5-1-8 अजाविभ्यां थ्यन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तस्मै हितम्
index: 5.1.8 sutra: अजाविभ्यां थ्यन्
'तस्मै हितम्' (इति) अज-अविभ्याम् थ्यन्
index: 5.1.8 sutra: अजाविभ्यां थ्यन्
'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'अज'शब्दात् 'अवि'शब्दात् च थ्यन्-प्रत्ययः भवति ।
index: 5.1.8 sutra: अजाविभ्यां थ्यन्
अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। अजथ्या यूथिः। अविथ्या।
index: 5.1.8 sutra: अजाविभ्यां थ्यन्
अजथ्यायूथिः । अविथ्या ॥
index: 5.1.8 sutra: अजाविभ्यां थ्यन्
चतुर्थीसमर्थात् 'अज'शब्दात् तथा 'अवि' (= सूर्यः / ईश्वरः) शब्दात् 'हितम्' अस्मिन् अर्थे थ्यन्-प्रत्ययः भवति ।
अजाय हितमजथ्यम् पुष्पम् । अज + थ्यन् → अजथ्य । स्त्रीत्वे टाप् - अजथ्या यूथिः (jasmine flower).
अवये हितमविथ्यम् चन्दनम् । अवि + थ्यन् → अविथ्य ।
ज्ञातव्यम् - प्रत्यये विद्यमानः इत्संज्ञकः नकारः स्वरार्थः अस्ति । नित्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः भवन्ति ।
index: 5.1.8 sutra: अजाविभ्यां थ्यन्
अजाविभ्यां थ्यन् - अजाविभ्यां थ्यन् । अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य धित्वेऽपिअजाद्यदन्त॑मित्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्योऽजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्यपरिभाषा अजाशब्दादपि थ्यन् ।तसिलादिष्वि॑ति पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् ।
index: 5.1.8 sutra: अजाविभ्यां थ्यन्
अजशब्दोऽयमिह पुंल्लिङ्ग उपातः, अत एव'द्वन्द्वे घि' इत्यविशब्दस्य पूर्वनिपातं बाधित्वा ठजाद्यदन्तम्ऽ इत्यजशब्दस्य पूर्वनिपातः कृतः,'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति स्त्रीलिङ्गादपि थ्यन्भवत्येव - अजायै हितमजथ्यम्,'तसिलादिषु थ्यन्तालौ' इति परिगणनात्पुंवद्भावः ॥