5-2-44 उभात् उदात्तः नित्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा अयच् वा
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
उभात् तयस्य नित्यमुदात्तः अयच्
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
'उभ' शब्दात् विहितस्य तयप्-प्रत्ययस्य नित्यमाद्युदात्तः 'अयच्' आदेशः भवति ।
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
उभशब्दात् परस्य तयपो नित्यमयजादेशो भवति, स चोदात्तः। वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते। उभशब्दो यति लौकिकी सङ्ख्या ततः पूर्वेण एव विहितस्य तयप आदेशविधानार्थं वचनम्। अथ न सङ्ख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यमयजादेशो विधीयते। उभयो मणिः। उभयेऽस्य देवमनुष्याः।
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥। इति तद्धिताधिकारे पाञ्चमिकप्रकरणम् ।
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः। उभयम्॥
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
'उभ' (both) इति शब्दः लौकिकसंस्कृते 'द्वौ' इत्यस्मिन् अर्थे सङख्यारूपेण प्रयुज्यते । अस्मात् शब्दात् संख्याया अवयवे तयप् 5.2.42 इत्यनेन 'अवयवाः अस्य' इत्यस्मिन् अर्थे 'तयप्' प्रत्ययः विधीयते । अस्य तयप्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् 'अयच्' इति आदेशः भवति । यथा -
उभौ (= द्वौ) अवयवौ अस्य
= उभ + तयप् [संख्याया अवयवे तयप् 5.2.42 इति तयप्-प्रत्ययः]
→ उभ + अयच् [वर्तमानसूत्रेण 'तयप्' इत्यस्य 'अयच्' आदेशः]
→ उभ् + अयच् [यस्येति च 6.4.148 इति अकारलोपः]
→ उभय ।
एतादृशम् निर्मितः 'उभय' शब्दः नित्यम् एकवचने एव प्रयुज्यते ।
उदाहरणम् - उभयः मणिः । An bead/gem with two parts - इत्यर्थः ।
अत्र कश्चन विशेषः ज्ञातव्यः । 'उभ' शब्दस्य 'द्वावपि' (both) इति अपि कश्चन अर्थः अस्ति, परन्तु अस्मिन् अर्थे 'उभ' शब्दः सङ्ख्यावाची नास्ति । अस्मिन् अर्थे वस्तुतः संख्याया अवयवे तयप् 5.2.42 इत्यनेन तयप्-प्रत्ययः न भवति । परन्तु अस्यां स्थितौ संख्याया अवयवे तयप् 5.2.42 इत्यस्य योगविभागं कृत्वा केवलम् 'तयप्' इति भिन्नं सूत्रं स्वीकृत्य 'उभ' शब्दात् 'अवयव' अस्मिन् अर्थे 'तयप्'प्रत्ययः विधीयते, यस्य च वर्तमानसूत्रेण 'अयच्' इति आदेशः भवति । यथा -
उभ + तयप्
→ उभ + अयच् [वर्तमानसूत्रेण 'तयप्' इत्यस्य 'अयच्' आदेशः]
→ उभ् + अयच् [यस्येति च 6.4.148 इति अकारलोपः]
→ उभय ।
एतादृशं निर्मितः 'उभय' शब्दः' नित्यम् बहुवचने एव प्रयुज्यते । यथा - उभये देवमनुष्याः । द्वौ राशी समुदायस्य अवयवौ- एकः देवानां राशिः, अपरः मनुष्याणाम् - इति अत्र आशयः अस्ति । 'One section of the group is gods and second section of the group is humans ' - इत्यर्थः ।
अस्मिन् सूत्रे 'उदात्तः' इति अपि निर्देशः क्रियते । अनेन निर्देशेन 'उभय' इति शब्दः आद्युदात्तत्वम् प्राप्नोति । वस्तुतः 'अयच्' प्रत्यये चकारः इत्संज्ञकः अस्ति, येन तद्धितस्य 6.4.164 इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वम् विधीयते । तत् बाधित्वा आद्युदात्तत्वम् कारयितुमत्र 'उदात्तः' इति स्वीक्रियते ।
विशेषः -
अस्मिन् सूत्रे केवलम् 'उदात्तः' इत्येव निर्देशः क्रियते, न हि 'आद्युदात्तः' इति । तर्हि अनेन शब्देन 'अयच्' इत्यस्य 'आद्युदात्तत्वम्' कथं सिद्ध्यति - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'वचनसामर्थ्यात् आदेरुदात्तत्वं विज्ञायते' । इत्युक्ते, अस्मिन् सूत्रे यदि 'उदात्त' शब्दस्य ग्रहणं न क्रियेत, तर्हि तद्धितस्य 6.4.164 इत्यनेन प्रत्ययस्य अन्तोदात्तत्वम् विधीयेत । अतः 'उदात्त' इत्यस्य ग्रहणमस्यैव अन्तोदात्तस्वरस्य बाधकं भवति । इत्युक्ते, प्रत्ययस्य अन्तिमः स्वरः अनेन उदात्तत्वं न प्राप्नोति , अपितु 'आदि'स्वरः एव उदात्तत्वम् प्राप्नोति । अतः अत्र 'उभय' शब्दस्य भकारोत्तर-अकारस्य आद्युदात्तत्वम् निर्दिश्यते ।
अस्मिन् सूत्रे उक्तः 'अयच्' इति शब्दः 'तयप्' प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, न हि स्वतन्त्रप्रत्ययरूपेण । अस्य प्रयोजनम् 'ङीप्' प्रत्ययविधानम् इति अस्ति । स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव 'उभय' शब्दः अपि ङीप्-प्रत्ययं एव स्वीकुर्यात्, येन 'उभयी' इति शब्दः सिद्ध्येत् - इति चिन्तयित्वा अत्र आचार्येण 'अयच्' इति तयप्-प्रत्ययस्य आदेशरूपेण उच्यते ।
विशेषः - यद्यपि 'अयच्' इति प्रत्ययः काशिकायाम् तथा कौमुद्याम् - उभयत्र 'तयप्' प्रत्ययस्य आदेशरूपेण पाठ्यते, तथापि भाष्यकारस्य चिन्तनमस्मिन् विषये सम्पूर्णरूपेण भिद्यते । भाष्यकारः अस्मिन् सूत्रे 'तयस्य' इत्यस्य शब्दस्य अनुवृत्तिमेव न स्वीकरोति ; अतश्च 'अयच्' इति शब्दः 'तयप्' इत्यस्य आदेशरूपेण न मत्वा स्वतन्त्रप्रत्ययरूपेण स्वीकरोति । इत्युक्ते, भाष्यकारस्य मतेन 'उभ' शब्दात् 'अयच्' इति स्वतन्त्रः प्रत्ययः विधीयते । अस्मिन् विषये स्थानिवदादेशोऽनल्विधौ 1.1.56 इत्यत्र भाष्यकारः स्पष्टरूपेण वदति - 'अयच् प्रत्ययान्तरम्' । इत्युक्ते, 'अयच्' इति भिन्नरूपेण प्रत्ययः स्वीकर्तव्यः ; न हि तयप्-प्रत्ययस्य आदेशरूपेण - इति । अस्य कारणम् भाष्यकारेण एतादृशम् दीयते - यदि 'उभ' शब्दात् विहितः 'अयच्' इति प्रत्ययः तयप्-प्रत्ययस्य आदेशरूपेण स्वीक्रियते, तर्हि प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 1.1.33 इत्यनेन यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति, तथैव 'उभय' शब्दः अपि जस्-प्रत्यये परे विकल्पेनैव सर्वनामसंज्ञकः भवेत्, येन 'उभय' शब्दस्य पुंलिङ्गस्य प्रथमाबहुवचनस्य रूपम् 'उभयाः' इति अपि भवेत्, यत् न इष्यते । अतः 'अयच्' इति प्रत्ययः स्वतन्त्ररूपेणैव ग्रहीतव्यः ।
परन्तु एवं क्रियते चेदपि दोषः उद्भवति । यदि 'अयच्' इति तयप्-प्रत्ययस्य आदेशरूपेण न स्वीक्रियते, तर्हि स्त्रीत्वे विवक्षिते 'उभय' इति शब्दः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययम् नैव प्राप्नुयात्, यतः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 अस्मिन् सूत्रे केवलम् 'तयप्' इत्येव गृह्यते, न हि 'अयच्' इति । अस्यां स्थितौ 'उभयी' इति शब्दः एव न सिद्ध्येत् । अस्य समाधानम् अपि भाष्यकारः ददाति - मात्रच इत्येवं भविष्यति । कथम् ? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृति आ अयचश्चकारात् । इत्युक्ते, भाष्यकारस्य मतेन टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यत्र निर्दिष्टः 'मात्रच्' इति शब्दः कस्यचन प्रत्ययस्य निर्देशं न करोति अपितु 'प्रत्याहारस्य' निर्देशं करोति । 'मात्रच्' इति अयम् प्रत्याहारः 'मात्र + च्' इति विभज्य प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यस्मिन् सूत्रे विद्यमानात् 'मात्र' प्रत्ययात् आरभ्य द्वित्रिभ्यां तयस्यायज्वा 5.2.43 इत्यस्मिन् सूत्रे विद्यमानम् 'अयच्' प्रत्ययं यावत् सर्वेषाम् मध्यगानाम् प्रत्ययानामपि ग्रहणं करोति । The word मात्रच् in the aforementioned sutra is considered a प्रत्याहार, which spans all the प्रत्ययाः between प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 and द्वित्रिभ्यां तयस्यायज्वा 5.2.43 । इत्युक्ते, 'मात्रच्' इत्यनेन प्रत्याहारेण 'मात्रच्, अण्, वतुप्, डति, तयप्, अयच्' एते षट्-प्रत्ययाः गृह्यन्ते । एवंप्रकारेण टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यस्मिन् सूत्रे 'अयच्' प्रत्ययस्यापि ग्रहणम् क्रियते, येन 'उभयी' इति शब्दः सिद्ध्यति ।
अस्मिन् विषये अधिकं जिज्ञासवः स्थानिवदादेशोऽनल्विधौ 1.1.56 इत्यस्य भाष्यम् पश्येयुः ।
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
उभादुदात्तो नित्यम् - उभादुदात्तो नित्यं । स चोदात्त इति । आद्युदात्त इत्यर्थः । अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम् । अत्रअयच्प्रत्यय एव विधीयते, नतु तयप आदेशः॑ इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । 'तयप आदेश' इति मूलं तु वार्तिकानुरोधेन ।* इति बालमनोरमायाम् पाञ्चमिकाः । *अथ परस्मैपदप्रक्रिया ।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते — शेषात्कर्तरीति ।
index: 5.2.44 sutra: उभादुदात्तो नित्यम्
उदातवचनसामर्थ्यादिति। अन्तोदातत्वस्य चित्स्वरेणैव सिद्धत्वात्। सर्वोदातत्वं तु न भवति, ठनुदातं पदमेकवर्जम्ऽ इति वचनात्। नापि हे उभयेत्यत्रामन्त्रितानुदातत्वम्, उभयेत्यत्र चामन्त्रिताद्यौदातत्वं बाधितुमुदातवचनम्; पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाधनात्। उभशब्दो यदि लौकिकी संश्येति। उभावित्युक्ते द्वाविति प्रतीतेः। अथ न संक्येति। कृत्वसुजादिसंख्याकार्यादर्शनात्; एकः, उभौ, त्रय इत्येवं लोके गणनाऽदर्शनाच्च। तस्य नित्यमयजादेश इति। अथ प्रत्ययान्तरमेवायः कस्मान्नाश्रितः, तत्रायमप्यर्थः - उदात इति न वक्तव्यं भवति, प्रत्ययस्वरेणैव सिद्धम्; यच्च सर्वनामसंज्ञायामुक्तमुभयशब्दस्य जसि सर्वादिपाठान्नित्या संज्ञा भवति, न'प्रथमचरमतय' इति विभाषा; व्यवस्थितविभाषाविज्ञाणत्पूर्वविप्रतिषेधाद्वेति, तदप्ययत्नसितद्धं भवति, कथम्, न ह्ययं तयप आदेशः ? सत्यम्; उभयीत्यत्र तु तयब्निबन्धन ईकारो न स्यात्। यदि तु ङीब्बिधौ मात्रजित्ययचश्चकारेण प्रत्याहारग्रहणम्, ततः प्रत्ययान्तरत्वेऽप्ययचः सिद्ध ईकारः। उदातग्रहणं नित्यग्रहणं च शक्यमकर्तुम्, ङीब्विधौ च तयपो ग्रहणम्। अथ वा - दघ्नञ्मात्रचोरपि तत्र ग्रहणं शक्यमकर्तुम्, द्वयसजित्येवायचश्चकारेण प्रत्याहारोऽस्तु; ततु तथा नाश्रितमित्येव। उभयो मणिरिति। उभौ पीतलोहिताववयवावस्येत्यवयवद्विनिबन्धनोऽवयविनो व्यपदेशः। उभये देवमनुष्या इति। वर्गद्वयापेक्षमतिरोहितभेदानां वर्गिणामिदमभिधानम् ॥