मधोः

4-4-139 मधोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि मये

Sampurna sutra

Up

मये (इति) मधोः छन्दसि संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

मधु-शब्दात् मयट्-प्रत्ययस्य अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

यशब्दो निवृत्तः। मधुशब्दाद् मयडर्थे यत् प्रत्ययो भवति। मधव्यान् स्तोकान् (पै०सं०१.८८.२)। मधुमयानित्यर्थः॥

Siddhanta Kaumudi

Up

मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमयः इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'मयट्' इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते - 1. <<मयट् च>> 4.3.82 इत्यनेन <<ततः आगतः>> 4.3.74 अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति । 2. <<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> 4.3.143 इत्यनेन <<तस्य विकारः>> 4.3.134 तथा च <<अवयवे च प्राण्योषधिवृक्षेभ्यः>> 4.3.135 इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति । 3. <<तत्प्रकृतवचने मयट्>> 5.4.21 इत्यनेन 'प्रकृतम् (= प्राचुर्यम्)' अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते । एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु 'मधु'शब्दात् 'यत् 'प्रत्ययः कृतः दृश्यते । मधुनः आगतः / मधुनः विकारः / मधुनः अवयवः / मधु प्रकृतम् = मधु + यत् → मधो + य [<<ओर्गुणः>> 6.4.146 इति गुणः] → मधव् + य [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः] → मधव्य वेदेषु प्रयोगः - (पैप्पलादसंहिता 1.88.2, 'विकारः' अस्मिन् अर्थै) - मधव्यान् स्तोकानपि यान् रराध सं मा तैः सृजतु विश्वकर्मा । ज्ञातव्यम् - अस्मिन् सूत्रे मयट्-प्रत्ययस्य 'आगतः', 'विकारः', 'अवयवः' तथा 'प्रकृतम्' एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - 'आगतः' इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, 'विकारः' तथा 'अवयवः' इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च 'प्रकृतम्' इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति ।

Balamanorama

Up

Padamanjari

Up