मयट् च

4-3-82 मयट् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः हेतुमनुष्येभ्यः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हेतुभ्यो मनुष्येभ्यश्च मयट् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। सममयम्। विषममयम्। मनुष्येभ्यः — देवदत्तमयम्। यज्ञदत्तमयम्। टकारो ङीबर्थः। सममयी। योगविभागो यथासंख्यनिरासार्थः॥

Siddhanta Kaumudi

Up

सममयम् । विषममयम् । देवदत्तमयम् ॥

Laghu Siddhanta Kaumudi

Up

सममयम्। देवदत्तमयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मयट् च>> - मयट् च । 'उक्तविषये' इति शेषः ।

Padamanjari

Up

योगविभागो यथासंख्यनिरासार्थ इति । विकल्पार्थेनान्यतरस्यां ग्रहणेन रूप्यमयटोः पक्षेऽभावः प्रतिपाद्यते, तदभावे स्वशास्त्रेणैव प्राप्तः प्रत्ययो भवति । तेन रूप्यमयटोरेवानेन विधानादसति योगविभागे स्यादेव यथासङ्ख्यमिति भावः ॥