4-2-41 ठञ् कवचिनः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः केदारात्
तस्य समूहः (इति) केदारात् कवचिनः च ठञ्
'तस्य समूहः' अस्मिन् अर्थे केदार-शब्दात् कवचिन्-शब्दात् च 'ठञ्' प्रत्ययः भवति ।
The words केदार and कवचिन् get the ठञ् प्रत्यय in the meaning of 'तस्य समूहः'.
कवचिन्शब्दाद् ठञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कवचिनां समूहः कावचिकम्। चकारः केदारादित्यस्यानुकर्षणार्थः। केदाराणां समूहः कैदारिकम् ॥
चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥
<<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे केदार-शब्दात् <<केदारात् यञ्च>> 4.2.40 इत्यनेन यञ् तथा वुञ्-प्रत्यययोः प्राप्तयोः अनेन सूत्रेण ठञ्-प्रत्ययः अपि भवति । तथा, कवचिन् (= यः कवचं धारयति सः) शब्दात् अपि वर्तमानसूत्रेण ठञ्-प्रत्ययः उच्यते । 1. केदाराणाम् समूहः = केदार + ठञ् → केदार + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इक्-आदेशः] → कैदार + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कैदार् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कैदारिक 2. कवचिनां समूहः = कवचिन् + ठक् → कवचिन् + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इक्-आदेशः] → कावचिन् + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कावच् + इक [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → कावचिक
<<ठञ् कवचिनश्च>> - ठञ्कवचिनश्च । केदारादपीति । कवचिन्शब्दात्केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति । ठञ्, इकादेशे टिलोपः ।