equal to twenty - इति आशयः । 2. 'षष्टि', 'सप्तति', 'अशीति', 'नवति' एतेभ्यः चतुर्भ्यः शब्देभ्यः डट्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'तमट्' आगमे प्राप्ते <<षष्ट्यादेः च असंख्यादेः>> 5.2.58 इत्यनेन नित्यमेव तमट्-आगमः भवति । यथा - षष्टेः पूरणम् षष्टितमम् । 3. 'शत' इत्यस्मात् अग्रे विद्यमानानाम् शब्दानाम् विषये अपि <<नित्यं शतादिमासार्धमाससंवत्सराच्च>> 5.2.57 इत्यनेन नित्यमेव तमट्-आगमः भवति । शतस्य पूरणः शततमः । द्विशतस्य पूरणः द्विशततमः (=200th) । शतोत्तरएकस्य पूरणः शतोत्तरएकतमः (= 101th) । विशेषः - अस्मिन् सूत्र निर्दिष्टः 'विंशत्यादयः' इति शब्दः केषाम् ग्रहणम् करोति अस्मिन् विषये काशिकाकारस्य मतम् भाष्यकारात् भिद्यते । भाष्यकारस्य मतेन अत्र <<पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्>> 5.1.59 इत्यस्मिन् सूत्रे विद्यमानानाम् विंशति-आदीनाम् शब्दानाम् ग्रहणं भवति, न हि लौकिकानां सङ्ख्यावाचीशब्दानाम् । अस्मिन् पक्षे वस्तुतः 'एकविंशति' शब्दात् 'तमट्' आगमः नैव विधीयते, यतः ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । परन्तु अत्र भाष्यकारः विशेषविधानं कृत्वा तदन्तविधिमपि ज्ञापयति । अस्मिन् विषये अधिकम् पिपठिषवः <<षष्ट्यादेश्चासंख्याऽऽदेः>> 5.2.58 अस्य सूत्रस्य भाष्यम् पश्येयुः ।

Balamanorama

Up

<<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> - विंशत्यादिभ्यः । तमटि टकार इत् । मकारादकार उच्चारणार्थः । अत्रपङ्क्तिविंशती॑ति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते नतु लोकप्रसिद्धा एकविशत्यादयोऽपि, विप्रकर्षादिति कैयटः । एकविंशतितम॑ इत्यत्र तु तदन्तविधिना तमडित्यग्रे वक्ष्यते ।

Padamanjari

Up