4-4-58 परश्वधात् ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य प्रहरणम्
'तदस्य प्रहरणम्' (इति) परश्वधात् ठञ् ठक् च
'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'परश्वध'शब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः ।
परश्वधशब्दाट् ठञ् प्रत्ययो भवति, चकाराट् ठक्। स्वरे विशेषः। परश्वधः प्रहरणमस्य पारश्वधिकः॥
पारश्वधिकः ॥
'परश्वध' इति 'परशु'समानम् किञ्चन प्रहणम् (शस्त्रम्) । <<प्रहरणम्>> 4.4.57 अस्मिन् अर्थे 'परश्वध'शब्दात् <<प्राग्वहतेष्ठक्>> 4.4.1 इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानसूत्रेण ठञ्-प्रत्ययः अपि विधीयते । द्वयोः प्रत्यययोः प्रयोगेण दृश्यरूपं तु समानमेव भवति - परश्वधं प्रहरणमस्य सः पारश्वधिकः । परन्तु द्वयोः रूपयोः उच्चारणे भेदः वर्तते। ठञ्-प्रत्ययान्तः 'पारश्वधिक'शब्दः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः 'पारश्वधिक'शब्दः <<कितः>> 6.1.165 इत्यनेन अन्तोदात्तः अस्ति । प्रक्रिये एते - 1. परश्वध + ठक् → परश्वध + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → पारश्वध + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → पारश्वध् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → पारश्वधिक 2. परश्वध + ठञ् → परश्वध + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → पारश्वध + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पारश्वध् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → पारश्वधिक
<<परश्वधाट्ठञ्च>> - परआआधाट्ठञ् च ।तदस्य प्रहरण॑मित्येव । चाट्ठक् । 'परशुश्च परआधः' इत्यमरः ।
परश्वधः उ परशु ॥