संख्यासुपूर्वस्य

5-4-140 सङ्ख्यासुपूर्वस्य प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः। द्वौ पादावस्य द्विपात्। त्रिपात्। शोभनौ पादावस्य सुपात्॥

Siddhanta Kaumudi

Up

पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥

Laghu Siddhanta Kaumudi

Up

पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ। द्विपात्। सुपात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संख्यासुपूर्वस्य>> - सङ्ख्यासुपूर्वस्य । शेषपूरणेन सूत्रं व्याचष्टे — पादस्येति । उपमानात्परत्वाऽभावादप्राप्तौ वचनम् । द्विपादिति । द्वौ पादावस्येति विग्रहः । सुपादिति । शोभनौ पादावस्येति विग्रहः ।

Padamanjari

Up