ठञ् कवचिनश्च

4-2-41 ठञ् कवचिनः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः केदारात्

Sampurna sutra

Up

index: 4.2.41 sutra: ठञ् कवचिनश्च


तस्य समूहः (इति) केदारात् कवचिनः च ठञ्

Neelesh Sanskrit Brief

Up

index: 4.2.41 sutra: ठञ् कवचिनश्च


'तस्य समूहः' अस्मिन् अर्थे केदार-शब्दात् कवचिन्-शब्दात् च 'ठञ्' प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.41 sutra: ठञ् कवचिनश्च


The words केदार and कवचिन् get the ठञ् प्रत्यय in the meaning of 'तस्य समूहः'.

Kashika

Up

index: 4.2.41 sutra: ठञ् कवचिनश्च


कवचिन् शब्दात् ठञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। कवचिनाम् समूहः कावचिकम्। चकारः केदारातित्यस्य अनुकर्षणार्थः। केदाराणां समूहः कैदारिकम्।

Siddhanta Kaumudi

Up

index: 4.2.41 sutra: ठञ् कवचिनश्च


चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.41 sutra: ठञ् कवचिनश्च


तस्य समूहः 4.2.37 अस्मिन् अर्थे केदार-शब्दात् केदारात् यञ्च 4.2.40 इत्यनेन यञ् तथा वुञ्-प्रत्यययोः प्राप्तयोः अनेन सूत्रेण ठञ्-प्रत्ययः अपि भवति । तथा, कवचिन् (= यः कवचं धारयति सः) शब्दात् अपि वर्तमानसूत्रेण ठञ्-प्रत्ययः उच्यते ।

  1. केदाराणाम् समूहः

= केदार + ठञ्

→ केदार + इक [ठस्येकः 7.3.50 इति ठकारस्य इक्-आदेशः]

→ कैदार + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ कैदार् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ कैदारिक

  1. कवचिनां समूहः

= कवचिन् + ठक्

→ कवचिन् + इक [ठस्येकः 7.3.50 इति ठकारस्य इक्-आदेशः]

→ कावचिन् + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ कावच् + इक [नस्तद्धिते 6.4.144 इति टिलोपः]

→ कावचिक

Balamanorama

Up

index: 4.2.41 sutra: ठञ् कवचिनश्च


ठञ् कवचिनश्च - ठञ्कवचिनश्च । केदारादपीति । कवचिन्शब्दात्केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति । ठञ्, इकादेशे टिलोपः ।