4-4-56 मड्डुकझर्झरात् अण् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य
index: 4.4.56 sutra: मड्डुकझर्झरादणन्यतरस्याम्
'तदस्य शिल्पम्' (इति) मड्डुक-झर्झरात् अन्यतरस्यामण्
index: 4.4.56 sutra: मड्डुकझर्झरादणन्यतरस्याम्
'अस्य शिल्पम्' अस्मिन् अर्थे प्रथमासमर्थात् मड्डुकशब्दात् झर्झरशब्दात् च विकल्पेन अण्-प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।
index: 4.4.56 sutra: मड्डुकझर्झरादणन्यतरस्याम्
मड्डुकझर्झरशब्दाभ्यामन्यतरस्यामण् प्रत्ययो भवति तदस्य शिल्पम् इत्येतस्मिन् विषये। पक्षे सोऽपि भवति। मड्डुकवादनं शिल्पमस्थ माड्डुकः, माड्डुकिकः। झार्झरः, झार्झरिकः।
index: 4.4.56 sutra: मड्डुकझर्झरादणन्यतरस्याम्
मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥
index: 4.4.56 sutra: मड्डुकझर्झरादणन्यतरस्याम्
'शिल्पम्' इत्युक्ते कौशल्यम् / प्रावीण्यम् । शिल्पम् 4.4.55 अस्मिन्नर्थे प्राविण्यवाचि-प्रथमासमर्थात् प्राग्वहतेष्ठक् 4.4.1 इत्यनेन ठक्-प्रत्यये प्राप्ते तं बाधित्वा मड्डुकशब्दात् झर्झरशब्दात् च वर्तमानसूत्रेण विकल्पेन अण्-प्रत्ययः भवति । पक्षे ठक् अपि विधीयते ।यथा -
मड्डुकवादनम् शिल्पमस्य सः = मड्डुक + अण् → माड्डुक । पक्षे - मड्डुक + ठक् → माड्डुकिक ।
झर्झरवादनम् शिल्पमस्य सः = झर्झर + अण् → झार्झरः । पक्षे - झर्झर + ठक् → झार्झरिक ।
ज्ञातव्यम् - मड्डुकः तथा झर्झरः - द्वावपि वाद्यविशैषणौ ।
index: 4.4.56 sutra: मड्डुकझर्झरादणन्यतरस्याम्
मड्डुकझर्झरादणन्यतरस्याम् - मड्डुकझर्झरात् ।तदस्य शिल्प॑मित्येव । पक्षे ठक् ।मड्डुकझर्झरौ — वाद्यविशेषौ ।
index: 4.4.56 sutra: मड्डुकझर्झरादणन्यतरस्याम्
अयमेव निर्देशो ज्ञापयति -'तद्वादनवृत्तिभ्यो मृदङ्गादिभ्यः प्रत्ययः' इति । न हि मुख्यमड्डुकझर्झरयोः शिल्पेन समानाधिकरण्यमुपपद्यते ॥