2-2-3 द्वितीयतृतीयचतुर्थतुर्याणिअन्यतरस्याम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः एकदेशिनि एकाधिकरणे
एकदेशिनैकाधिकरण इति वर्तते। षष्ठीसमासापवादोऽयं योगः। अन्यतरस्यांग्रहणात् सोऽपि षष्ठीसमासो भवति। <<पूरण०>> २.२.११ इति प्रतिषेधश्चात एवान्यतरस्यांग्रहणसामर्थ्याद् न प्रवर्तते। द्वितीयादीनि शब्दरूपाण्येकदेशिनैकाधिकरणेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। द्वितीयं भिक्षायाः, द्वितीयभिक्षा। षष्ठीसमासपक्षे भिक्षाद्वितीयं वा। तृतीयं भिक्षायाः, तृतीयभिक्षा। भिक्षातृतीयं वा। चतुर्थं भिक्षायाः, चतुर्थभिक्षा। भिक्षाचतुर्थं वा। तुर्यं भिक्षायाः, तुर्यभिक्षा। भिक्षातुर्यं वा। तुरीयशब्दस्यापीष्यते। तुरीयं भिक्षायाः, तुरीयभिक्षा। भिक्षातुरीयं वा। एकदेशिनेत्येवद्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरण इत्येव — द्वितीयं भिक्षाणाम्॥
एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् पूरणगुण - <{SK705}> इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥
<<द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्>> - द्वितीयतृतीय । द्वितीयं भिक्षाया इति । विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात्पूर्वनिपातः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः । 'भिक्षाया' इत्यवयवषष्ठी 'द्वितीय' मित्यत्रान्वेति ।द्वितीय॑मित्येतत्तुभिक्षुकस्ये॑त्यत्र कर्मत्वेनान्वेति । न लोके॑ति निषेधान्न षष्ठी । अत्रद्वितीय॑मित्यस्यभिक्षुकस्ये॑त्यनेन समासो न भवति, द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाऽभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धेऽन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह — अन्यतरस्यामिति । अन्यतरस्याङ्रग्रहणसामर्थ्यात्पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठपवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तेत । महाविभाषाधिकारेअपवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये षष्ठआ वे॑ति वाग्रहणेन ज्ञापितत्वादिति भावः । ननुपूरणगुणे॑ति निषेधात्कथमिह षष्ठीसमास इत्यत आह — पूरणगुणेति निषेधं बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयथ्र्यादिति भावः । [इत्येकदेशिसमासनिरूपणम्] ।
द्विदीयतृतीयचतुर्थतुर्याण्यन्यतरस्यात्॥ अन्यतरस्यांग्रहणात्सोऽपि भवतीति ननु च पूरणप्रत्ययान्ता एवैते द्वितीयादयः, तत्र पूरणगुणसुहितेत्यादिना प्रतिषेधेन भवितव्यम्, यदापि'पूरणाद्भगे तीयादन्' इति स्वार्थिकोऽन्प्रत्ययः क्रियते, तदापि'पूरणगुणसुहितार्थ' इत्यर्थशब्दस्य प्रत्येकमभिसम्बन्धात्पूरणार्थग्रहणम्, न तु तदधिकारविहितप्रत्ययग्रहणमिति भवितव्यमेव प्रतिषेधेन, तत्कथं सोऽपि भवतीत्याह - पूरणगुणेत्यादि। वाक्यस्य महाविभाषयैव सिद्धत्वात्षष्ठीसमासप्राप्त्यर्थमेवान्यतरस्यांग्रहणमिति भावः। पूर्वं तु षष्ठीसमासापवादो योग इत्याद्यप्राप्त्यभिप्रायेणोक्तम्। यद्वा - सत्यस्मिन्योगे षष्ठीसमासप्रतिषेधस्यास्य च षष्ठीसमासबोधकत्वमविशिष्टमिति मत्वा तथोक्तम्। अयमपि योगः शक्योऽवक्तुम्, कथम्? समुदायावयवयोरौपचारिके सामानाधिकरण्ये सति द्वितीयभिक्षादि सिद्धम्, मुख्यार्थवृतौ षष्ठीसमासे तु भिक्षाद्वितीयमित्यादि भविष्यतीति। नैतत्सुष्ठूअच्यते, अनेनैव खल्वन्यतरस्यांग्रहणेन षष्ठीसमासः प्राप्यते, कथमस्मिन्योगेऽसति भविष्यति॥