ग्रामजनबन्धुसहायेभ्यः तल्

4-2-43 ग्रामजनबन्धुसहायेभ्यः तल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

तस्य समूहः (इति) ग्राम-जन-बन्धु-सहायेभ्यः तल्

Neelesh Sanskrit Brief

Up

'तस्य समूहः' अस्मिन् अर्थे ग्राम, जन, बन्धु, सहाय - एतेभ्यः शब्देभ्यः 'तल्' प्रत्ययः विधीयते ।

Neelesh English Brief

Up

The words ग्राम, जन, बन्धु, सहाय get the प्रत्यय तल् to express the meaning of 'तस्य समूहः'

Kashika

Up

ग्रामादिभ्यस्तल् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। ग्रामाणां समूहो ग्रामता। जनता। बन्धुता। सहायता॥ गजाच्चेति वक्तव्यम्॥ गजानां समूहो गजता॥

Siddhanta Kaumudi

Up

ग्रामता । जनता । बन्धुता ।<!गजसहायाभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ गजता । सहायता ।<!अह्नः खः क्रतौ !> (वार्तिकम्) ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । अह्नष्टखोरेव <{SK789}> इति नियमाट्टिलोपो न ।<!पर्श्वा णस् वक्तव्यः !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

तलन्तं स्त्रियाम्। ग्रमता। जनता। बन्धुता। <<गजसहायाभ्यां चेति वक्तव्यम्>> (वार्त्तिकम्) । गजता। सहायता। <<अह्नः खः क्रतौ>> (वार्त्तिकम्) । अहीनः॥

Neelesh Sanskrit Detailed

Up

<<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे ग्राम, जन, बन्धु, सहाय - एतेभ्यः 'तल्' इति प्रत्ययः विधीयते । <<तलन्तः>> इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः एतेषां टाप्-प्रत्ययः अपि भवति । यथा - 1. ग्रामाणां समूहः = ग्राम + तल् + टाप् → ग्रामता । 2. जनानां समूहः = जन + तल् + टाप् → जनता । 3. बन्धूनां समूहः = बन्धु + तल् + टाप् → बन्धुता । 4. सहायानां समूहः = सहाय + तल् + टाप् → सहायता । अत्र एकं वार्त्तिकमपि ज्ञातव्यम् - <!गजात् चेति वक्तव्यम्!> । इत्युक्ते, 'गजानाम् समूहः' इत्यत्रापि तल्-प्रत्ययः एव भवति । गजानां समूहः = गज + तल् + टाप् → गजता ।

Balamanorama

Up

<<ग्रामजनबन्धुसहायेभ्यः तल्>> - ग्रामजन । समूह इत्येव । ग्रामतेत्यादि । ग्रामाणां, जनानां, बन्धूनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात्, 'तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसूत्राच्च । गजसहायाभ्यां चेति । आभ्यामपि समूहे तलिलि वक्तव्यमित्यर्थः ।अह्नः खः क्रतौ इति । वार्तिकमिदम् । क्रतौ वर्तमाना दहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः । अहीन इति । अहश्शब्देन सौत्यान्यहानि विवक्षितानि । तेषां समूह इति विग्रहः । अहन्शब्दात् खः, ईनादेशः ।अह्नष्टखोरेवे॑ति ट्लोपे इति भावः । फलितमाह — अहर्गणेति । आह्न इति । अह्नां समूह इति विग्रहः । इह क्रत्वप्रतीतेर्न ख इति भावः ।अचित्तहस्तिधेनो॑रिति ठकमाशङ्कयाह — इहेति ।खण्डिकादिभ्यश्चे॑त्यठित्यर्थः । नन्वेवं सति 'अन्' इति प्रकृतिभावस्याऽणि विहितस्यात्राऽसंभवाट्टिलोपः स्यादित्यत आह — आह्नष्टखोरेवेतीति । टिलोपाऽभावे सति 'अल्लोपोऽनः' इत्यकारलोपे 'आह्न' इति रूपमिति भावः । पर्ाआ णसिति । अणोऽपवादः । पर्शुशब्द उकारान्तस्त्रीलिङ्गः पार्ागतास्थिवाची । तस्माण्णसि ओर्गुणे प्राप्ते-सिति च ।सुप्तिङन्तं पद॑मित्यतः पदमित्यनुवर्तते । तदाह — सिति परे पूर्वं पदसंज्ञमिति । सकार इत् यस्य स सित् ।स्वादिष्वसर्वनामस्थाने॑इत्येव सिद्धे भसंज्ञापवादोऽयम् । अभत्वादिति । पदत्वेनानेन भत्वस्य बाधादिति भावः । पार्ामिति । पर्शु-अ इति स्थिते 'इकोऽसवर्णे' इति शाकल्यह्रस्वप्रकृतिभावयोःसिति चे॑ति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्ामिति रूपमिति भावः ।

Padamanjari

Up