4-3-143 मयट् एतयोः भाषायाम् अभक्ष्याच्छादनयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
प्रकृतिमात्राद् वा मयट् प्रत्ययो भवति भक्ष्याच्छादनवर्जितयोर्विकारावयवयोरर्थयोर्भाषायां विषये यथायथं प्रत्ययेषु प्राप्तेषु। अश्ममयम्, आश्मनम्। मूर्वामयम्, मौर्वम्। भाषायामिति किम्? बैल्वः खादिरो वा यूपः (आप०श्रौ० १८.१.८) स्यात्। अभक्ष्याच्छादनयोरिति किम्? मौद्गः सूपः। कार्पासमाच्छादनम्। एतयोरित्यनेन किम्, यावता विकारावयवौ प्रकृतावेव ? ये विशेषप्रत्ययाः <<प्राणिरजतादिभ्योऽञ्>> ४.३.१५४ इत्येवमादयस्तद्विषयेऽपि यथा स्यात् — कपोतमयम् कापोतम्। लोहमयम्, लौहमिति॥
प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥
प्रकृतिमात्रान्मयड् वा स्याद् विकारावयवयोः। अश्ममयम्, आश्मनम्। अभक्ष्येत्यादि किम्? मौद्गः सूपः। कार्पासमाच्छादनम्॥
<<मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः>> - मयड्वैतयोः । अधिकारादेवविकारावयवयोट॑रिति सिद्धेरेतयोरिति वचनमुक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थमिति भाष्ये स्पष्टम् । तेन विल्वमयं वैल्वमित्यादि सिध्यतीत्यभिप्रेत्य आह — प्रकृतिमात्रादिति । सर्वस्याः प्रकृतेरित्यर्थः । अश्ममयमिति । मयटि अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वम् । नलोपः । आश्मनमिति । कल्माषाङ्घ्रिर्नाम कस्चिद्राजा तत्पत्न्यां वसिष्ठेनोत्पदितोऽश्मक इति । अश्मन्शब्दात्स्वार्थे कप्रत्ययः, तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः ।अ॑न्निति प्रकृतिभावान्न टिलोपः । नच विकारार्थकत्वे 'अश्मनो विकारे' इति टिलोपः शङ्क्यः, तत्र पाषाणवाचनत्वेन प्रसिद्धस्याऽश्मन्शब्दस्यैव ग्रहणादिति भावः ।
मौद्गः सूपः, कार्पासमाच्छादनमिति । उभयत्र बिल्वाद्यण्, विकारावयवयोरभक्ष्याच्छादनयोश्च यथासंख्यं न भवति; विकारावयवयोरसमासनिर्देशेन प्रत्येकमभिसम्बन्धात् । तद्विषयेऽपि यथा स्यादिति । यद्येतयोरिति नोच्येत, उतरैर्विशेषप्रत्ययैरञादिभिः सम्प्रधारणायां परत्वात एव स्युः, पूर्वेषां विशेषप्रत्ययानां मयडभावपक्षे सावकाशत्वान्मयट्पक्षे परत्वान्मयडेव लभ्यत इति प्राणिरजतादिभ्योऽञादय एत्युक्तम् । ठेतयोःऽ इति वचनं पुनर्विधानार्थं सम्पद्यत इति परेषामपि विषये मयड् भवति ॥